Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बीर सं० २४४६
www.kobatirth.org
॥ अर्हम् ।। पं० सत्यराजगणिविरचित
पृथ्वीचन्द्रचरितम् ।
शास्त्रविशारद - जैनाचार्य श्रीविजयधर्ममूरिचरणोपासक न्यायविशारद - न्यायतीर्थप्रवर्त्तकमंगल विजय संशोधितम ।
भावनगरस्थ-यशोविजय जैनग्रन्थमालात.
श्रेष्ठिप्रेमचन्द्ररतनजी— श्रेष्ठिचंदुलाल पुनमचन्द्राभ्यां प्रकाशितम् । प्रति ५०० मूल्यं सार्धरूप्यकम् ।
For Private and Personal Use Only
विक्रम सं० १९
Acharya Shri Kailassagarsuri Gyanmandir
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Printed at:
THE LUHANA MITRA STEAM PRINTING PRESS BY VITHALBHAI ASHARAM THAKKAR FOR
PUBLISHER ON 1-11-1920.
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5
प्रस्तावना।
.
..
अस्य पृथ्वीचन्द्रचरितस्य रचयिता पं० श्रीसत्यराजगणिः विक्रमीयां पोडशी शताब्दीमलंचकार । स्वयमेव हाम उल्लिखन्ति एत.चरित्रप्रान्ते
"सं० १५३५ वर्षे माघे सितदशम्यां गुरौ अयेह श्रीमहम्मदावादनगरे श्रीपूर्णिमापक्षविभूषण-श्रीगुणसागरमरिपटालंकारश्रीपूज्यश्रीगुणसमुद्रसूरयस्तत्पट्टोदयगिरिमिहिरकरणयः श्रीपुण्यरत्नसूरिवराः सम्प्रति विजयन्ते । तेषां विनेयवर्यण सत्यराजगणिना लिखितः । मिदम् "।
___एतेन चेदमपि विदितं भवति-एते चरित्रचित्रयितारः पूर्णिमागच्छीयाः; एषां च गुरवः पुण्यरत्नसूरयोऽभूवन् । तेषां च | गुरवो गुणसमुद्रसूरयः, तेषां च गुरवो गुणसागरसूरयः । यच्च आदर्शपुस्तकमवलम्ब्य इदं प्राकाश्यमुपनीतं तद् गूर्जरदेशललामभूत-'अहम्मदावाद' IP नगरे तस्थुषा ग्रन्थकृता स्वहस्ततो लिखितम् , इत्येतदपि प्रोक्तेनोल्लेखेन नितिं भवति । तच्च आदर्शपुस्तकं सौराष्ट्रराष्ट्रान्तर्गत ' अमरेली' ला ग्रामस्य जैनपुस्तकमाण्डागारतः प्राप्तम् ।
एभिर्गणिपादैश्च संदब्धं श्रीपालचरितं सुप्रसिद्धम् । तच वि० सं० १५१४ वत्सरे निर्मितम् , इति तत्र समस्ति प्रदर्शितम्। का अन्येऽपि ग्रन्था एतैर्विरचिताः स्युः ।
B000036DEDDREA00000000000
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
चरितम्
00000000000000000000000001
पूर्वोक्तेन चोल्लेखेन इदमपि स्पष्टीभवति-एतच्चरित्र निर्माणसमये एतचरित्रकर्तुर्गुरवो विद्यमाना आसन् । वि० सं० १५३१ वत्सरीयेण धातुप्रतिमा-लेखेनापि, यो हि ' मांडल' पत्तनस्थ-ऋषभदेव-मंदिरात प्राप्तः, निर्धार्यते तदानीं चरित्रकत्तुगुरूणां विद्यमानता ।
एतच्चरित्रम् , अद्भुतघटनावर्णकम् , अथ च वैराग्यप्रभावकं चेतःप्रसादकारक कषायोन्मादतिरोधायकं च । संक्षिप्त-प्रबन्धन कथावस्तूनि बहूनि वर्णयतः, योजयतश्च सरलशब्दपद्धतिम्, अनुमतश्च प्रासादिकस्वभावं कविराजस्य कवित्व-कौशलं विद्वत्त्वं च सुष्ठु प्रतीतिपथमवतरति । तदेवं यथामति सशोधितेऽस्मिन् ग्रन्थे याः काश्चन अशुद्धयः स्थिताः स्युः, ताः परिमार्जयिष्यन्ति कृतिनः, इति प्रार्थयते
-प्रवर्तकमंगलविजयः।
DOE0900000000000000000
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शोधनपत्रम्.
पत्रम् श्लोकः
पत्रम् श्लोकः
अशुद्धम् .
निदयता
शुद्धम् . निर्दयता -ताही!
१५९
-ताहा! द्वितीय
शुद्धम्. देवीगृह-तम् करिकर्ण-मालिन्यं खण्डितं जायते
द्वितीयं
DECeleoe000000000000000@GE
अशुद्धम्. देवी गृह-तम करिकण-मालिन्य खण्डित जायत -ङ्किता त तदा जयसन-बोच
१४० १४५
--वश्यं यपिये! देशनां -सिद्धान्त कर्कशया
यस्त्रिय! दशनां -सिद्धान्त ककशया
१५३
२१६ २२३
30309080500000
१५५
१५६
ते तदा जयसेन-वोच
-सेन
-को वि
-कोवि
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पत्रम्
१२
२८
३१
३५
३७
३८
३९
४१
४२
""
४६
५०.
श्लोकः
४७
३८
१०
१०२
१४९
१९१
२००
२५९.
२८२.
२८७
५
መሬ
अशुद्धम्
कुमार
- प्यहो ?
- गोचरम
अक्षेप्सीत्
-धुय
पाद
भर्च -
न त
-राय
द्रव्य
पर्वाप्याम्
-शनान्
शुद्धम् .
कुमारं
- यहो !
- गोचरम्
अक्षैप्सीत्
-धुर्य
पादं
भर्तृ
न ते
के
-रायं
द्रव्यं
पूर्वाप्याम्
-शनात्
www.kobatirth.org
पत्रम्
५१
५२
५३
५४
५६
27
५७
५८
"7
६४
६८
७०
For Private and Personal Use Only
श्लोकः
१२
२५
६४
८२
१००
१३
२०
४१
५९
७४
३७
३५
७२
अशुद्धम् .
कि त्वेष
-निष्टो
नातिदर
-कृत
- यितु
- भतां
नित्य
-तात्मा पाल - -तात्माऽपाल
-सुनु
तस्थुषे
गत्वा त
Acharya Shri Kailassagarsuri Gyanmandir
साथवाहः
-प्रमुख
शुद्धम्·
-भूतां
नित्यं
किंत्वेप
-निष्ठो
नातिदूर
-कृते
-यितुं
-मृनु
तस्थुष
गत्वा तं
सार्थवाहः
- प्रमुख
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ अर्हम् ॥ शास्त्रविशारद - जैनाचार्य -श्रीविजयधर्मसूरिभ्यो नमः । पण्डितसत्यराजगणिविरचितं
पृथ्वीचन्द्रचरितम् ।
प्रथमो भवः ।
१ ॥
२ ॥
श्रीनायोsसमश्रेयोतनुतां तनुतां स वः । यत्पादपद्मं पद्मेयं सङ्गता जगतामपि ॥ श्रीशान्तिः शान्तिक्रुद् वः स्तादस्ताखिलतमोभरः । यद्यशःस्पर्द्धयेवासीच्छशी मन्येऽङ्कपङ्कभृत् ॥ स्वाहुदण्डदोलायां योऽचिखेलज्जनार्दनम् । जगच्चित्रकरस्फूर्त्तिः स श्रीनेमिः श्रियेऽस्तु वः ॥ भात् प्रभादीः फणामणिचयोऽनिशम् । हन्तुमन्तस्तमांसीव श्रीपार्श्वो वो मुदेऽस्तु सः
३ ॥
॥
For Private and Personal Use Only
४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
चन्द्रा
चरितम्॥
000000000000000000000000
यदङ्कसङ्गतो भाति पारीन्द्रोऽतन्द्रविक्रमः । कर्मभभेदे भव्यानामिव वीरः स व श्रिये ॥५॥ गौतमो वस्तमो हन्तु चेतोविवरसंभवम् । यमालिलिगुयुगपत् सौभाग्याल्लब्धयोऽङ्गनाः ॥६॥ यद्वारगृहमणेर्जाड्यध्वान्तं भिन्न क्षणान्नृणाम् । तेभ्यः सद्गुणवार्षिभ्यः श्रीगुरुभ्यो नमो नमः ॥७॥
स्मृत्वा वाग्देवतां चित्ते नत्वा सद्गावतोऽर्हतः । पृथ्वीचन्द्रमहीन्द्रस्य चरित्रं कीर्तयाम्यहम् ॥ ८॥ तथाहि
जम्बूद्वीपेऽत्र भरते देशे सुमङ्गलाभिधे । पुरं शङ्खपुरं तत्र राजते शङ्खभूपतिः॥९॥ पितेव स प्रजाः शासदन्यदाऽऽस्थानमास्थितः । गजश्रेष्टिसुतो दत्तः सोपदस्तमथानमत् ॥ १०॥ स्वागतादिप्रश्नपूर्व भूकान्तस्तमवीवदत् । किं चिराद् दृश्यसे भोस्त्वं दत्तः प्राह शृणु प्रभो ! ॥११॥
वणिजां देशयात्रादेरपि युक्तं धनार्जनम् । विभवार्जनलोभेन तद्भरि भुवमभ्रमम् ॥ १२ ॥ तथा च
यः स्वगेहादिमाहेन नाक्रमेद् भूयसी भुवम् । स कूपभेकवत् सारासारं वेत्ति न किश्चन ॥ १३ ॥ यत:
दृश्यते विविधाश्चर्य लक्ष्यते भाग्यमात्मनः । ज्ञायते सदसद्भेदो भ्रम्यते तेन भूतले ॥ १४ ॥
0003330000OO00000CCO3000€
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
380GGOOOOOOOOOOOOOOOOOO
नृदेव ! देवशालाख्यं वाणिज्याय गतः पुरम् । नृपोऽजल्पत् किमाश्चर्य तत्र दृष्टं श्रुतं वद ? ॥ १५ ॥ दत्तोऽवदद् देवशालं विविधाश्चर्यसकुलम् । विमानानीव गेहानि यत्र पौराः स्मरा इव ॥ १६ ॥ दृष्टं यदपरं चित्रं यत्र तद्वक्तुमक्षमः । विलोकयतु तद्देवः स्वयमेवोति संलपन् ।॥ १७ ॥ मुमोच चित्रफलकं सोऽपि तद्वीक्ष्य विस्मितः । प्राह चित्रस्थिता केयं सुरी हरति मे मनः ॥ १८ ॥ अथ स्यान्नेदृशं रूपं किन्तु विज्ञानकौशलम् । कस्यापि शिल्पिनो ह्येतद् दत्तः स्माहावधार्यताम् ।। १९ ॥ देव ! दृष्टमपूर्ण च लिखतः कौशलं नु किम् । अदृष्टप्रतिरूपस्य निर्माणे कौशलं विधेः ॥ २० ॥ राजाख्यत् किमपूर्ण यद्देवी सर्वाङ्गसुन्दरी । कापि चित्रस्थिताप्युच्चैधिनोति मम मानसम् ।। २१ ॥ स्मित्वा सोऽप्याह देवीत्वं प्रापि मानुष्यपि त्वया। यद्वा देवस्य देव्यः स्युर्मानुष्योऽपि न संशयः ॥ २२ ॥ किमीदगरूपशालिन्यो मानुष्यः संभवन्त्यहो!। दत्तोऽवग लेखितुं शक्याः किमस्या विभ्रमादयः ॥ २३ ॥ लिखितं शिल्पिना रूपं दृग्विनोदाय केवलम् । तां वीक्ष्य पश्यंश्चित्रस्थं मन्यते कूटलेखकम् ॥ २४ ॥ नृपोऽवग भद्रः कस्यैषा सुता दत्तोऽवदद् विभो । स्वसा ममेयं तद्भोः! किं देवशाले त्वयक्षिता ॥२५॥ दत्तोऽवक् परमार्थ वः कथयामि यदेकदा । पितुरादेशतो देशदिदृक्षायै सुसार्थयुक ॥ २६ ॥ देवशालदेशसन्धौ बहुपत्तिसमन्वितः । वेगवत्तुरगारूढो दर्शयन्मार्गमग्रतः ॥ २७ ॥
0000000000000000000000
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वीचन्द्र
www.kobatirth.org
पुरःस्थः सार्थ लोकानां यामि यावन्महावने । तावत् किञ्चित् समासनं मृताश्वं पतितं भुवि ॥ २८ ॥ सर्वाङ्गभद्रमद्राक्षमेकं विगतचेतनम् । नरं मूर्च्छासमुच्छ्रायनिमीलितविलोचनम् ॥ २९ ॥ ( चतुर्भिः कलापकम् )
३४ ॥
तं च मूर्च्छापनोदायासिञ्चं शिशिरवारिणा । क्रमादवाप्तचैतन्यं भव्यभोज्यान्यभोजयम् ॥ ३० ॥ अथ स्वस्थतनुं व्रं चापृच्छं मधुरया गिरा । कुमार ! सुन्दराकार ! कुतः स्थानात् त्वमागमः ? ॥ ३१ ॥ संप्राप्तः कथमेकाकी गहनेऽस्मिन् दशामिमाम् । सोऽप्याख्यन्न भविष्यस्य काचिदस्ति प्रतिक्रिया ॥ ३२ ॥ यदहं देवनन्द्याह्नदेशादश्वापहारतः । अत्रायातस्त्वया प्राणदानेनोपकृतोऽस्मि च ॥ ३३ ॥ ब्रूहि भोभद्र ! कुत आगाः क यास्यसि ? | दत्तोऽप्याख्यदहं शङ्खपुरादत्र समागमम् ॥ देशभूषणं देवशालं गन्तास्मि चाधुना । सार्थोऽभूदावयोरेकस्तदारोह हयं जवात् ॥ उत्तीर्य यदिमां भीमामटवीं याव ईप्सितम् । स्थानमित्युक्तिनिष्णातौ चलितौ तौ ततः शनैः ॥ अतिक्रमावः कान्तारं यावत् सार्थेन संयुतौ । तावत् पुरो महत्सैन्यमपश्याव समागतम् ॥ क्षुब्धाः सार्थभटाः सर्वे सन्नद्धा योद्धुमागमन् । तावन्मा भैष्टेति वादी सादी कोऽपि पुरोऽभवत् ॥ जयसेनकुमारं सोऽप्युपलक्ष्याभजन्मुदम् । विज्ञाततत्स्वरूपोऽथ तत्रागाद् विजयो नृपः ॥
३५ ॥
३६ ॥
३७ ॥
३८ ॥
३९ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चरितम् ।
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A 024200904
कुमारेण नतो भूपोऽपृच्छद् व्यतिकरं च तम् । गाढमालिङ्ग्य सोऽप्याख्यत् स्वं वृत्तान्तं यथास्थितम् ॥ ४०॥ तात ! निष्कारणो बन्धुरसौ बन्धुरसौहृदः। प्राणदोऽभन्ममेत्युक्त्वाऽदर्शयन्मां नृपस्य सः॥४१॥ भूपोऽपि मामभिष्वज्य विजयी विजयाभिधः । ज्येष्ठाङ्गजमिति प्रीत्या प्रत्यपद्यत सत्वरम् ॥ ४२ ॥ देवशालपुरं प्राप्तः स्थितस्तत्र तथा सुखम् । यथा मे मातृपित्रादि सर्व विस्मृतिमागमत् ॥ ४३ ॥ अथ तस्य नृपस्यासीत् श्रीदेवीकुक्षिसंभवा । जयसेनकुमारस्यानुजा कन्या कलावती ॥ ४४ ॥ प्राप्तविद्यानवद्याङ्गी तारुण्यं सा क्रमादगात् । अनुरूपं वरं तस्याः काप्यपश्यन्न तत्पिता ॥४५॥ नृपो मामादिशद् वत्स ! निजजाम्युचितं वरम् । संपाद्य चिन्तापाथोधेर्मामुत्तारय सत्वरम् ॥ ४६॥ तथेति प्रतिपद्याहं तत्पतिच्छन्दमजसा । लिखित्वा फलकेऽमुष्मिन्त्रागामेषोऽथ तत्कृते ॥ ४७ ॥ स्वामिस्वदुचितामेतामेव संभावयाम्यहम् । प्रमाणं देव एवातः परं बहु किमुच्यते ? ॥ ४८ ॥ तदेवान्ववदन्मन्न्यादयोऽपि प्रमदात् तदा । अत्रान्तरे समयज्ञोऽवदत् कालनिवेदकः ॥ ४९ ॥ देवतावसरस्यास्ति नृदेवावसरोऽधुना । नृपो विसृज्य पार्षद्यान् देवार्चादि व्यधान्मुदा ॥ ५० ॥ भुक्त्वा सुप्तोऽथ पर्यङ्के दध्याविति धराधवः । स्वस्त्यस्मै विधये यन विदधेऽसौ कलावती ॥५१॥ यन्नरास्तेन गगनगमनक्षमविक्रमाः । पक्षिवत्पक्षयुक्ता वा न कृतास्तदसाध्वभूतु ॥५२॥
8000080LROLORLDBEDEOSE
0000RRELL
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
थ्वीचन्द्र
www.kobatirth.org
मन्येऽहो ! मानवेभ्यो यद्वरं ते विहगा अपि । ये यान्ति सत्वरं तत्र यत्रात्मीयः प्रियो जनः ॥ ५३ ॥ अहो ! तत्किमहो भावि महोदयमहोमयम् । यत्रैतत्प्रेयसीपाणिमादास्ये पाणिना स्वयम् ॥ ५४ ॥ इति हृल्लेखमुल्लेखविशेषविहितारतिः 1 नृपतिः पुनरास्थानमभजत् प्रातरञ्जसा ॥ ५५ ॥ समन्तात्सर्वसामन्ताः समेतास्तमुपास्तये । सभा सा भाति गीर्वाणपतिपर्षन्निभा स्फुटम् ॥ ५६ ॥ अत्रान्तरे गुरुश्वासरुद्धकण्ठेन केनचित् । चरेणागत्य विज्ञप्तो निःशङ्कः शङ्खभूपतिः ॥ ५७ ॥ किमयागान्महासैन्यं देव ! स्वदेशसीमनि । दिशो दशापि पूर्यन्ते तज्जतूर्यरवेण यत् ॥ ५८ ॥ जलाशया सञ्चरद्भिर्भटैः सर्वे जलाशयाः । खला इव भवन्ति स्म तत्क्षणात्कलुषाशयाः ॥ ५९ ॥ श्रुत्वेति भूपः सपदि विस्मृतान्यप्रयोजनः । भ्रुकुटीभङ्गभीमाङ्गो भटानाहोत्कटो रुषा ॥ ६० ॥ भोः ! वादयन्तु यानाय ढक्कां निष्कास्य कोशतः । समग्रापि च सङ्ग्रामसामग्री क्रियतां द्रुतम् ॥ ६१ ॥ तथा कृते तैर्भूकान्तोऽभिषिषेणयिषुर्यदा । तावदागत्य दत्तोऽसौ सस्मितस्तं व्यजिज्ञपत् ॥ ६२ ॥ अय्येतन्नेतरारब्धं किमकाण्डेऽपि विङ्गरम् । निजाग्रजजयसेनकुमारेण यदन्विता ॥ ६३ ॥ वृणीतुं त्वां समायाति सकला सा कलावती । यया चित्रस्थयाप्युच्चैररञ्जित मानसम् ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
६४ ॥ ( युग्मम् ).
