________________
૨૦૪
જૈન તર્કભાષા वहाराभासः, यथा चार्वाकदर्शनम् चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिप्रविभाग कल्पनारोपितत्वेनापलुतेऽविचारितरमणीयं भूतचतुष्टयप्रविभागमानं तु स्थूललोकव्यवहारानुयायिमानत्वं हेतुर्ब्रह्मात्मना व्यभिचारी, तस्य प्रतीयमानत्वेऽपि सत्यरूपत्वाभ्युपगमादप्रतीयमानत्वे त्वस्य तद्विषयकवचसामप्रवृत्तेर्मूकतैव तेषां श्रयस्करी । साध्यविकलश्च दृष्टान्तः शुक्तिकारजतयोरपि प्रपञ्चान्तर्गतत्वेन तत्र मिथ्यात्वस्य साध्यमानत्वात् । किञ्च, प्रपञ्चवाधकमिदमनुमानं प्रपञ्चाद् भिन्नमभिन्नं वा ? यदि भिन्नं तर्हि सत्यमसत्यं वा ? यदि सत्यं तर्हि तद्वदेव प्रपञ्चस्यापि सत्यत्वं स्यात्, तथा च भग्नोऽद्वैतवादप्राकारः | अथासत्यम्, तर्हि तस्यावस्तुत्वादेव न तेन किञ्चित् साधयितुं शक्यम् । अभिन्नं चेत्, प्रपञ्चस्वाभाव्यात्तस्यापि मिथ्यारूपतया न स्वसाध्यसाधनसामर्थ्यमिति नाद्वैतवादस्तत्त्वतस्तात्त्विकः ।
'प्रमाणप्रतिपन्नमिति - अहं सखी दाखी वेत्यादि प्रत्यक्षमेव तावद देहातिरिक्तात्मद्रव्यलक्षणविषयमन्तरेण नोपपद्यते । न च तत्रत्याहम्प्रत्ययो देहालम्बन इति वाच्यम्, अन्धकारादौ बाह्यशरीरेण सहालोकादिसापेक्षचक्षुरिन्द्रियस्य स्वविषयग्राहकस्य सन्निकर्षलक्षणव्यापाराभावेऽप्युपजायमानस्य 'अहं सुखी'त्यादि प्रत्यक्षस्य चाक्षुषत्वासम्भवात्, मानसस्य च तस्य बहिरिन्द्रियसहकारेण जायमानस्य बहिर्देहादिविषयकत्वासम्भवेऽन्तर्व्यवस्थितात्मविषयकत्वमेवाभ्युपगन्तव्यमिति प्रत्यक्षप्रमाणसिद्ध आत्मा । अस्ति चानुमानप्रमाणमपि तथाहि - इन्द्रियं सकर्तृकं करणत्वात् वास्यादिवत्, न च शरीरमेव तत्र कर्ता इति वाच्यम् वाल्यशरीरत्यागेन यौवने बाल्यकालानुभूतस्य स्मरणं न स्याद् अनुभवस्मरणयोः सामानाधिकरण्यप्रत्यासत्त्योत्पादनियमादन्यथा अन्यदृष्टस्य स्मरणमन्यस्य स्यादिति । शरीरभिन्न आत्मा एव कर्तृत्वेनऽभ्युपेयः । किञ्च, ज्ञानादयः साश्रया गुणत्वाद् रूपादिवद् इत्यप्यनुमानं द्रष्टव्यम् । न च शरीरमेवाश्रय इति कल्पयितुं न्याय्यम्, तथा सति स्थूलदेहस्य ज्ञानाधिक्यं, कृशशरीरस्य च मतिमान्द्यं स्यात्, न चैतद् दृष्टमिष्टं वा, अन्यथाऽपि दर्शनादिति शरीरव्यतिरिक्तो जीव एवाश्रयत्वेन कल्प्यते। शब्दप्रमाणमपि अत्र प्रवर्तते तथाहि- शब्दकोशे तावत् जीवप्रतिपादनपराश्चेतन-आत्मा-इत्यादिशब्दा देहप्रतिपादनपरात् शरीर-काया-देहादि-लक्षणाच्छब्दाद् भिन्नार्थतया કે સમસ્ત અદ્વૈતવાદિ દર્શન (વેદાન્ત વગેરે)ની માન્યતા તથા સાંખ્યદર્શનની માત્ર પ્રકૃતિ જ મૂળતત્ત્વ છે मेवी) मान्यता.
વ્યવહારાભાસ : દ્રવ્ય-પર્યાયોના અપારમાર્થિક વિભાગને જે માને તે અભિપ્રાયને વ્યવહારાભાસ જાણવો. જેમ કે ચાર્વાકદર્શનની માન્યતા. સામાન્યથી (= સ્કૂલ રીતે) જોઈએ તો બાહ્ય ઈન્દ્રિયો દ્વારા પ્રત્યક્ષ અનુભવાતા પદાર્થોની સત્તા જ લોકમાં મનાય છે અને લોકવ્યવહાર પણ તેના આધારે જ ચાલે છે અને આ વ્યવહાર યથાર્થ પણ છે. પરંતુ ઈન્દ્રિયપ્રત્યક્ષ હોય એટલું જે માનીએ બાકી ઈન્દ્રિયોથી અગમ્ય કોઈ પદાર્થો છે જ નહીં' આવું કોઈ માને ત્યારે એ માન્યતા વ્યવહારાભાસરૂપ બની જાય છે. ચાર્વાકદર્શન અતીન્દ્રિય એવા જીવ-પુણ્ય-પાપ-સ્વર્ગ-નરક-મોક્ષાદિ પદાર્થોને માનતું નથી. પ્રમાણ દ્વારા સિદ્ધ થયેલા એવા જીવ અને તેના જ્ઞાનાદિરૂપ પર્યાયોને તે લોકો માનતા નથી અને દેખ્યું એટલું સાચું ના ભૂલ લોકવ્યવહારને
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org