Book Title: Jain Tarkabhasha
Author(s): Yashovijay Upadhyay, Udayvallabhvijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 215
________________ ૧૯૬ જૈન તર્કભાષા न्यमभ्युपगच्छन्ति, तस्या एव मोक्षं प्रत्यव्यवहितकारणत्वात् । नैगमसंग्रहव्यवहारास्तु यद्यपि क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव ज्ञेयम्, यस्मादर्हतोऽपि भवाम्भोधेस्तटस्थस्य प्रतिपन्नदीक्षस्योत्कृष्टतपश्चरणचारित्रवतोऽपि न तावदपवर्गप्राप्तिः, सञ्जायते, यावदखिलजीवादिवस्तुस्तोमसाक्षात्करणदक्षं केवलज्ञानं नोत्पन्नम् । तस्माज्ज्ञानमेव सकलपुरुषार्थसिद्धेर्निबन्धनम् । क्रियानयवक्तव्यता चेयम् → क्रियैव प्रधानं पुरुषार्थसिद्धिकारणम्, प्रयत्नादिक्रियालक्षणविरहेण ज्ञानवतोऽप्यभिलषितार्थानवाप्तिदर्शनात्, तथा चान्यैरप्युक्तम् - ‘क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतं, यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेत् । तथा च क्रियानियतैव अर्थकामार्थसिद्धिः, धर्मार्थसिद्धिरपि तादृश्येव यतस्तीर्थकरगणधरैरागमेऽपि क्रियावैकल्ये ज्ञाननैष्फल्यमेवोक्तम् - तथाहि १'सुबहुपि सुयमहीयं, किं काही चरणविप्पमुक्कस्स, अन्धस्स जह पलित्ता दीवसयसहस्सकोडी वि।१।' नाणं सविसयनिययं न नाणमेत्तेण कज्जनिफत्ती, मग्गण्णु दिटुंतो होइ सचेट्ठो अचेट्ठो य ।२। जाणतो वि य तरीउं काइयजोगं न जुंजइ जो उ, सो बुड्डइ सोएणं एवं नाणी चरणहीणो ।३। - ४'जहा खरो चंदणभारवाही भारस्स भागी न हु चंदणस्स, एवं खु नाणी चरणेण हीणो नाणस्स भागी न हु सुग्गइए' इत्यादि । एवं तावत्क्षायोपशमिकी चरणक्रियामङ्गीकृत्य प्राधान्यमुक्तम् । अतः क्षायिकीमपि तामाश्रित्य तस्या एव प्राधान्यमवसेयम्, यस्मादर्हतोऽपि भगवतः समुत्पन्नकैवल्यस्यापि न तावद् मोक्षसम्प्राप्तिः सम्पद्यते यावदखिलकर्मेन्धनानलजालकलापकल्पां शैलेश्यवस्थां सर्वसंवररूपचारित्रक्रियां न प्राप्नोतीति मोक्षार्थसिद्धिरपि क्रियायत्तैवेति सिद्धं यत्क्रियैवाशेषपुरुषार्थसिद्धिनिबन्धनम् । 'मोक्षं प्रत्यव्यवहितकारणत्वाद्' इति → शैलेशीकरणलक्षणक्रियाया अनन्तरमेवापवर्गप्राप्तेः क्रियाया * ज्ञान-डिया नय * કાર્ય પ્રત્યે જ્ઞાનને જ પ્રધાનરૂપે કારણ માને તે જ્ઞાનનય અને કાર્ય પ્રત્યે ક્રિયાને જ પ્રધાનરૂપે (= મુખ્ય) કારણ માને તે ક્રિયાનય. આ બન્ને નયોના અભિપ્રાયને એકવાર જાણી લઈ. आननयनो अभिप्राय : 'पढमं नाणं तओ दया', जं अन्नाणी कम्म'... त्या शस्त्रवान्यो જ્ઞાનને જ પ્રધાન-મુખ્ય સાબિત કરે છે. જ્ઞાન વિનાની ક્રિયાનો કોઈ અર્થ નથી. સમજણપૂર્વકની ક્રિયા જ इस बने छे... त्याहि. ક્રિયાનયનો અભિપ્રાયઃ એકલું જ્ઞાન કંઈ કામ લાગતું નથી. ક્રિયા તો કરવી જ પડે. રસોઈ કરવાનું જ્ઞાન હોય છતાં જો ક્રિયા ન કરે તો સુધા ન શમે. તરવાનું જ્ઞાન હોવા છતાં ય હાથ-પગ હલાવવારૂપ ક્રિયા કરવી જ પડે, અન્યથા છતે જ્ઞાને ડૂબી મરાય. કેવળજ્ઞાન પામ્યા પછી પણ સર્વસંવરરૂપ ચારિત્ર (= ક્રિયા) જ્યાં સુધી ન આવે ત્યાં સુધી કોઈ જીવનો મોક્ષ થઈ શકતો નથી. આજ બતાવે છે કે ક્રિયા જ મુખ્ય છે. મોક્ષ પ્રત્યે સમ્યગ્દર્શન-જ્ઞાન અને ચારિત્રને કારણ કહ્યા છે છતા પણ ઋજુસૂત્રાદિ ચાર નવો મોક્ષ १. सुवापि श्रुतमधीतं किं करिष्यति चरणविप्रमुक्तस्य । अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोटिरपि ।। २. ज्ञानं स्वविषयनियतं न ज्ञानमात्रेण कार्यनिष्पत्तिः । मार्गज्ञो दृष्टान्तो भवति सचेष्टोऽचेष्टश्च ।। ३. जानन्नपि च तरीतुं कायिकयोगं न युनक्ति यस्तु । स वुडति श्रोतसा एवं ज्ञानी चरणहीनः ।। ४. यथा खरश्चन्दनभारवाही भारस्य भागी न तु चन्दनस्य, एवं खलु ज्ञानी चरणेन हीनो ज्ञानस्य भागी न तु सदगतेः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276