चरितम् !
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
058000000000000000000
इति तद्वचसा सहसा पीयूषरसाभिषिक्त इव भूभुक । विध्यातचित्तदाहस्तं दत्तं स्माह सोत्साहः ॥ ६५ ॥ एतदयटिष्ट दुर्घटमाप झटिति किमित्यजल्पदेषोऽपि ।
देवस्यागुतपुण्यप्राग्भारेणात्र किं न भवेत् ॥ ६६ ॥ अत्रान्तरे मतिसारसचिवोऽवम् धराधवम् । स्वामिभक्तः कृतज्ञोऽयमचिन्त्यगुणवैभवः ॥ ६७॥ गाम्भीर्यान्न समाख्याति स्फुटं संभावये परम् । निजस्वामिगुणोत्कर्षों वर्णितस्तेन तत्र हि ॥ ६८ ॥ कलावती ततश्चैषा त्वय्यदृष्टेऽप्यभूद्रता। ततो हि प्रहिता पित्रा त्वां वृणीतुं कृतादरा ॥ ६९ ॥ समं तयव चलितो दत्तः संभाव्यते परम् । देवस्य ज्ञापनायैव पुरो भूत्वायमागमत् ॥ ७० ॥ दत्तोऽप्याख्यदहो ! बुद्धिर्मतिसारस्य मन्त्रिणः । वस्तु येनाश्रुतादृष्टमपि साक्षात्कृतं द्रुतम् ॥ ७१ ॥ इति सर्वेऽपि सन्तुष्टाः समादिष्टाः क्षमाभुजा। कुर्वन्तु भोः! यदधुना कृत्यं तत् प्रथितोद्यमाः ॥ ७२ ॥ आगादत्रान्तरे सारपरिवारसमन्वितः । जयसेनकुमारोऽप्यावासितः सनिकेतने ॥ ७३ ।। तत्र तहिनशेषां तामतिवाद्य विभावरीम् । प्रातर्नपसभामागात कुमारो मारसन्निभः॥ ७४ ॥ भूपभूर्भूधवं वीक्ष्य प्राणमत् प्राभृतान्वितः । क्षमापतिः समालिङ्ग्य कुमारं स्वागतं जगौ ॥ ७५ ॥
550080909552000000000000
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्रीचन्द्र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अत्रान्तरे वगाह्नः कुमारसचिवोऽवदत् । देवास्मत्स्वामिनोऽग्रेऽवक् दत्तोऽयं त्वद्गुणांस्तथा ॥ ७६ ॥ यथा त्वद्गुणरक्तासौ प्रेषि पित्रा कलावती । स्वयंवरास्या यद् रेमे त्वां विना न मनः कचित् ॥ ७७ ॥ ( युग्मम् ). गृहाण पाणिना पाणि तदेतस्याः प्रमोदतः । न कदाप्यनया दृष्टं स्वमातुरपि विप्रियम् ॥ ७८ ॥ तथा विदध्यास्तद्देत्र ! परप्रेम्णा यथोचितम् । यथा करेणुर्विन्ध्यं वा नेयं ध्यायेत् पितुर्गृहम् ॥ ७९ ॥ अथ श्रीशङ्खभूपोsaगहो ! विजयभूपतेः । चित्तं चित्रं यदस्माकमप्यरजि गुणैरिह || ८० ॥ शिशवोऽपि वयं तातविरहान्नृपतेः पदम् । संप्राप्ताः स्मः किमियता सआता गुणिनां धुरि ॥ ८१ ॥ तदेतस्य गुणांभोधेर्विजयक्ष्माभुजो मया । वचो विधेयमेवेत्याजूहवल्लाग्निकान्नृपः ॥ ८२ ॥ निर्णीते वासरे वयतूर्यनृत्यमहामहम् । विवाहं araध्वोश्वाचीकरद्धरणीशभूः ॥ ८३ ॥ गजवाजिरथस्वर्णाद्यदात् स करमोचने । जयसेनकुमारोऽस्थात् तत्राहानि कियन्त्यपि ॥ ८४ ॥ श्रीशङ्खनृपमापृच्छय कुमारोऽथ सगद्गदम् । कृतानुगमनो राझा देवशालमगात् क्रमात् ॥ ८५ ॥ कलावत्याः कला काचिदपूर्वैव विभाव्यते । विशालमपि भूपस्य ययारोधि गुणैर्मनः ॥ ८६ ॥ अन्यदा सुखसुप्ता सा निशि श्रीखण्डचर्चितम् । पुष्पदामार्चितं क्षीरोदधिनीरेण पूरितम् ॥ विकोशपद्मपिहितं निजोत्सङ्गतलस्थितम् । स्वमे वीक्ष्य मृगाक्षी सा हेमकुम्भमजागरीत् ॥
८७ ॥
८८ ॥ ( युग्मम् ).
For Private and Personal Use Only
0000
चरितम् ।
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
උපතිසංවිඳිරිලිපි පෙලෙයිවෙසිපිරියි
पातयवेदयद् राज्ञे पुत्रलाभं नृपोऽप्यवक । बभार गर्भ सा देवी रत्नगर्भेव सेवधिम् ॥ ८९ ॥ प्रायशः प्रथम पुत्री प्रमूते पितृवेश्मनि । पितेत्याप्तनरान् प्रैषीत् तदानयनहेतवे ॥९॥ जयसेनोऽङ्गदयुगं तत्करे प्राहिणोत् स्वसुः । राज्ञो दिव्यदुकूलानि प्रादात् प्राभृतहेतवे ॥ ९१॥ अथ क्रमात् समाजग्मुस्ते शङ्खपुरमुत्सुकाः । सर्वेऽप्याप्तनराः सायमवात्सुर्दत्तसमनि ॥ ९२ ॥ अथ भाविनियोगेन तत्र देवी कलावती। ददृशे तैः समायाता ते तस्यै ददुरङ्गदौ ॥ ९३ ॥ प्रमोदात्तौ तदादाय गता सा निजमन्दिरम् । प्रत्यूषे दर्शयिष्यामि भूपतेरिति वादिनी ॥१४॥ सखीजनसमक्षं तत्परिधायाङ्गदद्वयम् । प्रमोदनिर्भरा यावदालोकत कलावती ॥ ९५ ॥ अत्रान्तरे नृपो देवी गृहमागच्छदुत्सुकः । हर्षकोलाहलं तासां स तत्रावहितोऽशृणोत ॥ ९६ ॥ ददर्श देवीभुजयोः सङ्गतं चादद्वयम् । आख्यन् सख्योऽपि कनेदं ददे देवि ! विभूषणम् ? ॥ ९७ ॥ सोचे यच्चित्तगास्म्येषा यश्च मे मनसि स्थितः। अथवानेन दृष्टेन दृष्टः संपादकोश्य सः ॥९८ ॥ भुजाश्लिष्टेन चैतेनाश्लिष्टः साक्षान्मयापि सः । न विस्मरति यो जातु क्षणं मे मनसो हलाः ! ॥ ९९ ॥ अगृहीताबमुल्लापं निशम्येति विशाम्पतिः । कुविकल्पशतैरीयावशत्वेनाप्यगृह्यत ॥ १० ॥ दध्यौ भूवल्लभश्चित्ताल्हादकः कोऽपि वल्लभः । अस्त्येतस्याः पुनरहं दम्भप्रेम्णा वशीकृतः ॥ १०१॥
G0000000000000000000ODORE
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
चरितम्
00000000000000000000000
विनोदमात्रमेवास्मि तदिमां वंशवैरिणीम् । स्वैरिणी द्राग निहन्म्येष यद्वास्या दयितं च तम् ॥ १०२॥ अहो! अकार्यकारित्वमहो ! धाष्टर्यविजृम्भितम । करिकर्णचलं चित्तमहो! नारीषु दृश्यते ॥ १०३ ॥ इति कोपकरालोऽयं भूपालोऽप्यविमृश्यकृत् । निशि निष्करुणं नाम भटमादिष्टवानिति ॥ १०४ ॥ कोऽपि वेत्ति यथा नैव तथैतत् कृत्यमाचर । देवीं कलावतीमाशु त्यज भोः ! निर्जने वने ॥ १०५ ॥ स्यन्दनं प्रगुणीकृत्य देवीमागत्य सोऽब्रवीत् । गजस्थः कुसुनोद्याने गतो रन्तुमिलापतिः ॥ १०६॥ आदिष्टोऽस्मि नृपेणाई त्वदानयनहेतवे । प्रापये तत्र भवतीं तदारोह रथं जवात् ॥ १७ ॥ प्राअलत्वेन सारोहद् रथं तेनेरितौ हयौ । देव्यवोचत् कियड्रे नृपः सोऽप्याख्यदग्रतः ॥ १०८॥ प्राप्तं पुरो महारण्यं विभाताथ विभावरी । देवी नृपमपश्यन्ती प्रोवाच दृढमाकुला ॥ १०९॥ हहा ! निष्करुणारण्यमेतन्नो दृश्यते नृपः । नोद्यानमपि तस्कि भोस्त्वयाहं विप्रतारिता ॥ ११०॥ न श्रूयते तूर्यरवो न च कोलाहलो नृणाम् । किं स्वममिन्द्रजालं वा कथयतद् यथास्थितम् ॥ १११॥ देवीदीनगिरं श्रुत्वेत्युद्भूतकरुगो भृशम् । नहि निष्करुणो दातुं प्रतिवाक्यमभूत् क्षमः ॥ ११२ ॥ देव्या गाढाग्रहावेशादवतीर्य रथादय । गुरुशोकस्खलद्वर्णमित्युवाच स दुःखतः॥ ११३ ॥ धिग् मां निष्करुणः सत्यमई कृत्यमिदं यतः । कारितस्तदहो ! सेवापारवश्यमिदं हि धिक ॥ ११४ ॥
000000000000000000000
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10000000000000000000000000
भृत्येन स्वामिनः कार्य साध्वसाध्वपि साध्यते । ततो वच्मि रथादस्मादुत्तीर्य स्थीयतामिह ।। ११५ ।। अयमीदृग नृपादेशोऽन्यज्जाने नैव किश्चन । देवी तज्रपातादप्यधिकं कर्णकर्कशम् ।। ११६ ॥ वचो निशम्येति रथादुतरन्त्यपतद् भुवि । मूर्छामगात् क्रमाचापञ्चैतन्यं वन्यमारुतैः ॥ ११७ ॥ ( युग्मम् ). रथारूढः सकरुणं रुदन् निष्करुणोऽप्यगात् । चकार देवी सा तत्र सदैन्यं परिदेवनम् ॥ ११८ ॥ तापन्नपनियुक्तास्तास्तत्रागुः श्वपचाङ्गनाः। कर्तिकां नर्तयन्त्यश्च मृर्ताः प्रेतप्रिया इव ॥ ११९ ॥ निष्कारणोद्भवत्कोपभृकुटीभङ्गभीषणाः । हा! दुष्टेऽनिष्टचेष्टे ! त्वं न वेत्सि नृपतेन॑यम् ॥ १२० ॥ वर्तसे प्रतिकूलं तत् सहस्व स्वागसः फलम् । इत्यादि परुपै क्यैस्त यन्त्यः कलावतीम् ॥ १२१ ॥ शख्या निस्त्रिंशमुच्चख्नुर्बाह केयूरभूषितौ । अहो ! कर्मविपाकोऽयमनागस्पपि दण्डकृत् ॥ १२२ ॥ (युग्मम् ). 13
BGCOOCOCOOOTOCOCCOOCOOC
यतः
सीता नीता दशास्येन दधौ दुःखं वचोऽतिगम् । नलस्तत्याज निर्व्याजचरितां दयितां वने ॥ १२३ ॥ द्रौपदी वनजं कष्टं सेहे देहेन कर्मणा । गान्धार्यधाच्छुचं चाङ्गहाणामतिदुःसहाम् ॥ १२४ ।। सेहिरे नित्यमत्यन्तं महासत्यो यदापदम् । तन्नूनं प्राक्तनं कर्म नाभुक्तं क्षीयते कचित् ॥ १२५ ।। ततो हा तात ! हा मातरित्याधुक्तिपरायणा । भूपीठे लुठिता तारं विललाप कलावती ॥ १२६ ॥
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरितम्॥
అంతంతంలో తితిలో
हा देव ! निघृणा भूत्वा कथमेवमचिन्तितम् । ददासि दारुणं दुःखं फलं वैतत्स्वकर्मणः ॥ १२७ ॥ आर्यपुत्र ! तवापोयमसमीक्षितकारिता । नोचिता यन्महान्तोत्र युक्तायुक्तविचारिणः ॥ १२८ ॥ जानन्त्या ििप्रयं किश्चित् प्रिय नाचरित मया। अजानन्त्या कृतं यत्तु तत्र दण्डः क ईदृशः? ॥ १२९ ॥ कर्णेजपेन केनापि शि, जाने न तत्प्रिय । मा में थाः शीलमालिन्यं पुनः स्वप्नेऽपि यत्कृतम् ॥ १३ ॥ तत्प्रेम प्रतिपत्तिः सा तदालपनमञ्जसा । सर्वमेकादे देव ! त्वया निस्तारितं स्यात् ॥ १३१ ॥ इति बहुधा विलपन्त्याः सहसा जठरं समाकुलीभूतम्। ज्ञात्वा प्रसवावसरं त्रपयागादापगातीरम् ॥ १२ ॥
तत्रान्तर्वनगुल्मं प्राभूत सुतं सुतप्तहेमाभम् । तं वीक्ष्य विशालाक्षं मुमुदेऽमन्दं मृगाक्षी सा ।। १३३ ॥ पन:- -आपनतमपि मुखयति हसयति गुरुशोकनिभृतहृदयमपि । मृतमपि जीवयतितरामपत्यसञ्जीवनी जीवम् ॥ १३४॥
