Book Title: Jain Tarkabhasha
Author(s): Yashovijay Upadhyay, Udayvallabhvijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 201
________________ ૧૮૨ જૈન તર્કભાષા द्रव्यमिति द्रव्ययोर्मुख्यामुख्यतया विवक्षणम, पर्यायवद्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यात्, वस्त्वाख्यस्य विशेषणत्वेन गौणत्वात् । क्षणमेकं सुखी विषयासक्तजीव इति तस्मादेतौ द्वावपीतरेतरविशकलितावभ्युपगमाविति नैगमः । एवं स्वीक्रियमाण एव हि नैगमे नयत्वसम्भवः, अन्यथा एकतरपरित्यागे दुर्नयत्वप्रसङ्गात् अन्योऽन्यसंवलितद्वयाङ्गीकारे च प्रमाणत्वप्रसङ्गात् । 'प्रवृत्तिनिवृत्तिनिबन्धनार्थक्रियाकारित्वोपलक्षितो व्यञ्जनपर्यायः' → यद्धर्मसम्बन्धाच्चेतनादिशब्दस्यार्थविशेषे प्रवृत्तिः, यद्धर्मासम्बन्धाच्च तस्यार्थविशेषे निवृत्तिस्तन्निबन्धना याऽर्थक्रियाऽयं चेतनोऽयमचेतन इत्यादिव्यवहारलक्षणा तत्कारित्वोपलक्षितस्तत्स्वरूपयोग्यत्ववानित्यर्थः । न हि चैतन्यादिसत्त्वे उक्तार्थक्रिया सर्वदा भवत्येव, व्यवहस्तिद्व्यवहृतीच्छाया वा अभावे व्यवहाराभावादतो निरुक्तार्थक्रियाकारित्वं चैतन्यादेयंजनपर्यायतासम्पादकं विशेषणं न भवति । तथा सति तथा व्यवहाराभावदशायां चैतन्यादेर्व्यञ्जनपर्यायत्वाभावप्रसङ्गात् । अर्थक्रियास्वरूपयोग्यता तु सहकार्यन्तरविरहात् कार्याजननेऽपि न व्यावर्तते इत्यभिप्रायेण'अर्थक्रियाकारित्वविशिष्ट' इत्यनुक्त्वाऽर्थक्रियाकारित्वोपलक्षित' इत्युक्तम् । एवम्भूतो यः पर्यायः स व्यञ्जनपर्याय उच्यते । भूतभविष्यत्वसंस्पर्शरहितं वर्तमानकालावच्छिन्नं वस्तुस्वरूपं चार्थपर्यायः → व्यञ्जनपर्याय इत्याख्याविशेषानुविद्धतया प्रतिपादने जिज्ञासा सजायते तत्किमन्योऽपि कश्चन पर्यायोऽस्ति येन व्यञ्जनपर्याय इति विशिष्योच्यते इति जिज्ञासाविनिवृत्तयेऽर्थपर्यायं लक्षयन्नाह 'भूते'त्यादिना अतीतकालेऽनागतकाले च धर्मिणि सत्तामननुभवन् वर्तमानकालावच्छेदेनैव च तत्र वर्तमानो यो वस्तुस्वरूपपर्यायः प्रतिक्षणमन्योन्यस्वरूपभवनलक्षणः सोऽर्थपर्याय उच्यते । सङ्ग्रहं सभेदं निरूपयितुमारभते 'सामान्यमात्रग्राही'त्यादिना → संगृह्णाति अशेषविशेषतिरोधानद्वारेण सामान्यरूपतया जगदादत्ते इति सङ्ग्रहः । तथा च तदभिप्रायः, न हि सामान्यव्यतिरिक्तं नाम किञ्चिद् विशेषसंज्ञकं वस्त्वस्ति । ननु घटपटादिविशिष्टवस्तुसाध्या व्यवहाराः प्रतिप्राणि प्रसिद्धा अतो विशेषा अपि विविक्तव्यवहारहेतुतयाऽभ्युपगन्तव्याः, अन्यथा घटपटादिभेदो न स्याद् इति चेत्, न स्यादेव वास्तवः, तादृश व्यवहारस्यानाद्यविद्याबलप्रवर्तिततया पारमार्थिकप्रमाणप्रतिष्ठिततत्त्वप्रतिबन्धाभावात् । रज्जो सर्पभ्रमनिबन्धनसर्पादिवदविद्याजनितोऽनिर्वचनीयो भेद स्यादेवेति सङ्ग्रहनयमतावलम्बिनः । કરનાર પરામર્શ (= આશય) સંગ્રહાય છે. પ્રત્યેક પદાર્થ સામાન્ય-વિશેષ ઉભયાત્મક છે. સંગ્રહનય સામાન્યરૂપનું ગ્રહણ કરે છે. જ્યારે સામાન્યનું જ્ઞાન થાય ત્યારે વિશેષોનું પણ જ્ઞાન થાય પરંતુ તેનું વિશેષરૂપે જ્ઞાન થતું નથી. વિશેષો પણ સામાન્યરૂપે જ જણાય છે. સંગ્રહનયના બે ભેદો છે. જે સંગ્રહ અધિક દેશને વ્યાપીને રહેતો હોય તે પર સંગ્રહ છે અને જે સંગ્રહ અલ્પદેશને વ્યાપીને રહેતો હોય તે અપર સંગ્રહ છે. બન્ને સંગ્રહના ઉદાહરણો બતાવે છે. (૧) સર્વ વિશેષો પ્રત્યે ઉપેક્ષા રાખી માત્ર સતરૂપે વસ્તુને ગ્રહણ કરનાર सं ते ५२संय' छे. 'समय विश्व में.३५ ४ छ' ४॥२४॥ ६२४ पार्थ 'सत्' हो। ३५ अविशेष = Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276