________________
પ્રમાણપરિચ્છેદ
रूपत्वेऽपि अत्रैव शास्त्रज्ञलोकप्रसिद्धा रूढः । समनस्कस्य श्रुतं सञ्ज्ञिश्रुतम् । तद्विपरीतमसञ्ज्ञिश्रुतम् । सम्यक्श्रुतम् अङ्गानङ्गप्रविष्टम्, लौकिकं तु मिथ्याश्रुतम् । स्वामित्वचिन्तायां तु भजना सम्यग्दृष्टिपरिगृहीतं मिथ्याश्रुतमपि सम्यक् श्रुतमेव वितथभाषित्वादिना यथास्थानं तदर्थविनियोगात्, विपर्ययान्मिथ्यादृष्टिपरिगृहीतं च सम्यक् श्रुतमपि मिथ्याश्रुतमेवेति । सादि द्रव्यत एकं पुरुषमाश्रित्य क्षेत्रतश्च भरतैरावते । कालत उत्सर्पिण्यवसर्पिण्यो, भावतश्च तत्तज्ज्ञापकप्रयत्नादिकम् । अनादि द्रव्यतो नानापुरुषानाश्रित्य क्षेत्रतो महाविदेहान्, केषाञ्चिदतीवमुग्धप्रकृतीनां बालगोपालगवादीनामसत्यपि नरादिशब्दविशेषविषयकविज्ञाने लब्ध्यक्षरं किमपीक्ष्यते, ‘अयि नर !' इत्यादिना 'गौरि !' ' श्यामे !' इत्यादिना सामान्येन विशेषेण वा नाम्नाऽऽकारिता जनाः गवादयश्च स्वनाम जानन्ति प्रवृत्तिनिवृत्त्यादीनि च कुर्वन्तीति दृश्यते। व्यवहारतोऽत्र शक्तिग्रहोऽपि समस्त्येव । शक्तिग्रहोपायाश्चेमे
शक्तिग्रहो व्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च ।
वाक्यस्य शेषाद् विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ।।
व्याकरणादिलक्षणः शक्तिग्रहोपायो यद्यपि परोपदेशात्मक एव तथापि व्यवहारादिलक्षणस्य तस्य तदनात्मकतया ततः शक्तिग्रहोऽपि कथञ्चन सम्भवन्न विरुद्धयते । कथमन्यथा प्रथममेव 'गौरि !' ' श्यामे' इत्यादिना स्वनामाकारिताऽपि सती गौर्नायाति स्वसमीपं असकृद्व्यवहारानन्तरं त्वायातीति उपपद्येत। व्यवहारकृतशक्तिग्रह - तदभावकृतोऽयं विशेष इत्यभ्युपगन्तव्यम् ।
'अनाकलितोपदेशानामपीत्यादि युक्तिस्तु लब्ध्यक्षरस्य भावश्रुतोपयोगरूपत्वसमर्थने, क्षयोपशमरूपत्वसमर्थने ‘चैकेन्द्रियाणामपीत्यादिका द्वितीया युक्तिर्ज्ञेया, एकेन्द्रियादीनामव्यक्ताक्षरलाभस्य १ सव्वजीवाणंपिय अक्ख-रस्स अनंतभागो निच्चुग्घाडियओ' इत्यादिनाऽऽगमेन सिद्धत्वेऽपि क्षयोपशमरूपस्याक्षरलाभ एव सिद्धान्ततात्पर्यात् । 'अनक्षरश्रुतमिति भाष्यमाणस्य अकारादिवर्णस्याभावेऽपि श्राव्यत्वादुच्छ्वसितादेरपि शब्दरूपत्वं बोध्यम् । इहोच्छ्वसिताद्यनक्षरश्रुतं द्रव्यश्रुतमेव, ध्वनिमात्ररूपतया भावश्रुतकारणत्वात्, भवति चोच्छ्व
-
Jain Education International
૬૭
અથવા તો એમ માનો કે શ્રુતોપયોગવાળી વ્યક્તિ જે કોઈ પણ વ્યાપાર કરે તેમાં બધાં જ આત્મપ્રદેશો ઓછેવત્તે અંશે વ્યાવૃત્ત બને જ છે. તેથી તેવી વ્યક્તિની યદ્યપિ બધી જ ચેષ્ટાઓ શ્રુતરૂપ બને છે. છતાં પણ ઉચ્છ્વાસાદિ ઉક્ત ચેષ્ટાઓને જ શ્રુત કહેવાય એવી શાસ્ત્રજ્ઞપુરુષોની રૂઢિ છે. તેથી આ રૂઢિ જ ઉક્ત પ્રતિપાદનમાં વિનિગમક બનશે. (આ રૂઢિ પાછળ કારણ એ જણાય છે કે 'थे संभणाय ते श्रुत' जेवो सामान्यथी 'श्रुत' शब्दनो अर्थ छे. उच्छ्वास, निःश्वास, पांसी वगेरे વ્યાપારો અક્ષરાત્મક (એટલે કે સંજ્ઞાક્ષરાત્મક કે વ્યંજનાત્મક) નથી તેમ છતાં ધ્વનિરૂપ તો છે જ અને તે સંભળાવાથી ‘આ શોકગ્રસ્ત છે' ઇત્યાદિ જ્ઞાન થાય છે. આ જ્ઞાનમાં ઉચ્છ્વાસાદિનું શ્રવણ કારણ
१. सर्वजीवानामपि च अक्षरस्यानन्त (तम ) भागो नित्योद्घाटितः
For Private & Personal Use Only
www.jainelibrary.org