अत्रान्तरे स दारक इतस्ततः सञ्चरन् नदीतीरे । विलुलोठ सापि पद्भ्यामधात् कयं कथमपि प्रेम्णा ॥१३५ ॥ भगति सकरुणं निघृण! हा दैव! कृतेन किमियतापि त्वम् । तुष्टोऽसि न यहत्त्वा सुतमपहरसि स्वयं मेऽद्य ॥ १३६ ॥ तद् व्याघ्रयोऽपि वरं ताः शुन्योऽप्यथवा वरं रदाग्रेषु । या धृत्वा स्वापत्यं प्रयान्ति निजमीप्सितं स्थानम् ॥ १३७॥ परमेश्वरि! नदि! मातस्तुभ्यं प्रणताम्मि सविनयमिदानीम्। मा मत्पुत्रमपहियास्त्वमसि यतो जीवजीवातुः ॥ १३८ ॥ यादे जयाते जगति शीलं यादि तच्च मया कलङ्कितं न मनाक। तद्देवि! बोधनयने ! कुरु बालकपालनोपायम् ॥ १३९ ॥
DO00000000003000000000000
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1000000తంతుతం 000000000
तथा च-मनोवाकर्मभिर्यद्यस्मिन् भवे न मया निजम् । सच्छीलं खण्डित तन्मे बाहू स्तां पुनरुद्भवौ ॥ १४० ॥
लसच्छीलप्रभावेन सिन्धुदेवी दयापरा । पुननवीकरोति स्म तस्या बाहुद्वयं क्षणात् ॥ १४१ ॥ तदर्शनात् सुधासिक्तेवापूर्व तनुशर्म सा । सुरीवानुभवन्ती स्वपाणिभ्यां सुतमाहीत् ॥ १४२ ॥ स्तनन्धयं निजोत्सङ्गमारोप्यामोदत क्षणम्। पुनस्तथाविधं दुःखं स्मृत्वा सा व्यलपद् भृशम् ॥ १४३ ॥ किं जीवितेन मे येनाभवं परिभवास्पदम् । किन्त्वनाथं सुतं मोक्तुं न शक्ता क्षणमप्यमुम् ॥ १४४ ॥ यदन्यचिन्तितं दैवादेशादन्यदभूदिह । नाभाग्यवतां जातु जायत चित्तचिन्तितम् ॥ १४५ ॥ पुत्रजन्ममहं कर्ता पिता चित्ते ममेत्यभूत् । विपाको दारुणस्तत्र सातो ही ! विधेशात् ॥ १४६ ॥
हा ! धिक् तुच्छमनोभावान् निःस्नेहान् निघणान् नरान् । विचारयन्ति ये कृत्याकृत्ये नैव कदाचन ॥ १४७॥ यतः-तत्क्षणदर्शितरागास्तत्क्षणसंपादितोरुसन्तापाः । दिनकर इवाभिवन्द्या दूरस्थैरेव यत्पुरुषाः ॥ १४८ ॥
विलपन्तीति केनापि वीक्षिता तापसेन सा । नीता कुलपतेरग्रे पृष्टाख्यच्चरितं निजम् ॥ १४९ ॥ रुदन्त्याश्वासिता तेन धीरतामवलम्बय । तापस्यन्तर्गता भद्रे ! प्रपालय निजागजम् ॥ १५० ॥ सर्व संपत्स्यते नूनमचिराद्रुचिरं तव । इति तत्र कलावत्यप्यस्थात् कुलपतेगिरा ॥ १५१ ॥ इतस्ता द्रुतमागत्य सकेयूरं भुजद्वयम् । छिन्नं छन्ने नृपस्याग्रे मुमुचुः श्वपचस्त्रियः ॥ १५२ ॥
ള്ള
॥७॥
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
खीचन्द्र
www.kobatirth.org
॥
जयसेनकुमाराह्वाङ्किता वीक्ष्याङ्गदौ नृपः । दध्यौ हा ! निर्मितं पापमविमृश्येदमञ्जसा ॥ भूयोऽनुशयवान् दत्तमपृच्छत् तत्प्रतीतये । देवशालाद् यथा कश्चिदागच्छत् सोऽप्यदोऽवदत् तिष्ठन्ति मद्गृहे देव्याकारणार्थमिहागताः । नृपातभृत्या राज्ञेति पृष्टा आहूय त तदा ।। भोः ! भोः ! प्रजिध्ये केनेदमङ्गदद्वयमुच्यताम् । जयसनकुमारेणेत्यवोचस्तेऽपि संमदात् ।। देव्याः पार्श्वे मुक्तमस्तीत्येतच्छ्रुत्वाथ तद्वचः । मूर्च्छावशेन झटिति पतितो भुवि भूपतिः ॥ कथञ्चिल्लब्धचैतन्योऽचिन्तयचेति चेतसि । अहो ! अकृत्यकारित्वमहो ! निदयता मम ।। कर्मचाण्डालताहा! मे चिन्तयन्मूच्छितः पुनः । पृष्टो मन्त्र्यादिभिर्भूपोऽप्याख्यदश्रुविमिश्र ॥ भोः ! भोः ! मुष्टोऽस्मि दुष्टोऽहमद्रष्टव्यमुखोऽस्मि च । अपवित्र चरित्रो यदविचार्य कुलत्रपाम् ॥ ईषदप्यविसंभाव्यदोषाप्येषा कलावती । हा हा ! नीता कृतान्तस्य सदनं पापिनाधुना ॥ तद्दर्शये किमात्मीयं वदनं भारितोऽहसा ? । स्त्रीघातपातकादस्मात् स्थानं श्वभ्रेऽपि नास्ति मे ।। १६२ ।। सज्जीकुर्वन्तु तत्काष्ठान्यधुनाग्निप्रवेशतः । येन स्वं गुरुशोकाशितप्तं निर्वापये रयात् ।। १६३ ॥ तद्वज्रपातप्रतिमं श्रुत्वा मन्त्र्यादयो वचः । ऊचुः स्वामिन्! मा स्म कार्षीः क्षारक्षेपं क्षतोपरि ॥ १६४ ॥ विवेकिन्नेकमग्रेऽपि यदासीदसमञ्जसम् । द्वितीयं त्वयि कुर्वाणे नाथहीनाऽय ही ! मही ।। १६५ ।।
१६९ ॥
For Private and Personal Use Only
१५३ ॥
१५४ ॥
१५५ ॥
१५६ ।।
१५७ ॥
१५८ ।।
१५९ ॥
१६० ॥
Acharya Shri Kailassagarsuri Gyanmandir
चरितम् ।
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1000000000000000000000000
परिपाल्य चिरं राज्यं हत्वा शत्रून् महोत्कटान् । हतविप्रहतं भावि त्वया मुक्तं क्षणादिदम् ॥ १६६ ॥ कृत्वा कुलक्षयं मा स्म पूरयेस्त्वं मनोरथान् । रिपूणां देव ! तत्सद्यः प्रसीद करुणापर ! ॥ १६७ ॥ अकुशं मत्तदन्तीवागणयन्मन्त्रिणां वचः । आगमन्नन्दनं भूपः प्रविविक्षुर्हताशनम् ॥ १६८ ॥ क्षणेन लभ्यते याम इत्याधुक्तिविशेषवित् । संपाप्यावसरं भूपं गजश्रेष्ठी व्यजिज्ञपत् ।। १६९ ॥ देवोद्यानेऽत्र देवाधिदेवस्य प्रथमार्हतः। प्रासादोऽस्त्यत्र देवादिकं पुण्यं विधीयते ॥ १७० ॥ चतुज्ञानधरश्चात्रामिततेजोऽभिधाधरः । गुरुस्तमपि वन्दित्वा कुरु जन्म फलेग्रहि ॥ १७१ ॥ इष्टं वैद्योपदिष्टं च मन्वान इति भूपतिः । इदं पथ्यदनं चापि परलोकाध्वयायिनाम् ॥ १७२ ।।
गतोऽर्हद्भवनं भूपो विधिवज्जिनमार्चयत् । नत्वा गुरुं गिरं तस्य स कृपामसृणोऽशृणोत् ।। १७३ ॥ यथा-अकूपार इवापारः संसारो दुःखवीचिभिः। बोहित्थमिव तत्रैष राजते धर्म आईतः ॥ १७४ ॥
क्रोधाद्यरिजयेनैवाराध्यते स जनैननु । क्रोधान्धो यन्न वेत्त्यङ्गी कृत्याकृत्ये हिताहिते ॥ १७५ ॥ क्रोधोन्मत्तस्तत्तदेवाचरेजन्तुर्विदन्नपि । येनात्रामुत्र चाप्युच्चैरथ दुःखौघभाग् भवेत् ॥ १७६ ॥ अभूद् भूपतवाप्येषोऽनर्थः क्रोधवशात्मनः। हित्वा तत्त्वार्थिभिः क्रोधं तद्धौ धीविधीयताम् ॥ १७७ ॥ परपाणिवधात् स्वस्य घातः स्यादधिकांहसे । मत्वेति भूप ! त्वमपि त्यजामुं कुग्रहग्रहम् ।। १७८ ॥
GGOOGGGGGGOGOGOGOGOOG33
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
थ्वीचन्द्र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
dal मनः समाधाय क्षमामाधाय चेतसि । प्रतिपद्याहतं धर्मं परत्रात्र सुखी भव ।। १७९ ।। अन्यच्च - निमित्ततो वयं विद्म एवं ते कुर्वतः सतः । तस्या अखण्डदेहायाः सङ्गमोऽपि भविष्यति ।। १८० ॥ पुनरभ्युदयं प्राप्य प्रमोदभरनिर्भरः । त्यक्त्वा राज्यं परिव्रज्यामचिरात् त्वं गृहीष्यसि ।। १८१ ।। दिनमेकं प्रतीक्षस्व ततो मद्वचसा नृप ! सञ्जातप्रत्ययः पश्चाद् विदध्यास्त्वं यथोचितम् ।। १८२ ।। इति सूरिगिरा भूरिप्रमदावेशपेशलः । भूकान्तः स गुरूपान्तगतोऽतिक्रान्तवानहः ॥ १८३ ।। तत्रैव निशि चोद्याने शयितो दयितो भुवः । स्वनमस्वप्नतुल्योऽसौ निशाशेषे व्यलोकयत् ।। १८४ ।। यथा कुत्रापि कल्पद्रौ निष्पन्नैकफला लता । केनापि सहसा छिन्ना पपात धरणीतले ।। १८५ ॥ पुनर्झटिति निष्पन्नमनोहरफला सती । कल्पशाखिनि संलग्ना सा तत्रैव स्वयं लता ।। १८६ ।। प्रातः प्रमुदितोऽपृच्छ्द् गुरून् स्वप्नं त ऊचिरे । कल्पद्रुः स भवान् छिन्नलता सा वियुता प्रिया ॥ १८७ ॥ पुनर्मनोहरफला संलग्ना तत्र या लता । सा सपुत्राद्य ते नूनं मिलिष्यति कलावती ॥। १८८ ।। एवमस्त्वित्यथो जल्पन् नृपो दत्तं समादिशत् । यदकृत्यं कृतं तावन्मर्त्तव्यं तन्मयाधुना ।। १८९ ।। तथापि तत्र गत्वा त्वं जीवन्तीं तामिहानय । मृताया निश्चयं यद्वा पश्चात् कुर्वे यथोचितम् ॥ १९० ॥ दत्तस्तत्र गतोऽपृच्छत् तापसं कमपि स्फुटम् । भोः ! काप्यत्र त्वया दृष्टाऽय कल्ये कापि वर्णिनी ? ॥ १९९ ॥
For Private and Personal Use Only
चरितम्
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९६ ॥
१९७ ॥
आसन्न सवा चासौ प्रसूता नाथवा मुने ! वदैतत् सकलं सत्यं श्रोतुमुत्कं मनो मम । १९२ ॥ मुनिराख्यत् कुतोऽत्रागाः सोऽवक् शङ्खपुरादतः । ऋषिराख्यत् किमद्यापि भूपोऽस्यां न त्यजेत् क्रुधम् ॥ १९३ ॥ पुनरन्वेषयेद् येन दत्तोऽवग् महती कथा । इयं वयं तुत्सुकाः स्मो वक्तुं संप्रति न क्षमाः ॥ १९४ ॥ परं न पश्येज्जीवन्तीं नृपः सद्योऽद्य यद्यमूम् । ज्वलति ज्वलनेऽवश्य तज्जुहोति निजानन् ॥ १९५ ॥ यदि वेत्सि ततो ब्रूहि तद्वृत्तान्तं कमप्यहो ! । चतुराश्रमभर्तुर्यज्जीवितं नृपतेरियम् ॥ श्रुत्वेति तापसोऽनैषीद् दत्तं कुलपतेः पुरः । ज्ञातवृत्तः स दत्तस्यादर्शयत् तां कलावतीम् ॥ दत्तं वीक्ष्य रुदन्ती साऽऽश्वासिता तेन सगिरा । पतित्वा पादयोश्चायं स्वयमेतां व्यजिज्ञपत् ॥ मुञ्च कोपं क्षमस्वागः कालक्षेपो न युज्यते । त्वां विनाश्प्रिवेशोत्कं भूपतिं रक्ष भामिनि । ॥ ततः कुलपति पृष्ट्वा रथमारुह्य सोऽचलत् । नृपस्तां वीक्ष्य हृष्टोऽपि त्रपयाभूदधोमुखः ॥ संप्राप्यावसरं देवीमवदद् भूपतिः प्रिये ! । विनापराधं मूढेन कृतो दण्डो मुधा तत्र ॥ तथा च - वञ्जुलद्रौ फलं नास्ति वटोदुम्बरयोः सुमम् । तथैव देवि ! त्वद्देहे दोषलेशो न विद्यते ॥ अज्ञानतिमिरान्धेन मया वि दोषाः संभावितास्तत्वं क्षमस्वाशेषमप्यदः ॥ २०३ ॥ विधाय विविधालापानित्युभौ भास्करोदये । प्रणम्य तं गुरुं तस्य दशनां शृणुतो मुदा ॥
