________________
૨૦૬
જૈન તર્કભાષા ताथागतं मतं । कालादिभेदेनार्थभेदमेवाभ्युपगच्छन् शब्दाभासः, यथा बभूव भवति भविज्ञानक्षणस्य चाकृतकर्मभोगः, स्वयमकृतस्यापि परकृतकर्मणो फलोपभोगात् ।
किञ्च, मतेऽस्मिन् परलोकाभावप्रसङ्गः, परलोकिनः कस्यचिदभावात् । यच्च मोक्षाकरगुप्तेन 'यच्चित्तं तच्चित्तान्तरं प्रतिसन्धत्ते, यथेदानीन्तनं चित्तं, चित्तं च मरणकालभावि' इति भवपरम्परासिद्धये प्रमाणप्रदर्शनप्रयासः कृतः तदपि आयासमात्रम्, निरन्वयनाशिचित्तक्षणानां चित्तान्तरप्रतिसन्धानायोगात्, प्रतिसन्धानं हि द्वयोरवस्थितयोरुभयानुगामिना केनचित् क्रियते । यश्चानयोः प्रतिसन्धाता, स तेन नाभ्युपेयते, स ह्यात्मान्वयी इति यत्किञ्चिदेतत् । परलोकाभावदोषवत् मोक्षाभावोऽपि स्यादेव । कः प्रेत्य सुखीभवनार्थं यतिष्यते ? ज्ञानक्षणोऽपि संसारी कथमपरज्ञानक्षणसुखीभवनार्थं घटिष्यते । न हि दुखितो देवदत्तो यज्ञदत्तसुखाय चेष्टमानो दृष्टः । तथा च स्फुट एव मोक्षाभावः । अपि च स्मरणाभावदोषोऽपि समापतति । पूर्वज्ञानक्षणानुभूतार्थविषयिणी स्मृतिर्नोत्तरवर्तिज्ञानक्षणानां सम्भवति, अनुभवस्मरणयोः समानाधिकरणप्रत्यासत्त्योत्पत्तिनियमादित्यहमहमिकया बहवो दोषकीटका प्रविशन्ति । ततश्च जर्जरितोऽयं क्षणिकवादोऽपि क्षणिक एवेति न प्रामाणिकसदसि क्षणमप्यवस्थातुमलम् ।
अयमत्र विवेकः - यद् बुद्धेन 'सर्वं क्षणिकं क्षणिकं, सर्वं दुःखं दुःखं, सर्वं स्वलक्षणं स्वलक्षणं, सर्वं शून्यं शून्यमिति भावनाचतुष्टयमभ्यधायि, तत्तु अनादिप्ररूढजडरागसंस्कारोच्छित्यै वैराग्यवृद्ध्यै चोपयोगीति नात्र विवदामः, यदस्मदीयग्रन्थेऽपि 'कुशशिरसि नीरमिव गलदनिलकम्पितं विनय ! जानीहि जीवितमसारं' (शांतसुधारस) इत्यादिकं बहुश उक्तमेव । वासनाया विपरीतभावनानाश्यत्वनियमात् । किन्तु एवं सति नैव भवदीयः क्षणिकवादो वास्तविकः । नहि औषधरुपेण वैद्येन प्रदीयमानं वस्तु आहारतयोपादातुं शक्यमुचितं वा । न हि जीवनस्य जलबिन्दुचञ्चलत्वं शास्त्रोपनिबद्धमपि निशम्य जातमात्रस्य बालकस्य अन्त्यसंस्कारः कर्तुमुचितमिति क्षणिकवादोऽपि इत्थमापेक्षिकतया भावनाविषयत्वेन स्वीक्रियमाणो न दोषावह इतरथा तु स्यादेवेत्युत्पश्यामः ।
उपलक्षणादिदमप्यवगन्तव्यम् - ऋजुसूत्रो दृष्टापलापेनादृष्टमेव क्षणक्षयिपरमाणुलक्षणं वस्तुस्वरूपं परमार्थतया समर्थयमानोऽपि दुर्नयतामास्कन्दति । स हि स्वावयवव्यापिनं कालान्तरसञ्चरिष्णुमाकारं साक्षा
लक्षयन् पश्चात् कुयुक्तिबलेन विवेचयेद्, यदुतैष स्थिरस्थूरो दृश्यमानः खल्वाकारो न घटामियर्ति, विचाराक्षमत्वादित्यादिना। न तेऽवयविनं कञ्चनमभ्युपेयते, परमाणुपुञ्जात्मकं घटादिवस्तु च मन्यते । तन्न વિદ્યમાન પર્યાયને જ માને છે. અતીત કે અનાગત કાળની કોઈ વસ્તુને તેઓ માનતા નથી માટે આ ઋજુસૂત્રાભાસ છે.
શબ્દાભાસ : કાળ આદિના ભેદથી શબ્દથી અર્થમાં એકાંતે ભેદ માનનાર તે શબ્દાભાસ. જેમ કે સૂમેરુ હતો, છે અને રહેશે” વગેરે સ્થળોએ ભિન્નભિન્ન કાળવાચી શબ્દો ભિન્ન ભિન્ન અર્થનું જ પ્રતિપાદન કરે છે કારણ કે તેઓ ભિન્ન કાળવાચી શબ્દો છે. જેમ કે ભિન્નઅર્થપ્રતિપાદક ભિન્નકાળવાચી અન્યશબ્દો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org