________________
નયપરિચ્છેદ
૨૦૫ तया समर्थयत इति । वर्तमानपर्यायाभ्युपगन्ता सर्वथा द्रव्यापलापी ऋजुसूत्राभासः, यथा दृश्यन्ते । किञ्च, ममोदरं तुदतीत्यादौ षष्ठ्या भेदबोधनात् आत्मा सिद्ध्यति, अन्यथा अहं तुदामीति प्रयोगापत्तिः स्यादिति प्रमाणप्रतिपन्नो जीवः । उपलक्षणादिदमपि द्रष्टव्यम् → लोकव्यवहारमार्गाननुसारितया परमाणुमनभ्युपगन्त्रभिप्रायोऽपि व्यवहाराभासः । न च यदेव, साक्षान्न विशददर्शने चकास्ति तत्सर्वमपलप्यते, घटादिवस्तुनोऽप्यर्वाग्भागवर्तित्वडमात्रप्रतिभासितया मध्यपरभागादीनामपलापप्रसङ्गात् । तथा च लोकव्यवहारोऽपि विशीर्यंत । अथात्रानुमानवलेन व्यवहारक्षमसम्पूर्णवस्तुसाधनम्, एवं तर्हि परमाणुसाधनमपि कुरु, को वारयिता? अनुमानप्रयोगश्च एवं- परिमाणं जघन्योत्कृष्टविश्रान्तिस्थानवत् तरतमभावापन्नत्वात् ज्ञानवत् । यथा च तारतम्यवज्ज्ञानं जघन्यतः सूक्ष्मनिगोदापर्याप्तकजीवे, उत्कर्षतस्तु केवलिनि विश्रान्तं तथैव परिमाणमपि उत्कर्षत आकाशादिषु विश्रान्तं सत् जघन्यतोऽपि कुत्रचिद्विश्रान्तमिति वाच्यम्, तदेव हि परमाणुरभिधीयते । यथा, व्यणुकरादिस्कन्धो भेद्यो, मूर्तत्वे सति सावयवत्वात्, कुम्भवत् । सावयवैराकाशादिभिर्व्यभिचारपरिहारार्थ सत्यन्तं हेतुविशेषणम् । ये च द्व्यणुकादिभेदानन्तरमंशाः समुत्पद्यन्तेऽवयवास्ते परमाणवः । किञ्च, सन्ति परमाणवः स्थूलावयविनिष्पत्त्यन्यथानुपपत्तेः, इत्यन्तर्व्याप्त्यापि परमाणुसिद्धिः ।
'सर्वथा द्रव्यापलापी ऋजुसूत्राभास' इति - ‘वार्तमानिकमेव वस्तु, न तु त्रैकालिकावस्थानुयायि मौक्तिककणनिकरानुस्यूतैकसूत्रवदेकं द्रव्यमिति ऋजुसूत्राभासाभिप्रायः । अयम्भावः - अयं हि बौद्धमतः यद् ‘घटादि वस्तु न स्थायिभावं भजते, प्रतिक्षणं विनाशसद्भावात् । न च ‘स एवायमि'त्यादिलक्षणा प्रत्यभिज्ञा विशीर्येतेति वाच्यम्, निरन्तरसदृशापरापरक्षणोत्पादाद् अविद्यानुबन्धाच्च सोपपद्यते । पूर्वक्षणविनाशकाल एव तत्सदृशं क्षणान्तरमुदयते । तेनाकारविलक्षणत्वाभावादव्यवधानाच्च निरन्वयनाशेऽपि ‘स एवायम्' इत्यभेदाध्यवसायी प्रत्ययः प्रसूयते । तत्त्वतः स भ्रान्त एव, लूनोत्पन्नकुशकेशादिषु दृश्यमान ‘स एवायमिति प्रत्ययवत् । ततश्च यत्सत्तत्क्षणिकमिति तदभिप्रायः । अस्मिन् मते पूर्वक्षण एवोत्तरक्षणस्योपादानमिति । आत्माऽपि बौद्धमते विज्ञानक्षणपरम्परामात्रमेव न पुनर्भवान्तरानुयायी शाश्वतद्रव्यरूपः कश्चन सिद्ध्यति । तन्न सम्यक्, अनेकदोषकदम्बकलङ्कितत्वात् क्षणिकवादस्य । तथाहि - येन ज्ञानक्षणेन सदनुष्ठानमसदनुष्ठानं वाऽनुष्ठितं तस्य तु निरन्वयविनाशान्न तत्फलोपभोगः । यस्य च फलोपभोगो, न तेन तत्कर्म कृतमिति भीमशकुनिआहारनीहारवार्तावत् प्राच्यज्ञानक्षणस्य कृतकर्मप्रणाशो दोषः स्वकृतकर्मफलानुपभोगात्, उत्तरઅવલંબીને પૃથ્વી-જલ-તેજ-વાયુરૂપ ભૂતચતુષ્ટયને જ માને છે અર્થાત્ સમગ્ર જગતને પ્રત્યક્ષ દેખાતા એવા ભૂતચતુષ્ટયાત્મક માને છે.
ઋજુસૂત્રાભાસ : વર્તમાનકાળના પર્યાયને જ સ્વીકારનારો અને (એ પર્યાય જેનો છે એવા સ્થાયિ) દ્રવ્યનો સર્વથા નિષેધ કરનારો અભિપ્રાય તે ઋજુસૂત્રાભાસ. જેમ કે તાથાગત (= બૌદ્ધ) મત. સૈકાલિક દ્રવ્ય સાથે પર્યાયોનો સંબંધ અનુભવસિદ્ધ છે. “હું નાનો હતો, હું યુવાન છું, હું ઘરડો થઈશ' અહીં ત્રણ જુદા જુદા પર્યાયોની પ્રતીતિઓમાં પણ “હું ની એકસરખી પ્રતીતિ થાય છે. પરંતુ બૌદ્ધ મત તો વર્તમાનક્ષણે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org