२०४ ॥
For Private and Personal Use Only
१९८ ॥
१९९ ॥
२०० ॥
Acharya Shri Kailassagarsuri Gyanmandir
२०९ ॥
२०२ ॥
900000
॥९॥
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वीचन्द्र
चरितम्॥
0000000000000000000000000
देशनान्तेऽथ पप्रच्छ गुरून् भूपः कृतानतिः। भगवन्! माग्भवे चक्रेऽनया किंकर्म कर्कशम् ? ॥ २०५ ॥ निरागसोऽपि येनास्या अहमच्छेदयं भुजौ । गुरुराख्यद् विदेहेत्र महेन्द्रपुरपत्तनम् ॥ २०६ ॥ ( युग्मम् ). तत्रासीत् त्रासितारातिनृपतिर्नरविक्रमः । पत्नी लीलावती तस्य तयोः पुत्री सुलोचना ॥ २०७ ॥ प्राप्तापि यौवन साभूत केलिकौतुककर्मठा। शुद्धशीला सलीलापि कृतहीला मनोभवे ॥ २०८ ॥ पितुरङ्कस्थितान्येधुर्नपतेरुपदागतम् । कृत्वा कीरं करे कनं कुमारी तमपाठयत् ॥ २०९ ॥ क्रीडायै तं गृहीत्वाथ न्यास्थत् सा स्वर्णपअरे । दाडिमीहारहरादिफलाली चाप्यभुजत् ।। २१०॥ स्वास्थं पारस्थं वा तमेकं मेचकं शुकम् । उरःस्थं वा करस्थं वाऽपाठयत् सा सदा मुदा ॥ २११॥ आसने शयने याने भोजने राजसंसदि । आत्मानमिव तं कीरं साऽमुश्चन्न कदाचन ॥ २१२ ॥ अन्यदा सा पुरोद्याने कुसुमाकरनामनि । शुकेन पारस्थेन सखीभिश्च युता गता ॥ २१३ ॥ जिनेन्द्रालयमालोक्य तत्र साथ सुलोचना । सीमन्धरजिनं नत्वा तुष्टा तुष्टाव भक्तितः ॥ २१४ ॥ जिनाओं वीक्ष्य कीरोऽपि जातजातिस्मृतिस्तदा । प्राग्जन्म निजमस्मार्षीद् यदभूवं यतिः पुरा ॥ २१५ ॥ अधीत्य शुद्धसिद्धान्त कृतोपधिपरिग्रहः । विराधितवतो मृत्वाऽभूवं कीरोऽत्र जन्मनि ॥ २१६ ॥ धिग्मां यद्धस्तसंस्थेऽपि ज्ञानदीपे विभास्वति । मोहान्धो न्यपतं तिर्यग्भवावटसुसङ्कटे ॥ २१७ ॥
000c00c0100ccc0000000
-
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिष्टधुनापि दृष्टोऽस्ति चेत्प्रभुर्भवपारदः । भोक्ष्येऽतो जिनमानम्येत्यभिजग्राह कीरराट् ॥ २९८ ॥ कुमारी शुकमादायाजगाम स्वनिकेतनम् । पक्षिणं पञ्जरात् कृष्ट्वा यावद् भोक्तुमुपाविशत् ॥ २१९ ॥ तावन्नमोऽर्हद्भ्य इति ब्रुवन्नुड्डीय सोऽप्यगात् । जिनं नत्वा फलाहारं कुर्वन्नास्ते स कानने ॥ २२० ॥ ( युग्मम् ). सुलोचनाथ सा नैव भुते तद्विरहासहा । अहर्निशं महाक्रन्दपरा तिष्ठति दुःखतः ॥ २२९ ॥ अथ राज्ञा नियुक्तैस्तैः पत्तिभिः पाशपातनात् । बद्धा शुकः समानीतोऽर्पितस्तस्यै प्रमोदतः || २२२ ॥ कुमारी तं गृहीत्वा चाक्षिपत् कर्कशया गिरा । रे रे ! गतः क मां मुक्त्वा स्मरेस्त्वं यद्गतं पुरा ॥ २२३ ॥ अतः परं न दास्यामि निर्गन्तुं त्वां कदाप्यहम् । लुलाव पक्षावित्युक्त्वाऽक्षिपत् सा तं च पअरे ॥ २२४ ॥ दध्यौ सुधीः शुकोऽप्यन्तर्धिक् पराधीनदेहिनः । परायत्तोऽङ्गभृत्स्वस्य हितं नाचरितुं क्षमः ॥ २२५ ॥ यतः - हठान्नीचतरं कार्य कायते मार्यतेऽपि च । नरकावासदेशीयां धिक परायत्ततामहो ! ॥ २२६ ॥ तपः क्रियाद्यनुष्ठानं स्वाधीनो न व्यथां तदा । अतः स्तोकमिदं मेऽत्र सहिष्येऽथ विडम्बनाम् || २२७ ॥ जिनास्पद्ममप्येष वीक्षितुं न क्षमोऽधुना । इत्यश्रुमिश्रनयनोऽनशनं स प्रपन्नवान् ॥ २२८ ॥ पञ्चभिर्वासरैर्मृत्वा सौधर्मेऽसौ सुरोऽजनि । सुलोचनापि तमनु मृता तस्यैव देव्यभूत् ।। २२९ ।। ततश्चचुत्वा क्रमात् शङ्ख इत्यभूद् भूपतिर्भवान् । सुलोचनापि च्युत्वाभूत् सकलासौ कलावती ॥ २३० ॥
For Private and Personal Use Only
॥१०॥
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीचन्द्र
चरितम्।
यच्छुकस्यानया च्छिन्नौ पक्षौ प्राच्यभवे रुषा। तेनावास्या भुजौ भूप! भवानच्छेदयत् क्रुधा ।। २३१॥ इति प्राग्भववृत्तान्तं श्रुत्वाऽसौ सद्गुरोर्मुखात् । भृवासवः सभार्योऽभूज्जातजातिस्मृतिस्तदा ॥ २३२ ॥ प्राप्तबोधिर्भवाम्भोधिमुत्तितीषुर्गुरून् जगौ । कियत्कालममुं बालं पालयन्नस्मि सांपतम् ॥ २३३॥ व्रतमङ्गीकरिष्यामि सुतेऽस्मिन् राज्यधृवहे । सांप्रतं गृहिधर्म मे दत्स्व स्वच्छमते ! यते ! ॥२३४॥ क्रमेण पूर्णकलशं नाम्नानलसमाजम् । निवेश्य राज्ये प्रव्रज्या तावडीचक्रतुर्मुदा ॥ २३५ ॥ मृत्वा कालेन सौधर्म सातौ त्रिदशोत्तमौ । पूर्वप्रेम्णा च तत्रापि प्रीतिभावमुपेयतुः ॥ २३६ ॥
DOOOOOOOOOOOO00000000000€
60000000000000000000000
इति श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रमहाराजर्षिचरिते श्रीशङ्कनृप
कलावतीचरितनिरूपणं प्रथमं भवग्रहणं संपूर्णम् ॥
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्वितीयो भवः ।
अथास्त भरतक्षेत्रे मणिपिङ्गलमण्डले । पोतनाह्वपुरं तत्र नृपः शत्रुञ्जयाभिधः || १ || वसन्तसेना तस्यासीद् राज्ञी लक्ष्मीर्हरेरिव । शचीव पुरुहूतस्य मृडानी धूर्जटेरिव ॥ २ ॥ स शङ्खनृपजीवोऽथ मराल इव मानसे । प्राप्तपद्माकरस्वमात् तस्याः कुक्षाववातरत् ॥ ३ ॥ गर्भानुभावतो दीनादीनां दानैकगोचरः । सञ्जातो दोहदो देव्याः सद्यो भूपोऽप्यपूरयत् ॥ ४ ॥ रवि प्राची सद्रत्नं रोहणोर्वीव सा सुखात् । प्रसूता भुवनानन्ददायकं दारकं क्रमात् ॥ ५ ॥
पितो नृपो दास्याददेऽस्याः पारितोषिकम् । जनहर्षावहं चापि व्यधाज्जन्ममहामहम् || ६ || कमलाकरसुस्वद्मानुसारान्निर्ममे नृपः । तस्याह्नां कमलसन इति सूनोः परिस्फुटम् ॥ ७ ॥ शुक्लपक्षे शशीवासौ क्रमाद् बुद्धिमथाप्नुवन् । त्यक्तबाल्यवयाः प्रापद् यौवनं पावनं वयः ॥ ८ ॥ स परं प्राग्भवाभ्यासाद् विमुखो विषयेष्वभूत् । प्राग्भवीयो हि संस्कारो यज्जन्तूननुवर्त्तते ॥ ९ ॥ सोऽन्यदा बहुधाऽभ्यस्यन् सततं सकलाः कलाः । क्रीडायै सखिभिः साकं प्रययौ नन्दनं वनम् ॥ १० ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
0000
॥११॥
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वीचन्द्र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विकसत्कुसुमामोदमञ्जुगुञ्जन्मधुव्रतम् । माद्यत्पिकवधूस्फीतगीतसन्ततिपेशलम् ॥ ११ ॥ वनं वीक्ष्य वसन्तर्त्तुविशेषविपुलोदयम् । इतस्ततो वयस्येषु केलिलीलाचलेष्वथ ॥ १२ ॥ प्रदेशे कापि शुश्रवावं कस्याप्यसाविह । अहो ! अनायकं विश्वमिति भूमिपतेः सुतः ॥ १३ ॥ (त्रिभिर्विशेषकम् ). दध्यौ कमलसेनोऽथ नयेनोवीं प्रशासति । अहो ! मत्पितरि क्ष्मापे कथं विश्वमनायकम् ? ॥ १४ ॥ करवाल करे कृत्वा करालः सोऽतिमन्युना । अभीतोऽप्यभितोऽपश्यन्न च कश्चिदलोकत ॥ १५ ॥ श्रावं श्रावं तमारावं दर्श दर्श दिशो दश । ददर्श दूरे देवीको विशन्तीं कामपि स्त्रियम् ।। १६ ।। ध्रुवमस्या अयं शब्दः पृच्छामि तदमूमहम् । ध्यात्वेत्यगाद् देवगृहं तावदुत्पतितं हि तत् ॥ १७ ॥ नभोगणे प्रचलितं वायुवेगेन तत्क्षणात् । गत्वा दूरं समुत्तीर्य काप्यस्थाद् भुवि तत्स्थिरम् ॥ १८ ॥ कुमारो विस्मितोऽपश्यत् तां पूर्वेक्षितवर्णिनीम् । अत्रान्तरे विनिर्यान्तीं कुतोऽपि भवनान्तरात् ॥ स्वागतं वत्स ! ते सेति ब्रुवाणाऽदात् तदासनम् । कुमारायासकौ तत्र न्यषीदच्च सकौतुकः ॥ भयो भूभर्तृभूतां चाभणद् भद्रेऽसि का त्वकम् ? । किञ्चेन्द्रजालमेतद् वा कथं विश्वमनायकम् ? ॥ सोचे यस्या न को नाथस्तस्या जगदनायकम् । इन्द्रजालं पुनर्नाथहेतोरेव व्यधामदः ॥ २२ ॥ अन्यच्च - अङ्गश्रीरिति नाम्नाऽहं प्रौढा स्त्री बहुपुरुपैः । भुक्ता संप्रत्यनाथाया नाथो भवति चेद् भवान् ॥
१९ ॥
२० ॥
२१ ॥
२३ ॥
For Private and Personal Use Only
चरितम् ।
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3000000000000OOOOOOOO0000
तदा सनाथं भुवनं मन्येऽवग् भभुगङ्गभूः । नाहं नाथः परस्त्रीणां स्वमेऽपि स्यां हि सुन्दरि! ॥ २४ ॥ (युग्मम्) परस्त्रीषु च शस्त्रीषु येषां समर मनः। नमस्तेभ्यः समस्तेभ्यः प्रशस्तेभ्यस्त्रिधा मम ॥ २५ ॥ दीनादीनामहं नाथो भवामि परिपालनात् । न पुनः प्राणनाशेऽपि कुर्वे सङ्ग परस्त्रियः ॥ २६ ॥ सोचे यदीशगुणस्ततो मच्चित्तहार्यसि । सहालमनयालापेनेति जल्पन् कुमारराट् ॥ २७ ॥ गतस्ततो द्रुतं गेहमध्यादत्रान्तरे पुरः। नरः कोऽपि गिरा गर्जन् तर्जयनिदमब्रवीत् ॥ २८ ॥ (युग्मम्). प्रविश्य रे ! रे ! किं शून्यसदने सारमेयवत् । निरगा यदि शूरोऽसि तत्तिष्ठाभीष्ट ! मत्पुरः ॥ २९ ॥ कुमारः केशरीवाभिमुखीभूयाभणच्च तम् । किं रे ! स्वच्छन्दचारित्वं पारीन्द्रस्य निवारयः ॥ ३० ॥ सोऽवक सिंहोऽसि चेत् सत्यं तच्छत्रं मे सहिष्यसि । कुमारोऽवक प्रहर भोः! सोचक प्राक् हन्तु भोः ! भवान् ॥३१॥ भूपभूरथ तं प्राह नाहमप्रहरत्यहो ! । प्राग निहन्मीति सत्त्वाव्यं तं वीक्ष्याख्यत् स पूरुषः ॥ ३२ ॥ यद्यवं सत्त्ववांस्तत् त्वं भोक्ष्यस्यङ्गश्रियं हि ताम्।क्षन्तव्यं यन्महासत्व ! खेदितोऽसि चिरं मया ॥ ३३॥ यच्च स्वकार्यलोभेन पितृभ्योऽसि वियोजितः । यच्च सत्त्वपरीक्षायै स्त्रीपुंरूपेण मोहितः ॥ ३४ ॥ अहं चम्पापतेरेषोऽस्मि सानिध्यकरः सुरः । अङ्गदेशश्रियोऽधीशं त्वां विधित्सामि सांप्रतम् ॥ ३५ ॥ तन्न कार्यों मनाक खेद इत्युक्त्वाऽन्तरधात सुरः । कुमारोऽपि च विज्ञाताङ्ग श्रीनामार्थविस्मितः ॥ ३६॥
