Book Title: Jain Tarkabhasha
Author(s): Yashovijay Upadhyay, Udayvallabhvijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 260
________________ નિક્ષેપપરિચ્છેદ भावजीवो भवति नान्य इति एतदपि नानवद्यमिति तत्त्वार्थटीकाकृतः । इदं पुनरिहावधेयं इत्थं संसारिजीवे द्रव्यत्वेऽपि भावत्वाविरोधः, नामादीनां भावाविनाभूतत्वप्रतिपादनात् । तदाह भाष्यकार: १" अहवा वत्थूभिहाणं, नामं ठवणा य जो तयागारो । - - Jain Education International ૨૪૧ 'नामादिघटा अपि घटा एव घटत्वप्रकारकव्यवहारविषयत्वात् भावघटवत्' । अत्रोच्यते व्यवहारस्तु शब्दाभिलापरूपः, प्रवृत्तिरूपो वेति द्विधा । तत्र शब्दाभिलाभरूपव्यवहारस्तु नामादिघटे सम्प्रवर्तत एव किन्तु शब्दगतविवक्षितघटाद्यर्थवाचकतास्वभावनियम्यः तादृशो व्यवहारों न स्वविषये घटत्वादि प्रयोजकः । शब्दाभिलापात्मकव्यवहारो व्यवहार्यविषयस्वरूपनिर्णये न तन्त्रमित्यर्थः । किं तर्हि ? प्रवृत्तिलक्षणव्यवहार एव तथा, स च नामादिघटे न सम्भवति तेषां जलाहरणाद्यर्थक्रियासामार्थ्यविकलत्वात् । ननु घटशब्दार्थत्वाविशेषेऽपि नामादिघटचतुष्टये, भावघटे एव घटत्वं नापरत्रेत्यत्र किं नियामकमिति चेत् ? अर्थक्रियैवेति गृहाणेति शब्दनयाभिप्रायः । ततश्च नेच्छत्येव भावनिक्षेपादपरं शब्दनयः, समभिरूढ - एवम्भूतौ तु तत्तोऽपि विशुद्धतरतया नेच्छत एव नामादित्रयमिति । अत एवानुपचरितं घटशब्दार्थत्वम् भावघटे एव, अन्यत्र तूपचरितमिति विशेषोऽपि गीयते, इत्थं च घटशब्दार्थत्वाविशेषेऽपि' इत्यादिकमपि निरस्तं द्रष्टव्यम् । अयम्भावः 'घट चेष्टायाम्' इति वचनात् चेष्टार्थकधातुनिष्पन्नो घटशब्दः, स च कथं जलाहरणाद्यर्थक्रियाविकले नामादिघटे उपचारव्यतिरेकेण प्रवर्तेत ततश्चोपचरितमेवायातं घटशब्दार्थत्वं नामादिघटे, भावघट एव च तदनुपचरितं तस्यार्थक्रियासमर्थत्वात्, इति स्फुट एव विशेष उभयत्रत्यघटशब्दार्थत्वस्येति नयरहस्योक्तसंक्षेपः । इत्थं च ‘अर्थाभिधानप्रत्ययानां तुल्यत्वं न वस्तुतः शब्दादिनयसंमतमुपचारतस्तु स्यादपीति । अत एव नामनिक्षेपप्रतिपादनावसरे नामनिष्ठनामवाच्यत्वलक्षणा परिणति उपचारत: एव दर्शिता । इति निक्षेपपरिच्छेदविवरणम् । एकवस्तुगतानां કે એક જ વસ્તુમાં રહેલ નામ-સ્થાપના અને દ્રવ્યએ ત્રણે, ભાવને અવિનાભાવી છે એવું શ્રીવિશેષાવશ્યકભાષ્યમાં કહેવાયું છે. આ જુઓ - ‘વસ્તુના અભિધાનને નામ કહેવાય છે, વસ્તુના આકારને સ્થાપના કહેવાય છે, વસ્તુમાં પોતાના જ ભાવિ પર્યાયની જે કારણતા રહી છે તેને દ્રવ્ય કહેવાય છે અને અમુક કાર્યદશાને પામેલી તે વસ્તુ પોતે જ ભાવ કહેવાય છે.’ આ શ્લોક એક જ વસ્તુમાં ચારે ય નિક્ષેપોનું પ્રતિપાદન કરે છે તેથી જે નામ-સ્થાપના કે દ્રવ્યરૂપ છે એ જ વસ્તુ માત્ર વિવક્ષા બદલતા જ ભાવરૂપ अहेवाय छे. (खा ४ अरमां पाखा वात 'अभिन्नवस्तुगतानां नामादीनां भावाविनाभूतत्वादेव वस्तुत्वम्' ઇત્યાદિ ગ્રન્થથી પૂર્વે કહેવાઈ ગઈ છે.) એટલે આ રીતે માત્ર સિદ્ધના જીવોમાં જ નહીં કિન્તુ સંસારી જીવમાં દ્રવ્યજીવત્વની સાથે ભાવજીવત્વ પણ સંગત થાય છે. હા, એટલું ખરું કે જે દ્રવ્યજીવત્વ સિદ્ધ થયું તે જીવ સામાન્યની અપેક્ષાએ તો १. अथवा वस्त्वभिधानं नाम स्थापना च यस्तदाकारः, कारणता तस्य द्रव्यं कार्यापन्नं तकं भावः | For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276