________________
નયપરિચ્છેદ
૧૮૫
क्रमभावी सहभावी चेत्यादि ।
ऋजु वर्तमानक्षणस्थायिपर्यायमात्रं प्राधान्यतः सूचयन्नभिप्राय ऋजुसूत्रः । यथा सुख-विवर्तः सम्प्रत्यस्ति । अत्र हि क्षणस्थायि सुखाख्यं पर्यायमानं प्राधान्येन प्रदर्श्यते, तदधिकक्रोशन्ती'त्यादौ अन्यत्र दृष्टायाः स्रवणादिक्रियायाः कुण्डिकादावुपचारः क्रियत इत्युपचारप्रायः । सामान्यमनभ्युपगम्य विशेषान् स्वीकुर्वाणस्य व्यवहारस्य विषयोऽपि सङ्ग्रहापेक्षया विस्तृतो मतः, विशेषस्य सामान्यापेक्षयाऽधिकतरसङ्ख्याकत्वादिति विस्तृतार्थो व्यवहारो ज्ञेयः ।
ऋजुसूत्रं लक्षयति 'ऋज्वि'त्यादिना → ऋजु = अतीतानागतपरकीयभेदलक्षणकौटिल्यं परित्यज्य केवलं वार्तमानिकं स्वकीयमेव सूत्रयति = सूचयतीति ऋजुसूत्रः । यदाह "पच्चुप्पण्णग्गाही उज्जुसुओ णयविही मुणेयव्वो' (अनु.द्वार सूत्र-१५२) न च प्रत्युत्पन्नग्राहित्वं नैगमादावतिव्याप्तमिति वाच्यम्, भावत्वेऽतीतानागतसम्वन्धाभावव्याप्यत्वोपगन्तृत्वस्यैवात्र प्रत्युत्पन्नग्राहित्वेन विवक्षणात् । ऋजुसूत्रनयमते किल भावे वर्तमानक्षणसम्वन्ध एव समस्ति न त्वतीतानागतकालसम्बन्धः अतोऽतीतानागतकालसम्बन्धाभावो भावत्वव्यापको, भावत्वं हि तद्व्याप्यमिति नातिप्रसङ्गः । ___इदमत्राकूतकम् → ऋजुसूत्रोऽपि व्यवहारवद् विशेषाभ्युपगमपर एव, नवरं व्यवहारतो विषयसङ्कोचमभिमन्यमानस्तिष्ठति । 'व्यवहारो हि सामान्यं, व्यवहारानङ्गत्वान्न सहते, कथं तह्यर्थमपि परकीयमतीतम नागतं चाप्यभिधानमपि तथाविधार्थवाचकम्, ज्ञानमपि च तथाविधार्थविषयकमविचार्य सहेत' इत्यस्याभिप्रायः । इत्थञ्च व्यवहारातिशायित्वमेव लक्षणत्वेन पर्यवसितं, तदतिशयप्रतिपादनार्थमेव तत्त्वार्थभाष्ये इत्थमभिहितम्‘सतां साम्प्रतानामभिधानपरिज्ञानमृजुसूत्रः' (सूत्र ३५) कथं न एतन्नयमतेऽतीतादीनाम् वस्तुत्वमिति चेत्, आह अतीतस्य विनष्टत्वाद, अनागतस्य चालब्धात्मसत्ताकत्वात् खरविषाणादिभ्योऽविशिष्यमाणतया सकल
હવે ક્રમાગત ઋજુસૂત્રનયનું નિરૂપણ કરે છે.
* सूत्र नय * ઋજુ = માત્ર વર્તમાનક્ષણે રહેનાર પર્યાયને જ પ્રધાનરૂપે પ્રકાશિત કરનાર અભિપ્રાયવિશેષ તે ઋજુસૂત્રનય. આ નય અતીત કે અનાગત પર્યાયોની ઉપેક્ષામાત્ર કરે છે પરંતુ તેને સર્વથા અસતું નથી मानतो मे सूयवा भाटे सक्षम प्राधान्यतः' ५६ पापर्यु छ. 3, 'सत्यारे सुण पाय छे' ( હમણાં સુખપર્યાય વિલસે છે.) દ્રવ્ય વિના પર્યાયો રહી શકતા નથી તેથી જ્યારે સુખ છે ત્યારે સુખદુઃખાદિ તમામ પર્યાયોમાં અનુગત રીતે રહેનાર આત્મદ્રવ્ય પણ અવશ્ય છે તો ખરું જ પરંતુ આ નય પ્રધાનરૂપે માત્ર વર્તમાનક્ષણવર્તી પર્યાયને જ પ્રકાશિત કરતો હોવાથી અહીં વર્તમાનક્ષણવર્તી સુખપર્યાય જ જણાવાય છે. (અતીત કે અનાગત પર્યાયોને કે, વર્તમાન પર્યાયના પણ અધિકરણરૂપ આત્મદ્રવ્યને ગૌણ માનીને તેનું પ્રદર્શન કરાતું નથી. તેની ઉપેક્ષા કરાય છે.
१. प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिर्ज्ञातव्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org