000000000000000000000000
॥१२॥
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
चरितम
BOOCO6066GOO660000000000€
भ्रमन् पुरः सरः प्राप्य व्यधान्मज्जनमञ्जसा । स विशालरसालगुच्छायां यावच्छ्रितोऽस्ति च ॥ ३७॥ तावत् कोऽपि पुमानेत्य तमित्याख्यत् प्रभो! शृणु। चम्पेशो गुणसेनाख्यः क्रीडायै वनमागतः ॥ ३८ ॥ तेनाहं प्रहितो देव ! त्वदानयनहेतवे । तत् तत्रागमनायाएं हयमारोह सत्वरम् ॥ ३९ ॥ स एव कारणं वेद नेदमस्मि मृषा वदन् । समारुध कुमारस्तं हयं तत्रागमत् ततः ॥ ४० ॥ तत्राशोकतरोर्मूले निषण्णस्य महीपतेः । नमन् दृक्संज्ञया तेन निषिद्धो भूधवाङ्गभूः ॥ ४१॥ किमेतदिति चिन्ताः स्वमन्त्रिमुखदत्तक । स भूपस्तं स्खलदर्णमेवमालापयद् यथा ॥ ४२ ॥ सुसुसुन्दर! पृच्छामः कककस्मादागतः किमेकाकी?। कुकुकुकुकुशलं तततवसससससस्वागतं तेऽद्य॥ ४३ ॥ दथ्यौ कमलसेनोऽथ कथमीदृग्गुणोऽप्यहो ! । अदृषि जिह्वाजाइयेन नतिं वा वारयेत् कथम् ॥ ४४ ॥ तावन्मन्त्र्यवदत् तस्य देव ! श्रान्तोऽस्ति राजमूः । भवन्तोऽपि ततः सर्वे प्रविशामोऽधुना पुरीम् ॥ ४५ ॥ सर्व यदिष्टं देवस्य द्विधाऽप्येष विधास्यति । इत्युल्लापपराः सर्वे गताश्चम्पापुरीमथ ॥ ४६ ॥ मन्त्री तं स्वगृहे नीत्वा कृतमज्जनभोजनम् । सुखासनं समध्यास्य कुमार समुदाहरत् ॥ ४७ ॥ परोपकारसार ! त्वं मदुक्तमवधारय । विधाय करुणामङ्गदेशराज्यमुरीकुरु ॥ ४८ ॥ पूरयास्मत्प्रभोश्चाथ कृपानाथ ! मनोरथान् । श्रुत्वेत्यवक कुमारोऽपि समारोपितविस्मयः ॥ ४९ ॥
9000000000000000000000000
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
WODOOOO0000000000000000€
चित्रं सचिव ! यद् विद्यमानेऽप्येकमभौ परः। विधीयते नृपस्तत् त्वत्पभोः कोऽस्ति मनोरथः ॥ ५० ॥ तत् तत्त्वं कथ्यतां मन्त्रिन्नेतचित्रमहो ! मम । अवोचत् सचिवोऽप्येवं यत् कुमारावधार्यताम् ॥ ११ ॥ अस्यामेव महापुर्या श्रीकेतुरिति भूपतिः । विजयन्ती जयन्तीव जयन्तीमस्य देव्यभृत् ॥ १२ ॥ अन्यदाऽऽस्थानमासीने नृपे कोत्र सुखी पुरे ?। तदा सभासदामेषा प्रवृत्तिरभितोऽभवत् ॥ २३ ॥ केनापि स्फुटविज्ञाततत्त्वेन जगदे तदा। पुर्यस्यां सुखभागेको महेभ्यो विनयन्धरः ।। ५४ ॥ यस्य श्रीर्धनदस्येव ज्ञातृत्वं गीष्पतेरिव । सौन्दर्य मन्मथस्येव गाम्भीर्य जलधेरिव ॥ १५ ॥ चतस्रश्चतुरा यस्य रूपनिर्जितमेनकाः । मान्या आज्ञाविधायिन्यो भार्या भार्याश्च सन्त्यहो ! ॥ ५६ ॥ अत्रान्तरे परः प्रोचे वणिकस्त्रीवर्णनेन भोः!। किं हीलयसि भूपानामवरोधवधरपि ? ॥ ५७ ।। परोऽवोचदहो! हीलाऽन्यस्य किं सद्गुणस्तवात् । गुणाढ्यं वस्तु सर्वोऽपि वर्णयेदिति मे मतिः ॥ ५८ ॥ एतच्च सर्वलोकेऽपि प्रसिद्धं वर्ततेऽनघ ! । पौर्यः सर्वाश्च तद्रूपसौभाग्याद्याप्तिहेतवे ॥ ५९ ।। कुर्वन्त्यनेकदेवीनामुपयाचितकान्यहो ! । ललितं जल्पितं चासां वर्णिन्यो वणयन्त्यलम् ॥ ६० ॥ ( युग्मम् ).
इत्यादि बहुधा तासां श्रुत्वा वर्णनमद्भुतम् । पीतासव इवैतासु रागान्मत्तोऽभवन्नृपः ॥ ६१ ॥ यतः--तथा दृष्टे न रज्यन्ति गुणिन्यपि जने जनाः । निर्गुणेऽपि यथाऽदृष्टे पराभिहितवर्णने ॥ ६२ ॥
000000000000000000000
-
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
थ्वीचन्द्रा
चरितम्।
3000000000000000000000000
स्मरान्धस्य ततो भूमिधवस्याभ्रश्यदासा । धर्मधीर्मनसोऽशेषा किमकृत्यं हि कामिनाम् ? ॥ ६३ ॥ यतः -कामान्धो न भवेद् यावद् धीमांस्तावत् पुमानिह । इलापुत्रो नटीसक्तः स्वकुलं ह्यकलङ्कयत् ॥ ६४ ॥
एकतः कुलमालिन्यमन्यतो मदनव्यथा। ततो व्याघ्रतटीन्यायाद् दुःखितोऽभूत् तदा नृपः ॥ ६५ ॥ दथ्यौ च वणिजस्तस्य दोषमुत्पाद्य कञ्चन । आदास्ये तस्य ताः कान्ता जने नेत्ययशोऽपि मे ॥६६॥ निश्चित्येत्यवदद् भूपः पुरोधसमसौ रहः। कृत्वा शाठ्येन भोः ! मैत्री महेभ्ये विनयन्धरे ॥ ६७ ॥
लेखयित्वाऽमुना भूर्जे श्लोकमेनं रहो मम । समर्पय तथा भद्र ! यथा वेत्ति न कश्चन ॥ ६८ । (युग्मम् ) यथा-अद्याभाग्यनियोगेन त्वद्वियोगेन सुन्दरि !। शर्वरी सा त्रियामाऽपि शतयामेव मेऽभवत् ॥ ६९ ॥
इति राज्ञोदितः सोऽथ पुरोधा विनयन्धरे । कृत्वा मैत्री लेखयित्वा श्लोकं तं नृपतेर्ददौ ॥ ७० ॥ नृपोऽप्यनुष्टुभं तं च भूर्जपत्रे स्थितं ततः । निबध्य गन्धपुटके चेव्याथानाययत् सदि ॥ ७ ॥ तं श्लोकं दर्शयित्वाऽथ पौरामात्यान् नृपो जगौ । देव्या गन्धपुटेऽलेखि केनायं तत्परीक्ष्यताम् ।। ७२ ।। लिपीन् परीक्ष्य सर्वेषां संवादं विनयन्धरे। समवेत्येति चित्ते ते दध्युरक्षामबुद्धयः ।। ७३ ॥ दुग्धे पूतरका न स्युरस्मिन् दोषास्तथा ध्रुवम् । प्रत्यक्ष लक्ष्यते चैतत् तत्किश्चिद् भावि कारणम् ।। ७४ ॥ ऊचुस्ते नृपते ! हारहरारामे रमेत यः। नासौ करी करीरेषु कुरुते कहिचिद् रतिम् ।। ७५ ॥
0000000000000000000ळकल
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
90000000000000000000000
तथा च-निमेषमपि योऽनेन सम गोष्ठीपरो भवेत् । वजुलेनेव विषभृद् विषमंहः स मुश्चति ॥ ७६ ॥
विभावयन्तु तच्चित्ते तत्त्वेनैतत् सभासदः । केनापि पिशुनेनैतद् दुर्घटं घटितं ननु ॥ ७७ ॥ भवेद् विषभृतोऽप्येष खलोऽतिविषमः खलु । यत्फणी नकुलद्वेषी स्वकुलद्वेषभाक खलः ॥ ७८ ॥ इति पौरवास्युच्चेनिरंकुश इव द्विपः । नृपोऽवज्ञाय स न्यायविमुखोऽथाभवत् तदा ॥ ७९ ॥ क्रोधोत्कटो भटान् प्रेष्यावन्धयद् विनयन्धरम् । महीभुम् मुक्तमर्यादस्तत्सर्वस्वमलुण्टयत् ॥ ८० ॥ स्वस्यावरोधे तास्तस्यानाययत् स वधः कुधीः । विरुद्धपक्षपा यूयमिति पौरानभर्सयत् ॥ ८१ ॥ भूपो रूपं निरीक्ष्यासामथ श्लथनयो भृशम् । दध्यौ न सुरवध्वोऽपि भवन्त्येवंविधा दिवि ।। ८२ ॥ तद्धन्योऽस्म्येष मान्योऽस्मि यस्यैता दयिता गृहे। स्वयं स्निह्यन्त्यमूश्चेत् तत्सौभाग्योपरि मअरी ।। ८३ ॥ यद्वा किं चिन्तया सर्व क्रमात् सेत्स्यत्यभीप्सितम्। उदुम्बरफलं सद्यः पच्यते क्षुधितस्य किम् ? ॥ ८४ ॥ ध्यात्वेति तासां शयनासनभूषायदापयत् । भूपतिस्ताश्च विषवत् तदवाज्ञासिषुर्भृशम् ॥ ८५ ॥ प्रेषीद् भूपोऽन्यदा चेटीस्ताः प्राहुर्विनयानताः । स्वामिन्यो मुश्चतोद्वेगं फलितं सुकृतं हि वः ॥ ८६ ॥ यदेषोऽस्मत्पभुयुष्मास्वानुकूल्यं दधात्यलम् । रुष्टः कीनाशसङ्काशस्तुष्टो यः स्वस्तरूपमः॥ ८७ ॥ तद् विषादनिषादं द्रागपहाय स्वमानसे । भुज्यन्तां भूभुजा साकं भोगा ये दुर्लभा भवे ॥ ८८ ॥
6000000000000000000
॥२४॥
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
खीचन्द्र
चरितम
Goo0000000000000000000ODE
ऊचुस्ताः शीललीलाभिः प्रशस्ताश्चेटिकाः प्रति । मुहुर्मावादिषुरिदं हलाः ! कोलाहलाकुलाः ।। ८९ ॥ रुष्टोऽयं दुष्टभूपश्चेत् प्राणान्तं नः करिष्यति । तत् साध्वखण्डशीलानां श्रयान् मृत्युरपीह यत् ॥ ९ ॥ वरं प्रविष्टं ज्वलने न पुनः खण्डितं व्रतम् । वरं हि मृत्युन पुनः शीलभ्रष्टस्य जीवितम् ॥ ९१ ॥ ताभिरित्यद्भुतैर्वाक्यभृशं निर्भसितास्तु ताः । चेव्यो व्यजिज्ञपन् सर्व भूमिभत्रे तदादितः ॥ ९२ ॥ भूपस्तन्निश्चयं ज्ञात्वा तथापि स्वेष्टसिद्धये । चिन्ताचान्ततरस्वान्तस्तदुपान्तमथाग़मत् ॥ ९३ ॥ ताभिदृष्टयापि न स्पृष्टः स दुष्टोऽनिष्टनिष्ठुरः। तथापि नामुचत् पार्च धिगहो! मोहजृम्भितम् ॥ ९४ ।। अन्यदा नृपतिस्तासां यावद् रूपं निरीक्षते । तावत् ता अनलज्वालापिशङ्गाङ्गशिरोरुहाः ।। ९५ ।। वक्रदन्तोष्ठनासाश्च सर्वाङ्गेष्वतिगर्हिताः । सोद्वेगं वीक्ष्य भूपालोऽचिन्तयच्चेति चेतसि ॥ ९६ ॥ (युग्मम्.) दृग्बन्धः किमयं किं वा भवेद् विलसितं विधेः । किं वा पापप्रयोगोऽयं कोऽप्यकस्माद् विजृम्भते ॥ ९७॥ अथ विज्ञाततवृत्ता देव्यागात् तत्र भूपतेः । कृतकोपा च सा सोपालम्भं भूवल्लभ जगौ ॥ ९८ ।।
धिक त्वां नृपसुतां हित्वा परस्त्रीसङ्गमिच्छसि । स्वायत्तासु विरक्तस्त्वं परायत्तासु रज्यसि ॥ ९९ ।। यतः-रज्येबीचः परस्त्रीषु स्वायत्तायां स्त्रियामपि । परिपूर्णेऽपि सरसि पिवेत् काको घटोदकम् ।। १०० ॥
