________________
પ્રમાણપરિચ્છેદ
८८
विषयसङ्कलनात्मकप्रत्यभिज्ञानवत आवापोद्वापाभ्यां सकलव्यक्त्युपसंहारेण च वाच्यवाचकपूर्ववर्णानामनुक्रमविशिष्टानां स्मरणे पदविषयसङ्केतस्मरणे च 'विभक्त्यन्तं पदमि'त्याकारे सति ‘सुबन्तं तिङन्तं च पदमिति प्रत्यभिज्ञानमुपजायते । तथा पूर्वपूर्वपदश्रवणाहितसंस्कारस्यान्त्यपदश्रवणानन्तरमनुक्रमविशिष्टपूर्वपदानां वाक्यगोचरसङ्केतस्य च स्मरणे सति ‘वाक्यमिदमिति प्रत्यभिज्ञानमुन्मज्जति । एवं तयोर्वर्णपदवाक्यग्रहणं प्रत्यभिज्ञानात् । ततोऽपि मध्यमवृद्धं चेष्टमानमवलोकयन् बालस्तटस्थस्तस्यार्थप्रतीति तावत्कल्पयति, आत्मनि तत्पूर्विकायाश्चेष्टाया दृष्टत्वात् । प्रमाणान्तरासन्निधावेतद्वृद्धप्रयुक्तशब्दसमनन्तरं च प्रवृत्तोऽयमित्यत एव शब्दात्किमप्यनेन प्रतिपन्नमिति मन्यते । तमर्थं तेन वृद्धेनानीयमानमेवमवबुध्यतेऽयमर्थोऽमुतः शब्दादनेनावगत इति स चार्थोऽनेकगुणक्रियाजातिव्यक्त्यादिरूपसङ्कुल उपलभ्यते । शब्दोऽप्यनेकपदकदम्बकात्मा श्रुतः, तत्कतमस्य शब्दांशस्य कतमोऽर्थांशो वाच्य इति सन्दिग्धे कालान्तरे च गां नयेत्यादिकमाकर्णयति। तत्र च गोशब्दानुवृत्तिमानयेत्यस्य तु व्यावृत्तिं विभावयति । तदनुसारेण च गवादेरप्यर्थस्यानुवृत्तिव्यावृत्ती समाकलयति । तत इत्थमावापोद्वापाभ्यामनन्तरमीदृग्जातीयोऽर्थ ईदृग्जातीयस्य वाच्यः सोऽपि तस्य वाचक इतीत्थं वाच्यवाचकभावालम्बनसकलविवक्षितवाच्यवाचकविशेषसमुल्लेखशेखरस्तर्कः समुल्लसति । क्वचित्तु यदा कश्चित्तर्केण वाच्यवाचकभावं स्वयमवेत्य परमप्यनेनैव तमवबोधयिष्यंस्तदनुसारिपरसन्ताने तर्कोत्पत्तिहेतुं वचनं परार्थतर्करूपमुच्चारयति । तदा तस्मादप्यस्योल्लासः । यथा कश्चन पिता परमवत्सलो वत्साय कञ्चन पदार्थं पुरस्कृत्य कथयति, इत्थम्भूतमित्थम्भूतस्य शब्दस्य वाच्यं वत्स ! जानीहि, तदाऽसावुपलम्भानुपलम्भद्वारेण तथा प्रतिपद्यमानस्तर्कादेव वाच्यवाचकभावं प्रतिपद्यते । इयं च व्याप्त्या वाच्यवाचकभावप्रतीतिरुपदर्शिता। शृङ्गग्राहिकया तु नियतायां व्यक्तावयं पुरोवर्ती भावोऽस्य शब्दस्य वाच्य इत्यागमादेरपि सा भवति । तदूर्ध्वं तु व्याप्त्या तं प्रति, यस्तर्कादेव प्रत्येति, ‘अये ! इत्थंभूतः सर्वः सर्वस्य वाचको वाच्यश्चेति ।
ननु तर्कः स्वविषयेण सम्बद्धो वाऽसम्बद्धो वा तमवबोधयति ? न तावदसम्बद्धः, अतिप्रसङ्गात् । अथ सम्बद्धः, कुतस्तत्सम्बन्धप्रतिपत्तिः । प्रत्यक्षादनुमानात्तर्कान्तरात् प्रमाणान्तराद्वा । न तावत्प्रत्यक्षात्, तस्य तदविषयत्वात् । नाप्यनुमानात्, अनवस्थानुषङ्गात् । तदपि ह्यनुमानं तर्कपूर्वकमिति तत्रापि तर्कस्य स्वविषयेण सम्बन्धग्राहकमनुमानान्तरमन्वेषणीयमिति। नापि तर्कान्तरात्, तत एव, तर्कान्तरस्यापि स्वविषयसम्बन्धबोधपूर्वकत्वात्तस्याप्यपरतर्कनिबन्धनत्वात् । नापि प्रमाणान्तरात्, तस्यापि प्रमाणत्वेऽपि પદાર્થ સાથેનો વાચ્ય-વાચકભાવ જાણતો નથી, તે પ્રયોજયપુરુષની ગાય લાવવાની પ્રવૃત્તિ જોઈને એવું સમજે છે કે પ્રયોજક પુરુષે પેલાને “ગાય લાવ' એમ કહ્યું અને પેલા પ્રયોજ્યપુરુષે આવી પ્રવૃત્તિ કરી. તેની આ પ્રવૃત્તિનું કારણ જ્ઞાન છે અને તેના જ્ઞાનનું કારણ પ્રયોજકવૃદ્ધના આ શબ્દો छ." माम, 'प्रयोठयवृद्धनी प्रवृत्तिनु २५(भूत ४ शान छ, ते शाननी २४त। (= ४नता) પ્રયોજકવૃદ્ધના આ શબ્દોમાં છે' આવું અનુમાન કરતા પેલા ત્રાહિત માણસને તે પદોના पायवाय मावनी प्रतीति थ य छे. ते रीते - ‘घटम् आनय' 5 अटले पेतो भारास घट्-अम्... आ-न-य... मारीत अंत्य सवय सोमणे, पूर्व अवयवनुं स्म२५॥ . मने पछी माधु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org