Book Title: Jain Tarkabhasha
Author(s): Yashovijay Upadhyay, Udayvallabhvijay
Publisher: Divya Darshan Trust
View full book text
________________
१७४
अथ नयपरिच्छेदविवरणम्
प्रमाणान्युक्तानि । अथ नया उच्यन्ते । प्रमाणपरिच्छिन्नस्यानन्तधर्मात्मकस्य वस्तुन
'अथ नया उच्यन्ते' इह हि सर्वं वस्त्वनन्तधर्मात्मकतया सङ्कीर्णस्वभावमिति तत्परिच्छेदकेन प्रमाणेनापि तथैव भवितव्यमित्यसङ्कीर्णप्रतिनियतधर्मप्रकारकव्यवहारसिद्धये नयानां सामर्थ्यात्तद्व्युत्पादनार्थमयमारम्भः । तथाहि प्रमाणवद् नयानामपि अर्थोपलब्धौ हेतुत्वं दव्वाण सव्वभावा सव्वप्पमाणेहिं जस्स उवलद्धा सव्वाहिं नयविहीहिं, वित्थाररूइ त्ति नायव्वो' (उत्तरा अध्य. २८) इति, तथा 'प्रमाणनयैरधिगमः' (तत्त्वा. १/६) इत्यादिवचनप्रामाण्यात् नयानामपि अधिगमोपायत्वं शास्त्रसिद्धमेव । अत एव अनुयोगद्वारचतुष्टयेऽपि तन्निवेशः कृतः पूर्वाचार्यैः । ननु प्रमाणभिन्नतया नयप्रतिपादनमयुक्तम्, स्वार्थव्यवसायकत्वेन तस्य प्रमाणस्वरूपानतिक्रमात्, स्वार्थव्यवसायकत्वेऽपि तस्य प्रमाणत्वानभ्युपगमे प्रमाणस्यापि तथाविधस्य प्रमाणत्वं न स्यादिति कश्चित्, किन्तु न स विपश्चित्, नयस्य स्वार्थैकदेशव्यवसायलक्षणत्वेन स्वार्थव्यवसायकत्वासिद्धेः । ननु नयविषयतया सम्मतोऽर्थैकदेशोऽपि यदि वस्तु तदा तत्परिच्छेदी नयः प्रमाणमेव, वस्तुपरिच्छेदलक्षणत्वात्प्रमाणस्य, स न चेद्वस्तु, तर्हि तद्विषयको नयो मिथ्याज्ञानमेव स्यात्, तस्यावस्तुज्ञान-विषयत्वलक्षणादिति चेत्, तदपि नानवद्यम्, अर्थैकदेशस्य वस्तुत्वावस्तुत्वपरिहारेण वस्त्वंशतया पृथक् प्रतिज्ञानात् । तदुक्तम् नायं वस्तु न चावस्तु वत्स्वंशः कथ्यते बुधैः, नासमुद्रः समुद्रो वा समुद्रांशी थोच्यते ।। तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता समुद्रबहुता वा स्यात्तच्चेत्कोऽस्तु समुद्रवित् ।। (त. श्लो. वा. पृ. ११८ श्लो. ५-६ ) इति वस्त्वंशे प्रवर्तमानो नयः स्वार्थैकदेशव्यवसायलक्षणो न प्रमाणम् नापि मिथ्याज्ञानमिति स्थितम् । ननु यथा अंशो न वस्तु नाप्यवस्तु किन्तु वस्त्वंश एवेति मतं, तथांशी न वस्तु नाप्यवस्तु, तस्यांशित्वादेव, वस्तुत्वं हि अंशांशिभावनियतं । ततोऽशेष्विव प्रवर्तमानं ज्ञानमंशिन्यपि योsस्तु, अन्यथा यथा तत्र प्रवृत्तं ज्ञानं प्रमाणं तथांशेस्वपि किं न स्यात्, विशेषाभावात् । तथोपगमे च न प्रमाणादपरो नयः समस्ति । तदुक्तम् 'यथांशिनि प्रवृत्तस्य ज्ञानस्येष्टा प्रमाणता, तथांशेष्वपि किं न स्यादिति मानात्मको नयः ।' (त. श्लो. वा. पृ. १२३ श्लो. १८) इति । एतदप्ययुक्तम् उपसर्जनीकृताखिलांशमंशिविज्ञानं नय एव तत्र द्रव्यार्थिकनयस्य व्यापारात् । प्रधानभावार्पितसकलांशे तु क्व प्रमाणत्वव्याघातः ?, अंशिमात्रज्ञानस्य प्रमाणत्वानभ्युपगमात् ततः प्रमाणादपर एव नय इत्यधिकमन्यत्र । 'नया:' इति ‘नया' इति बहुवचनान्तलक्ष्यनिर्देशो नयानामानन्त्यसंसूचनार्थम् । तदुक्तम् सम्मती
यतः
-
Jain Education International
જૈન તર્કભાષા
પ્રમાણની પ્રરૂપણા કરી લીધા પછી હવે નયોની પ્રરૂપણા કરાય છે. અનેક ભેદવાળી કોઈપણ વસ્તુનું પ્રતિપાદન કરવું હોય તો સૌ પ્રથમ તેનું સામાન્ય લક્ષણ જણાવીને પછી તેના ભેદોનું વિશેષ લક્ષણ જણાવવું જોઈએ. પ્રમાણ પ્રરૂપણામાં પણ આ જ શૈલી હતી. અહીં પણ સૌ પ્રથમ નયનું સામાન્ય १. द्रव्याणां सर्वभावा सर्वप्रमाणैर्यस्योपलब्धाः सर्वैः नयविधिभिर्विस्तररुचिरिति ज्ञातव्यः 1
For Private & Personal Use Only
-
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/21be0b521bdc09eb668cfdc00fea42a3802057a92c832688fdff33747d941d2c.jpg)
Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276