ततो लज्जावनम्राङ्गो दातुं प्रतिवचोऽक्षमः । क्ष्मापो व्यसीसृजत् ताश्च सधनं विनयन्धरम् ॥ १०१ ॥
{
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
0OOOOOOOOOOOOOOOOOOOOOOC
-
पुनः सहजरूपास्तास्तथैवासन् गृहं गताः । तत्कारणं विजिज्ञासुभूपो ज्ञानिनमैहत ॥ १०२ ॥ आयासीदन्यदोद्याने चतुर्ज्ञानधरो गुरुः । तं वन्दितुं चचालाथाचलानाथः सनागरः ।। १०३ ॥ श्रुत्वा तद्देशनां भूपोऽभ्यधात् किं प्राग्भवे विभो ! । विनयन्धरजीवेन कृतं सुकृतमुत्तमम् ॥ १०४ ॥ यदीक्षाः सुरवधूसदृक्षास्तस्य वल्लभाः । अभूवंश्च कुतो हेतोर्विरूपास्तास्तदा विभो !॥ १०५ ॥ मूरिराख्यद् गजपुरे विचारधवलो नृपः। दयौदार्यादिगुणवान् बन्दी तस्यास्ति कश्चन ॥ १०६ ॥ दवा पात्राय कस्मैचिन्मनोज्ञमशनादिकम् । भोक्ष्येऽवश्यं स नियममित्यादत्त मुनेगिरा ॥ १०७ ॥ बिन्दयानेऽन्यदा बन्दी निरीक्ष्य नवमं जिनम् । नत्वा स्तुत्वा गृहं गत्वा दत्त्वा पात्राय भुक्तवान् ॥ १०८॥ अन्यदा भाग्ययोगेन तद्गहे सुविधिर्जिनः । आगात् मासुकभक्तेन स प्रभुं प्रत्यलाभयत् ॥ १०९ ॥ अभूवन पञ्च दिव्यानि तदा दानानुभावतः । बन्दिनस्तस्य बन्दित्वं प्राप्ताः सुरनरा अपि ॥ ११० ॥ बोधि लब्ध्वाऽथ सौधर्मेऽसौ धर्मेण सुरोऽजनि । ततश्चयुत्वा पुरेऽत्राभून्महेभ्यो विनयन्धरः ॥ १११ ॥ इत्यस्य फलितो राजन् ! दानधर्मसुरद्रुमः । आसीत् तत् तत्र भो भव्याः! प्रयत्नं कुरुतादृताः ॥ ११२ ॥ इत्यमस्य महेभ्यस्य कथितः प्राग्भवो मया । अथाकर्णय भूपैतद्दयितानां चतसृणाम् ॥ ११३ ।। अस्त्यत्रैव परायोध्याऽयोध्या नाम महापुरी। तां प्रशास्ति प्रयत्नेन नृपतिर्नरकेशरी ॥ ११४ ॥
30005663003033000000G3000
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
थ्वीचन्द्रा
चरितम्।
000000000000000000000003
तस्यावरोधमुख्याऽभूद् राज्ञी कमलसुन्दरी। तयोः सुशीला सकला सुताऽऽसीद् रतिसुन्दरी ॥ ११५ ॥ श्रीदत्तमन्त्रिणस्तत्र पुण्यभूद् बुद्धिसुन्दरी। सुमित्रवेष्ठिनश्चापि सुता जातर्दिसुन्दरी ॥ १२६ ।। पुरोधसः सुघोषस्य पुत्री च गुणसुन्दरी । एताश्चतस्रोऽपि मिथः सख्यः सवयसोऽपि च ॥ ११७ ॥ आसते शेरते चापि भुगते विचरन्त्यपि । सहैव क्षणमप्यासां यदासीन वियुक्तता ॥ ११८ ॥ सुमित्रवेष्टिनो गेहे निषेदुष्योऽन्यदाऽथ ताः। तत्रागतां मुदाऽपश्यन् साचीं नाम्ना गुणश्रियम् ॥ ११९ ।। रतिसुन्दर्यथावोचत् सख्यः! कैषा सिताम्बरा? मूर्त्ता ब्राह्मीव या नेत्रानन्दं सृजति वीक्षिता ॥ १२० ॥
श्रेष्ठिपुत्री जगावस्मत्पित्रोः पूज्या तपोनिधिः । भारतीव श्रुतापूर्णाऽसौ शमश्रीरिवाङ्गिनी ॥ १२१ ॥ तथा च-धन्या एतां नमस्यन्ति धन्या एतामुपासते । धन्या एतद्रिं नित्यं शृण्वन्ति विहितोद्यमाः॥ १२२ ॥
कुमार्यस्तास्ततः पुण्यप्रशस्तास्तां ववन्दिरे । आचख्यौ सा पुरस्तासामर्हद्धर्म सविस्तरम् ॥ १२३ ॥ ताः सर्वा अपि मिथ्यात्वक्षयोपशमतस्तदा । सम्यक्त्वमूलं गृहिणां धर्म संप्रत्यपीपदन् ॥ १२४ ।। परपुंसङ्गनियमं विशेषात् ता अदीदृढन् । कुलस्त्रीणां यतः शीलमेवान्तरविभूषणम् ॥ १२५ ।। भवे भवेऽपि सुलभा भूर्भुवःस्वस्त्रयीनरः । पुनः पुनः सुदुष्पापा शीललक्ष्मीरियं परम् ॥ १२६ ॥ एवमस्खलितं धर्म ताश्चतस्रोऽप्यपालयन् । कियन्तं सुखसंयुक्तं समयं चात्यवाहयन् ॥ १२७ ॥
000000000000000000000000
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0800G60000000OOOOOOOO0010
अन्यदा रतिसुन्दर्या रूपातिशयमद्भुतम् । श्रुत्वा तत्प्रार्थनायाथ चन्द्रराट् प्राहिणोच्चरम् ॥ १२८ ।। स पित्रानुमतां तां च चन्द्रभूपः स्वयंवराम् । महामहेनोदवाक्षीद् दयितां रतिसुन्दरोम् ॥ १२९ ॥ दृष्ट्वा पौरस्त्रियस्तां चावदन विस्मितमानसाः। किं रतिर्वा शची वेयं किं वा गौर्यथवेन्दिरा? ॥ १३० ॥ वर्तमाना प्रवृत्तिः सा नानाराष्ट्रषु चान्यदा । शुश्रुवे कुरुदेशेशमहेन्द्रसिंहभूभुजा ॥ १३१ ॥ रतिसुन्दर्यर्थनाय स दूतं पाहिणोन्नृपः। चन्द्रराज्ञे च सोऽप्येत्य जगाद नृपतेः पुरः ।। १३२ ॥ चन्द्र ! त्वामादिशत्यस्मत्पभुरित्थं यदावयोः । पुरापि हार्द सौहार्द वर्ततेत्र किमुच्यते ! ॥ १३३ ॥ यत्किञ्चित् तव दुःसाध्यं भवेत् कार्य तदुच्यताम् । देहेनैवान्तरं यस्मादावयोः प्रेमभाजिनोः ॥ १३४॥ अन्यच्च या नवोढाऽसौ तवास्ति रतिसुन्दरी। सानः प्रेष्या हि यत् प्रेमस्थानेऽदेयं न किश्चन॥ १३५ ।। तदुक्तमिति चाकर्ण्य स्मित्वा चन्द्रनृपोऽप्यवक् । इति दूत ! त्वया वाच्यं वाक्यं स्वस्वामिनः पुरः॥ १३६ ।। यत्किञ्चिदन्यत् ते कृत्यं तदाज्ञापय मे द्रुतम् । प्राणान्तेऽपि कुलीनानां न युक्तं स्त्रीसमर्पणम् ॥ १३७ ॥ दूतोऽथाख्यद् भृशं देवीदर्शनोत्कण्ठितो नृपः । तदुक्तमन्यथा कर्तुं तत्ते राजन् ! न युज्यते ॥ १३८ । ततस्तव हितं वच्मि स्वाम्यादेशं कुरुष्व तम् । प्रसह्य तस्य तां सद्यो गृह्णतः को निषेधकः ? ॥ १३९ ॥ श्रुत्वेति चन्द्रभूमीन्द्रोऽभणद् भ्रूभङ्गभीषणः । न युज्यतेऽभिजातानामपरप्रेयसीरतिः ॥ १४ ॥
10OOOOOOO0000000000OOOOO
॥१६॥
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
पृथ्वीचन्द्र
चरितम्
300000000000000000000
कोऽयं तस्य कुलाचारः का मेरा किञ्च जीवितम् ? कि राज्यं का त्रपा को वा नयो दुर्नयकांक्षिणः ? ॥ १४१॥ यद्वा सवित्र्या तारुण्ये यदाचीर्ण रहो मदात् । व्यज्यते तत्सुतैरीगाचारैर्मातृचेष्टितम् ॥ १४२ ॥ तन्नूनं घटते नैवं किं दद्यात् कोऽपि वल्लभाम् ? ।जीवतामहिसिंहानां किं ग्राह्या मणिकेसराः? ॥ १४३ ॥ निर्भत्स्यैवं नृपो दूतं स्वभटैर्निरवासयत् । गत्वाऽऽख्यत् स महेन्द्रस्य क्रुद्धस्तं सोऽभ्यषेणयत् ॥ १४४ ॥ उभयोर्दलयोयुद्ध जायमाने महोत्कटे । दैवयोगान्महेन्द्रेण बद्धश्चन्द्रमहीपतिः ॥ १४५ ॥ नश्यत्यनीके चन्द्रस्य गृहीत्वा रतिसुन्दरीम् । विमुच्य चन्द्रभूपं च महेन्द्रः स्वपुरीमगात् ॥ १४६ ॥ अभ्यधादिति भूपस्तां श्रुतायामपि यत् त्वयि । प्रेम मेऽभूत् ततो ह्येष संरम्भस्त्वत्कृते कृतः ॥ १४७ ।। प्रिये ! प्रयाससाफल्यं कुरु तत् प्रतिपद्य माम् । श्रुत्वेति दध्यौ सा धिर मे रूपमप्यमुखौघकृत् ॥ १४८ ॥ हा ! मदर्थमनेनार्यपुत्रः पाणितसंशयम् । प्रापितो यत् कुशीलत्वं व्यनन्येष पुरो मम ॥ १४९ ॥ तदस्मात् पापचरिताच्छीलं रक्ष्यं मया कथम् ? । अशुभे कालहरणं कार्य यत् सुधियाऽथवा ॥ १५० ॥ विभाव्यत्यवदत् साम्ना सुन्दरी सा भुवोधवम्। व्रतं मेऽस्ति चतुर्मास्याः न कुर्वे शीलखण्डनम् ॥ १५१ ।।
ओमिति प्रतिपन्नेऽस्मिन् मनाग निवृतमानसा । स्नानाङ्गरागभूषाधमकुर्वन्ती तपःपरा ॥ १५२ ॥ क्रमेण क्षीणदेहाऽभूद् दवदग्धेव पद्मिनी । मलक्लिन्नवपुर्वस्वा भूभुजाऽन्येचुरीक्षिता ॥ १५३ ॥ (युग्मम् ).
0000000000000000000000
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उक्ता च भद्रे ! कस्मात् त्वमापन्नाऽसीदृशीं दशाम् । साऽवोचत् प्रतिपन्नं यन्मया घोरमिदं व्रतम् ॥ १५४ ॥ तेन क्षामाऽस्मि च तथाप्येतत् पाल्यं मया ध्रुवम् । व्रतभङ्गोऽतिदुःखाय यतो जन्मनि जन्मनि ॥ १५५ ॥ ( युग्मम् ) भूपोऽल्पत् कुतो भद्रे ! तव वैराग्यमद्भुतम् ? । साऽऽख्यन्मे व पुरेवैतद् राजन् ! वैराग्यकारणम् ॥ १५६ ।। सुधीः कोऽमेध्यपूर्णेऽस्मिन् कृमिजालशताकुले । रज्येत् कलेवरे विस्रदुर्गन्धरसभाजने ? ॥ १५७ ॥ निशम्यैवमपि क्ष्मापः पुनः पूर्णे व्रतावधौ । तथैवाभिलषन् भोगांस्तयेति प्रत्यबोधि सः ॥ १५८ ॥ यदि नामास्य कायस्य यदन्तस्तद् बहिर्भवेत् । गृध्रादिभ्यस्ततः कामी धृत्वा दण्डमवत्यमुम् ॥ १५९ ॥ तथा च - मलमूत्रादिपात्रेषु गात्रेषु मृगचक्षुषाम् । रतिं करोति को नाम सुधीर्वचगृहेष्विव ? ॥ १६० ॥ अन्यच्च — भूरिरन्ध्रस्रवद्विखरसेऽशुचिनिकेतने । राजन् ! रागकरं किं ते देहेऽस्मिन्नस्ति कथ्यताम् ? || १६१ ॥ नृपोऽवक् तव सौन्दर्य किं ब्रूमो येन तेऽक्षिणी । मनो मे हरतो मूल्ये ययोर्न स्याद् रसाऽप्यसौ ॥ १६२ ॥ रतिसुन्दर्यथो ज्ञात्वा नृपरागमगत्वरम् । परोपायमपश्यन्ती शीलरक्षाविधौ सुधीः ॥ १६३ ॥ केनाप्यस्त्रेण नेत्रे स्वे उत्खाय कृतसाहसा । सहसा सा रसाभर्तुः पाणौ प्रादान्महासती ॥ १६४ ॥ ऊचे साऽऽदत्स्व नेत्रे द्वे राजन् ! निजमनोहरे । कृतमन्याङ्गसङ्गेनातः परं श्वभ्रहेतुना ॥ १६५ ॥ भूपोऽपि तत्तथा दृष्ट्वा विषादादिदमभ्यधात् | हा ! धिक् किं दारुणं कर्म सहसा निर्मितं त्वया ?
॥
For Private and Personal Use Only
(युग्मम् ).
१६६ ॥
॥१७॥
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
ध्वीचन्द्र
चरितम्।
0000000000000000000000000
साऽऽख्यत् स्याद् येन मालिन्यं कुलस्याप्ययशो भुवि । दुर्गतिः प्राप्यते चान्ते ततो हि मरणं वरम् ॥ १६७ ॥ यतः-शीले जीवति जीवन्ति कुलं लोकद्वयं यशः । शीलरक्षा कुलस्त्रीणां प्राणत्यागेऽप्यतो मता ॥ १६८ ॥
राजन् ! तवाप्यन्यकान्तासक्तस्यात्र परत्र च । न धर्मो न सुखं चास्ति मनसीत्यवधारयेः ॥ १६९ ॥ युक्तियुक्तमिति श्रुत्वा तदुक्तमवनीपतिः। प्राप्तप्रबोधः प्रमदात् प्रमदां तामदोऽवदत् ॥ १७० ।। बोधितः सुष्टु भद्रेऽहमंहसोऽस्मानिवर्तितः । अतः परं ममाप्यस्तु परस्त्रीविरतिव्रतम् ॥ १७१ ।। हा ! मया ते महासत्याः कृताऽनर्थपरम्परा । तत् सहस्वापराध मे कृपावति ! महासति ! ॥१७२ ।। कायोत्सर्गे स्थिता साऽथ स्मृत्वा शासनदेवताम्। पुनः प्रगुणनेत्राऽऽसीत् सुशीला रतिसुन्दरी ॥ १७३ ।। तद्दर्शनेन तुष्टात्मा नृपोऽप्याप्तनरैर्दुतम् । सत्कृत्य वस्त्रभूषाद्यैः प्रापयत् तां निजां पुरम् ॥ १७४ ।। महेन्द्राद् ज्ञातवृत्तेन चन्द्रेणाखण्डितव्रता। रतिसुन्दर्यथानिन्ये बहुमानेन सद्मनि ॥ १७५ ॥ इति प्रवर्तिनीदत्तं व्रतं सा रतिसुन्दरी। यावज्जीवं त्रिधा शुद्धया पालयामास निर्मलम् ॥ १७६ ।।
इति रतिसुन्दरीचरितं समाप्तम् । बुद्धिमुन्दर्यथो पित्रा सुसीमनगरेशितुः। जितशत्रोः मुकीाख्यमन्त्रिणेऽदायि सद्वता ॥ १७७ ।। वीक्ष्यान्यदा गवाक्षस्थां भूपस्तद्रपमोहितः । छलमुत्पाद्य सचिवं बद्धा तां स्वगृहेऽनयत् ॥ १७८ ।।
10000000000000000000000€
PRIMARRA
R
ider
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DOOOOOOOOOOO9000000000
यतः-न पश्यति दिवोलूको द्विको निशिन पश्यति। कामान्धः कोऽपि पापीयान् दिवानक्तं न पश्यति ॥ १७९ ॥
अथ पौरोपरोधेन विमोच्य सचिवं नृपः। बुद्धिसुन्दयुपान्तेऽगानिजाभिमतसिद्धये ॥ १८० ॥ अचाल्यसत्त्वाप्यस्वमैस्तत्त्वार्थ किमपि स्फुटम् । विमृश्यासौ विशामीशमाचख्यौ मधुरोक्तिभिः॥ १८१ ॥ भूनेतः ! कथमेतत् ते चेतः केतुचलाचलम् । कथं परवशायां ते मतिः परवशाऽधुना ? ॥ १८२ ।। रागसागरमग्नस्त्वं भोक्ष्यसे दुःखमुल्बणम् । तिलमात्रमिदं शर्म दुःखं मेरूपमं पुनः ॥ १८३ ॥ वरमालिङ्गिता क्रुद्धा चलल्लोलात्र सर्पिणी । न पुनः कामुकेनापि नारी नरकपद्धतिः ॥ १८४ ॥ मनो निर्माय निर्मायमयि ! कुग्रहविग्रहम् । तदमु मुश्च सिञ्च वं सन्तोषसुधयाधिकम् ।। १८५ ।। यद्वा तव हृदीच्छेयं कथञ्चिन्न निवर्तते । तिष्ठ तनियमं यावद् यद् व्रतं मेऽस्ति किश्चन ॥ १८६ ॥ प्रतिपन्ने नृपेणेति सा व्यधात् प्रतिमा निजाम् । मदनेनान्तः शुषिरां मध्येऽमेध्येन संभृताम् ॥ १८७ ॥ विलिप्य चन्दनस्तां च विभूष्य वरभूषणैः । दर्शयित्वा नृपस्याख्यत् किं स्यामीदृश्यहं नवा? ॥ २८८ ॥ आख्यद् भूपोऽप्यहो! शिल्पे कौशलं ते किमुच्यते?। यस्य त्वं दयिता सोऽमं वीक्ष्य यद् रतिमाप्नुयात् ।। १८९ ॥ एवं नपोक्त साऽजल्पद् यद्येवं तत् स्वसन्निधौ। धृत्वाऽमूं मुश्च मां सद्यो मा कुलं स्वं कलङ्कय ॥ १९० ॥ श्रुत्वेति मन्युनाक्रान्तो भूकान्तस्तां बभञ्ज सः । पद्भ्यां हत्वा तदन्तःस्थो दुर्गन्धश्चाप्युदच्छलत् ॥ १९१॥
JOI॥१८॥
0000000000000000000000
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
थ्वीचन्द्र
चरितम्।
तम् ।
COOGGIOCOCO000000000330
तद्वीक्ष्याख्यत् क्षमाधीशः किमिदं विस्रचेष्टितम् । साप्राह स्माहमेतस्माद्धीनास्मि प्रतिबिम्बतः ॥ १९२ ।। वहन्यद्भिः शोध्यते वेतन पुनर्मामकं वपुः । अशुचिभ्यः समुद्भतमशुचीनां तथाऽऽस्पदम् ॥ १९३ ॥ निशम्येति गिरं तस्या निर्विरोधां धराधवः । प्राह मोहान्धतमसा ग्रस्तः साध्वस्मि बोधितः ॥ १९४ ॥ तत समस्तं क्षमस्वागः कुर्वे किं ते प्रियं स्वसः। त्वगिरा परदारेभ्यो निवृत्तोऽद्यप्रभृत्यहम् ।। १९५ ॥ इत्युक्त्वा वस्त्रभूषाद्यैर्भूपस्तां व्यसृजत् ततः । यावज्जीवं च सा तीव्रतरं शीलमपालयत् ॥ १९६ ॥
इति बुद्धिसुन्दरीचरितं समाप्तम् । पुर्यस्ति ताम्रलिप्तीति तत्र श्रीदसमः श्रिया। महेभ्यो धर्मनामा सोऽन्यदा साकेतमागतः ॥ १९७ ।। विपणिस्थोऽन्यदा धर्मो वजन्तीमापणेषु ताम् । तत्क्षणाद् वीक्ष्य रक्तोऽभून्मृगाक्षीमृद्धिमुन्दरीम्॥ १९८ ॥ तरुणीं परिणीयायमादाय स्वपुरं गतः। अन्वभूतां च तो शुद्धमती शर्माणि दम्पती ॥ १९९ ।। अन्यदा पोतमारुह्य सपण्यः सप्रियोऽपि च । स श्रेष्ठी सिंहलद्वीपं संप्राप्य स्वमुपार्जयत् ॥ २०० ॥ प्रतिभाण्डमुपादाय निवृत्तः स्वपुरं प्रति । दैवयोगात् कुवातेन यानं भग्नं पयोनिधौ ॥ २०१॥ दम्पती फलकं लब्ध्वा तीवोऽब्धि पञ्चभिर्दिनैः। भवितव्यतयैकत्र द्वीपे कापि ससअतुः ॥२०२॥ वनजैस्तैः फलैस्तत्र प्राणाधारं वितेनतुः। सांयात्रिकज्ञापनाय ध्वजामूवी च चक्रतुः ॥ २०३ ॥
SO00000000000000006oboor
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तां दृष्ट्वा तत्र केऽप्यागुर्वीक्ष्य तन्मिथुनं च ते । गत्वा स्वस्वामिनेऽशंसन् यानमारोहयत सतौ ॥ २०४॥ सुलोचनाहः पोतेशः प्रेक्ष्य तामृद्धिसुन्दरीम् । विषमैर्विशिखैरेष विषमेषोरविध्यत ॥ २० ॥ दध्यौ चायं किं जीवितेन किं यौवनेन चानेन । यदि मां स्वयमाश्लिष्यत्येषानोत्कण्ठिता कण्ठे ॥ २०६॥ यद्वा जीवति पत्यौ नैषा मत्काइक्षिणी कथमपि स्यात् । ध्यात्वेति निशीथेऽसौधर्म चिक्षेप वारिनिधौ॥२०७॥ प्रातः प्रियमपश्यन्ती रुदन्तीमृद्धिसुन्दरीम् । सुलोचनोऽथ मधुरैर्वचोभिस्तामबूबुधत् ॥ २०८ ॥ रोदनेन कृतं भद्रे.! त्वत्पतिः स गतो यदि । तद् गच्छतु स निःस्नेहो भविष्याम्येष ते प्रियः ॥ २०९ ॥ तत् स्वस्था भव मा शोचीःसर्वमेतद् वशे तव । एष भृत्योऽपि भूत्वा ते करिष्ये सवमीप्सितम् ॥ २१०॥ तदक्तमिति साऽऽकर्ण्य कर्णे क्रकचकर्कशम् । कृतावहित्था विज्ञाततच्चरित्राप्यचिन्तयत् ॥ २११ ॥ धिग मे रूपमनर्थस्य हेत्वेतद् यत्कृतेऽमुना । इदमाचरितं यद्वा कामिभिः क्रियते न किम् ? ॥ २१२ ॥ पति विना तदद्याहं निपतामि पयोनिधौ । परमहन्मते बालमरणं प्रत्यषिध्यत ॥ २१३ ॥ जीवन्ती सुकृतं कुर्वे दुर्लभो नृभवो भवे । अस्मादखण्डशीला च प्राप्नोमि जलधेस्तटम् ॥ २१४ ॥ शीलरक्षाकृते तावत् कुर्वे कालविलम्बनम् । यदाशापाशबद्धोऽतिक्रमेद् वर्षशतान्यपि ॥ २१५ ।। सुलोचनमवोचत् सा काऽधुनाऽसौ गतिर्मम?। तत् तीवो वारिधि पश्चात् करिष्यामो यथोचितम् ॥२१॥
1000000000000300000000000€
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वीचन्द्र
www.kobatirth.org
आशावन्धं विधायेति सोऽपि तत् प्रतिपन्नवान् । तत् पुस्फोटाथ वोहित्थं झटित्येवामभाण्डवत् ॥ २१७ ॥ पुण्येन फलकं प्राप्य प्राप्ता पारं च साऽम्बुधेः । प्राग्भग्नयानफलकेनापद्धर्मोऽपि तत् तटम् ॥ २९८ ॥ मिलितौ दैवयोगेन तत्र तौ प्रेमपेशलौ । मिथोऽनुभूतं चरितं स्वं स्वं प्राहतुरअसा ॥ २१९ ॥ ग्रामेशः कोऽपि तौ तत्र स्थितौ वीक्ष्य कृतादरः । गृहे नीत्वा कृतातिथ्यधर्मो हर्षादतिष्ठिपत् ॥ २२० ॥ सुलोचनोऽपि फलकं प्राप्य तीरे पयोनिधेः । पल्लयां कापि झपाहाराज्जातकुष्ठामयोऽभवत् ॥ २२१ || भ्रमन् स ऋद्धिसुन्दर्या वीक्ष्य पत्युः प्रदर्शितः । दयालुत्वेनोपधाद्यैर्धर्मस्तं नीरुजं व्यधात् ॥ २२२ ॥ यतः -- उपकारिषुपकारं कुर्वन्ति प्राकृता अपि प्रायः । अपकारिष्यपि ये चोपकारिणस्ते जगति विरलाः ॥ २२३ ॥ सुलोचनस्तत् सौजन्यं मत्वाऽनन्यसमं पुनः । निजदुश्चेष्टितेनाथ ब्रीडयाऽभूदधोमुखः ॥ २२४ ॥ तमपृच्छदथो धर्मो वैमनस्यस्य कारणम् । सोऽध्यारूयद् दुश्चरितं मे हृदि खाट्कुरुते भृशम् || २२५ ॥ त्वमप्यज्ञानमूढेन येन क्षिप्तोऽसि वारिधौ । सतीयं मन्मथान्धेन मयाऽभिलषितास्ति यत् ॥ २२६ ॥ लेभे तत्फलमवेत्युक्तिभाग् बोधितोऽय सः । परस्त्रीविरतो धर्मे धर्मेणैष महात्मना ॥ साध्वीदत्तं व्रतं यावज्जीवं साऽपालयत् सती । इहामुत्रापि शर्माणि लेभेडसावृद्धिसुन्दरी ॥ इति ऋद्धिसुन्दरीचरितं समाप्तम् ।
२२७ ॥
२२८ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
ee000
9000000000000300
चरितम् ॥
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DOGOGOCOO04030909600000
अथ गुणसुन्दर्यपि यौवनमारूढा निरीक्षितान्येयुः। इह वेदशर्मवाडवसुतेन सा वेदरुचिनाम्ना ॥ २२९ ॥ दध्यौ स च धन्योऽहं यस्यैषा दृष्टिगोचरं प्राप्ता । गृहामि पाणिमस्याः कथमपि तजन्म मे सफलम् ॥ २३० ॥ चिन्ताचान्तस्वान्तः पृष्टः पित्रा यथास्थितमवोचत् । वेदरुचिः स्वरुचिमसौ जनकोऽप्यथ तत्कृते ताम्यन् ॥२३१॥ गुणसुन्दरी सुतां प्रार्थयत् सुघोषं पुरोधसं सोऽपि । श्रावस्त्यां दत्ताऽसौ पुरोधसे नन्दनाख्याय ॥ २३२ ॥ प्रत्युत्तरमित्यगदत् तथापि न जहाति वेदरुचिरेषः। गुणमुन्दयाँ रागं सृजेत् तदर्थ बहूपायान् ॥ २३३ ।। परमपरवर्षणमिव तदशेषमभूद् निरर्थकं तस्य । श्रावस्त्या एत्य पुरोधसः सुतस्तामथोद्वाक्षीत् ।। २३४ ॥ श्रावस्त्यां प्राप्तोऽसावादाय वधूं तथापि वेदरुचिः । नैवोत्सृजस्तदाशा जगाम गिरिदुर्गगां पल्लीम् ॥ २३५॥ पल्लीशमुपास्य चिरं स तत्र संप्रार्थयत् स्वकार्याय । वेदरुचिः श्रावस्त्यां पुरि तमवस्कन्दसंपातम् ॥ २३६ ॥ प्रक्षिप्य भिल्लधार्टी पल्लीशोऽलुण्टयत् स तां नगरीम् । वेदरुचिविलपन्तीमादाद् गुणसुन्दरी मुदितः ॥ २३७ ॥
आनाय्य तांस पल्लीमवदत सुन्दरि ! हृतं त्वया यन्मे । चित्तं तदा तदर्पय यत् तेन विनास्मि शून्य इव ॥ २३८ ॥ तथा च-निवससि हृदये स्वमेषु दृश्यसे दिङ्मुखेषु घोलयसि । स्फुरसि सदा रसनायां यद्यपि दुरीकृता विधिना ॥ २३९ ॥
तस्मिन्नित्युक्तिपरेऽजल्पद् गुणसुन्दरी वितर्कपरा । नो लक्षयाम्यहं त्वां कदा कथं त्वन्मनश्च हृतम् ॥ २४० ॥ बटुराख्यत् स्वानुभवं दध्यौ श्रुत्वेति सुन्दरी चित्ते । ही ! रागान्धेनाहं कानीता दुष्टशबरेषु ? ॥ २४१॥
360G069900902999300903903
-
॥२०॥
-
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
पृथ्वीचन्द्र
चरितम्॥
1000000000000000000000000
यद्वा-अपि चलति सुमेरुरसावुदयति सवितापि चेत् प्रतीच्यां च । नतु जीवन्ती जात्वपि कुलं च शीलं मलिनयामि ॥२४२॥
तत् कथमपि बोध्योऽयं सुरक्षणीयं च निर्मलं शीलम् । मायापि यदत्रार्थे शुभायतिर्भवति नियमेन ॥ २४३ ॥ ध्यात्वेत्यसाववादीदेवं चेत् कार्यकृद् भवानासीत् । कि नोक्तं प्राक् यत् त्वयि पत्यौ किं दूरगमनेन ? ॥ २४४ ॥ एवं कृतेऽभविष्यन्नहि नौ कुलशीलयोरपि कलङ्कः। यस्मात् कुमारतायां स्याद् यूनोः सर्वमविरुद्धम् ॥ २४५ ॥ संप्रति च समायोगे लोके गर्दा कुलस्य मालिन्यम् । दुर्गतिगमनं दारुणदुःखकरं चापि परलोके ॥ २४६ ॥ तत परिभावय सम्यक संप्रति समयोचितं महासत्त्व ! येनायतौ हितं स्यात् तदेव कुर्वन्ति कृतिनोऽमी ॥ २४७ ॥ इति विविधवचनरचनारजितचित्तेन चिन्तितं बटुना । सत्यं प्रगुणोपायः कार्यस्य मया न तु ज्ञातः ॥ २४८ ॥ परमेतदर्थमेवैतावान् क्लेशः कृतः कथममूं तत् । मुश्चामीति विचिन्त्यावोचद् यद् वदसि तत् सत्यम् ॥ २४९ ॥ परमेष निमेषमपि त्वद्विरहे स्थातुमक्षमो भद्रे !। यदियत्समयं त्वत्सङ्गमाशयासूनपि दधेऽहम् ॥ २५० ॥ तद् भवतु यदिह भाव्यं परमङ्गमनङ्गतापतप्तं मे । निजतनुशीतलशीकरसङ्गाद् निर्वापयेदानीम् ॥ २५१ ॥ ध्यात्वेति निश्चयं तस्य सुन्दरी सादरा बहिर्वृत्त्या । स्माह यदिदं तवेष्टं तत् संपायं मया सर्वम् ॥ २५२ ॥ किन्तु मयास्त्यारब्धः साधयितुं दुर्लभो महामन्त्रः । प्रतिपन्नं च तदर्थ मासान् ब्रह्मव्रतं चतुरः ॥ २५३ ॥ समतीतं मासयुगं शेपं तिष्ठति ततस्तवैवेष्टम् । तत्साधनानुभावात् पुत्राः श्रीः स्यादवैधव्यम् ॥ २५४ ॥
0000000600CCO000000000000
-
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
0000000000000000000000000
एतन्ममैव गुणकृत् तुटेन स्वीकृतं ततस्तेन । सुन्दर्यपि गृहकृत्यं कुरुतेऽसौ कृत्रिमप्रणया ॥ २५५ ।। स्नानाअनादि मुक्त्वा च शोषयन्ती स्वदेहमपि तपसा । विरसैन्यूनैरशनैश्चाभृद् गुणसुन्दरी क्षीणा ॥ २५६ ॥ पूर्णप्राये नियमेऽन्येधुनिशि युगपदेव विलपन्ती। पृष्टाख्यच्छूलार्ति मणिमन्त्रादीन् व्यधात् सोऽपि ॥ २५७ ॥ कथमप्यशान्तशूला त्वद्गृहवासस्य साह नार्हास्मि । येनेदृग् मे दुःखं दारुणमाकस्मिकं पतितम् ॥ २५८ ॥ तीव्रा शिरोव्यथा मे ज्वलति वपुः सन्धयः स्फुटन्त्यखिलाः। इति दुःखदावदग्धा धर्तुममूनपि न शक्रोमि ॥ २५९ ॥ यन्मत्कृते त्वमप्यायासं कृतवान् न कोऽपि सिद्धोऽर्थः । तन्मे व्यथयति चेतः परमधुना देहि काष्ठानि ॥ २६० ॥ इति बहुधा विलपन्तीं तां वीक्ष्यावक स सूत्रकण्ठोऽपि । मा खिद्यस्व प्राणैरपि सह्यां खां विधास्येऽहम् ।। २६१ ॥ कुरु भीरु ! गभीरमिदं चेतस्ते भृत्य एष निभृतोऽहम्। यद्वा ब्रवीषि तत् त्वां श्रावस्त्यां प्रापये स्वगृहम् ।। २६२॥ सुन्दर्याख्यद् यत्तद्वादी कर्णेजपः कथं वार्यः ? । सोऽप्याख्यत् तव पत्युः पुरतः साक्षी भविष्यामि ॥ २६३ ॥ आरोप्य ततो याने श्रावस्ती तां निनाय विमोऽसौ। गुणसुन्दरी निरीक्ष्य प्रमुदितमनसोऽभवन् स्वजनाः ॥ २६४ ॥ गुणसुन्दर्याचख्यौ निजपत्युः पुण्यशर्मविप्रस्य । यद् बन्धुनामुनाहं विमोचिता दुष्टशबरेभ्यः ॥ २६५ ॥ वसनाशनादिना तं कृतोपकारमिति सच्चकारासौ । अपराध्यहमिति शङ्कितमना अभूत् सोऽथ गन्तुमनाः ॥ २६६ ॥ निर्गच्छन् निशि स पुनर्दष्टो दुष्टोरगेण पूच्चक्रे । भिषजा विषजामति हर्तुमुपाक्रमत विप्रोऽपि ॥ २६७ ॥
TDOCEDEGc00000000000000
PO२१॥
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीचन्द्र
चरितम्॥
3000000000000000000000000
गुरुगरललहरिभिरसौ कण्ठगतासुर्भिपग्भिरपि मुक्तः। गुणसुन्दरी ततोऽवक यदि शीलं जयति जगतीह ॥ २६८ ॥ यदि च त्रिधापि नाखण्डि तन्मया तद् भवत्वविष एषः। उक्त्वेति तं जलेनाभिषिच्य निर्गतविपं चक्रे ॥२६९॥ (युग्मम्). दृष्ट्वा शीलातिशयं चमत्कृतास्तुष्टुवुः पुरीलोकाः । अवगततदुदन्तोऽथावदन्मुदा वेदरुचिरिति च ॥२७०॥ आसीः पुरा हि भगिनी जीवितदानाच्च साम्प्रतं जननी।पापमतिवारणाद् गुरुरपि खमेवासि मे साध्वि!॥२७॥ ज्ञातं तव माहात्म्यं मया त्वया पापचेष्टितं च मम । तद् ब्रूहि किं प्रियं ते करोमि ही ! मन्दभाग्योऽहम् ॥ २७२ ॥ सोचे त्वमुपाकार्षीर्बन्धो ! विरतोऽसि चेत् परवधूभ्यः । यस्मात् तद्विरतानामिह शर्मशतानि चामुत्र ॥ २७३ ।। स इति प्रतिपद्य स्वं क्षमयित्वागोऽप्यगाद् निजं स्थानम् । गुणसुन्दरी सलीलं शीलं परिपालयामास ॥ २७४ ।।
इति गुणसुन्दरीचरितं समाप्तम् । इति रतिसुन्दर्याद्यास्तास्तु चतस्रोऽपि निजनिज नियमम् । संपाल्य सत्ववत्यः समजायन्ताथ दिवि देव्यः ॥२७॥ ततश्युत्वा चतस्रोऽपि यथावाप्यवातरन् । क्रमेग तास्तथोच्यन्ते शृणुत प्रथितादराः ॥ २७६ ॥ अत्रैव काञ्चनश्रेष्ठी वसुधारा च तपिया। तयोस्ताराभिधा पुत्री या पूर्व रतिसुन्दरी ॥ २७७ ।। कुबेराख्यो महेभ्योऽत्र तस्य पत्न्यस्ति पद्मिनी।श्रीनाम्न्यभूत् तयोः पुत्री या पूर्व बुद्धिसुन्दरी ॥ २७८ ॥ तृतीयो धरणः श्रेष्ठी महालक्ष्मीश्च तत्यिया। विनयाख्या तयोः पुत्री याऽऽसीत् माग ऋद्धिसुन्दरी।। २७९ ॥
DOEBEDODOOOOOOOOOOOOOK
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
30000533336
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थः पुण्यसारच पत्नी तस्य वसुन्धरा । देवी नाम्ना तयोः पुत्री या पूर्व गुणसुन्दरी ॥ २८० ॥ उदवासीच्चतस्रोऽपि ताः कन्या विनयन्धरः । पूर्वपुण्यानुभावेन भुञ्जते पश्च ते सुखम् ।। २८१ ।। ततः पुण्यात्मनामेषां पञ्चानामपि भूपते ! । यो विघ्नं कुरुते धर्मे स एव निधनं व्रजेत् ।। २८२ ।। हुङ्कारेणैव चैतासां भस्मीभावं भजेद् नरः । परं न त्वदुपर्येता विरूपं विदधुर्मनः ॥ २८३ ॥ त्वयापि राजन् ! सृष्ट्वात्मा चेतितो यद् भवेद् नृणाम् । दुर्निवारान्यदाराभिषक्तानां दुःखसन्ततिः॥ २८४॥ कुरूपाः शीलरक्षायै व्यधाच्छासनसुर्यमूः । शुभोदर्काय वैरूप्यमपि यत् पापकर्मसु ॥ २८५ ॥ इति केवलवचनामृतनिर्गतमिथ्यात्वगरलसंभारः । जीवितमित्र जिनधर्म बभार भूमीविभुरुदारः ॥ २८६ ॥ जातसंवेगरङ्गो भूभुजङ्गोऽप्यन्यदा हि सः । सच्चादापन्नसच्यां स्वां राज्ञीं राज्येऽभिषिच्य च ॥ २८७ ॥ विनयन्धरमित्रेण सभार्येण समन्वितः । प्राव्राजीत् सद्गुरूपान्ते शान्तेन मनसा द्रुतम् ॥ २८८ ॥ ( युग्मम् ). विजयन्त्यपि देवी सा राज्यं संपालयन्त्यथ । सुतां प्रसूता तच्चिन्ताग्रस्ता मन्त्रयादयोऽभवन् ॥ २८९ ॥ सुतोऽभूदित्यथोद्घोष्य व्यधुस्तज्जननोत्सवम् । रहः संस्थाप्य पुंवेषा सुताऽसौ वर्द्धिता क्रमात् ॥ २९० ॥ क्रमेण यौवनं प्राप्ता देव्यादिष्टोऽथ मन्त्रिराट् । वरचिन्ताकृतेऽमुष्या यक्षमाराधयद् धिया ।। २९१ ।। प्रत्यक्षीभूय सोऽव्याख्यदुद्याने श्वस्तने दिने । समानेष्ये वरं पुत्र्याः पोतनेशसुतं द्रुतम् ॥ २९२ ॥
For Private and Personal Use Only
॥२२॥
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वीचन्द्र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कन्याप्राग्भर्त्ता स भविताऽस्यापि नीवृतः । पतिः स्फुटमिति प्रोच्य तिरोधत्त स गुह्यकः ॥ २९३ ॥ कन्यानृपेण युक्तोऽहं ततः प्राप्तोऽय नन्दनम् । शेषं तत्रैव प्रत्यक्षमशेषमपि चाभवत् ॥ २९४ ॥ अस्यास्तीवानुरागोऽभूद् दृष्टमात्रेऽपि च त्वयि । गृहीता सा क्षणादेव विकारैः स्मरसंभवैः ॥ २९५ ॥ तथा च – विलोललोचनयुगा मन्दाक्षावनतानना । पुलकाङ्कितदेहाऽसौ प्रस्खलद्वर्णभाषिणी ।। २९६ ।। त्वया विचक्षणेनापि मृगाक्षी किं न लक्षिता ! । परेङ्गितज्ञानफला धियः स्युर्धीमतां यतः ।। २९७ ।। (युग्मम् ). वचनं सचित्रस्येति श्रुत्वा दाक्षिण्यवारिधिः । तदैश्वर्ये च तां कन्यां कुमारः प्रत्यपद्यत ।। २९८ ॥ अग्रहीद् गुणसेनायाः पार्णि सोऽपि महामहात् । सचिवैः शुचिधीभिश्च चम्पाराज्ये निवेशितः ॥ २९९ ॥ कलातीत या पूर्व पत्नी शङ्खभवेऽभवत् । साऽत्रासीद् गुणसेनेति तेन प्रेम द्वयोर्मिथः ॥ ३०० ॥ इतः समरसिंहारूयो वच्छदेशाधिपो नृपः । भूपं कमलसेनं तं दूतेनेति समादिशत् ।। ३०१ ॥ भोः ! स्वयंभूर्नृपैश्वर्यं भ्रुवो वंशक्रमागतम् । अपि कृच्छ्रेण भुज्येत शौर्यायत्ता हि यच्छ्रियः ।। ३०२ ।। त्वं पुनः पथिकोऽप्यन्य राज्यमासाद्य माद्यसि । ममाज्ञां जगतो मान्यामपि नैव च मन्यसे ॥ विहाय तदिदं राज्यं पलायस्वान्यथा पुनः । अहमागत एवास्मि भवेस्त्वं समरोद्यतः ।। इति दूतोक्तमाकर्ण्यावदद् भूपोऽपि तं प्रति । द्रुतं भो दूत ! गत्वा त्वं ब्रूयाः स्वस्वामिनः पुरः
३०३ ॥
३०४ ॥
॥
३०५ ॥
For Private and Personal Use Only
चरितम् ॥
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सत्यं स्वयंभूर्भूपोऽहं भुनज्मि नृपतिश्रियम् । भूत्वा समरसिंहस्त्वं माभूः समरजम्बुकः || ३०६ || इति दूतं विसृज्यास प्राणार्थमवादयत् । ढक्कां प्रतिनृपोऽप्यागात् रणः प्रावर्त्ततोल्बणः ॥ ३०७ ॥ अनुकम्पापरश्चम्पापतिस्तमिति चावदत् । निर्मन्तुजन्तुघातेन किमेतेन कृतेन भोः ! ॥ ३०८ ॥ तदावामेव युध्यावो ज्ञायते यद् बलाबलम् । प्रतिपन्ने च तेनापि समरोऽभूच्चिरं तयोः ॥ ३०९ ॥ परं समरसिंहस्तद्दाघातनिपीडितः । पपात पृथ्व्यां मूच्छवान् अचेतन इवाभवत् || ३१० ॥ अथ शीतोपचाराद्यैः कृत्वा तं प्राप्तचेतनम् । अङ्गराट् प्राह भोः ! ज्ञातं समरे तव दोर्बलम् ॥ ३११ ॥ तद् गृहाण प्रहरणं पुनः कुरु मया रणम् । श्रुत्वेति विस्मितः प्राह सोऽपि तं साहसोदधिम् ।। ३१२ ।। अहो ! शौर्यमहो ! धैर्य तवैतज्जगदद्भुतम् । भगमानप्रतापस्य राज्येनापि कृतं तु मे ।। ३१३ ।। समं त्वमष्टकन्याभी राज्यमादत्स्व किंत्वहम् । परलोकहितं किञ्चित् करिष्ये त्वदनुज्ञया ॥ ३९४ ॥ इत्याग्रहपरः कन्याष्टकं राज्यं च तन्निजम् । दच्चा कमलसेनाय मात्राजीत् समरो नृपः ।। ३१५ ।। प्राप्तराज्यद्वयैश्वर्यो नवोढानवकथितः । प्राप्तञ्चम्पां घृताकम्पां सोऽसृजद् रिपुसन्ततिम् ।। इतश्च पोतनपुराच्छत्रुञ्जयधराधवः । तत्र स्थितं सुतं राज्यभृतं मत्वा जनोक्तितः ।। सचिवान् प्रेषयामास तेऽप्यागत्यावदन्निति । स्वामिन् प्रवासतस्ते यद् दुःखं पित्रोरभूत् तदा ।।
३१६ ।।
३१७ ॥
३१८ ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥२३॥
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वीचन्द्र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तद्वक्तुं शक्यते नैकजिह्वयाऽस्माभिरञ्जसा । साम्प्रतं तु मनाक् चित्तं निर्वृतं त्वत्प्रवृत्तितः ॥ ३१९ ॥ ततस्त्वं विरहोदग्रदवदग्धतनू निजौ । स्वसङ्गमसुधासारैः सिञ्चस्त्र पितरौ जवात् ॥ ३२० ॥ श्रुत्वेति वचनं साररचनं सचिवोदितम् । अकुण्ठोत्कण्ठया युक्तः सारसैन्यसमन्वितः || ३२१ ॥ भूपः कृतप्रयाणोऽयमविलम्बं पथि व्रजन् । क्रमेण पोतनं प्राप प्रमोदापूर्णमानसः || ३२२ || ( युग्मम् ). ज्ञात्वा तमागतं शत्रुञ्जयः संमुखमागमत् । पदातीभूय सोऽप्याशु पितुः पादाब्जमानमत् || ३२३ || निजाङ्गजाङ्गसंपर्क सुधारसनिषेकतः । मनो विरहसंतप्तं पितापि निवापयत् ॥ ३२४ ॥ तच्चरित्रं प्रभुत्वं तद् भ्रुवः स्वाङ्गवः पिता । श्रुत्वा दृष्ट्वा पुत्रवतां धुर्यात्मानममन्यत || ३२५ || राज्योचितमिति ज्ञात्वा पितामन्दप्रमोदतः । निवेश्य स्वपदेऽमेयमहोत्सवमवर्त्तयत् ॥ ३२६ ॥ स्वयं तु विषयभोगविरतो नृपपुङ्गवः । शीलन्धरगुरूपान्ते सङ्गत्यागं व्यधाद् बुधः || ३२७ ॥ स राजर्षिः क्रमात् कर्मकक्षमुन्मूल्य मूलतः । केवलश्रियमासाद्य सद्यः संप्राप निर्वृतिम् ॥ ३२८ ॥ नृपः कमलसेनोऽपि शुक्लपक्षशशीव सः । वर्द्धमानः क्रमादेकच्छत्रतामसृजद् भुवः || ३२९ || स योधः क्रशिताशेषविरोधः क्रोधरोधकृत् । न्यग्रोध इव शाखाभिः सूनुभिः प्रासरद् भुवि ॥ ३३० ॥ अन्यदा प्राकृषि प्राप्तरतिः सरिति राइ भुवः । रिरंसायै गतो दूरं तत्पूरः प्रासरद् भुवि ।। ३३१ ।।
For Private and Personal Use Only
चरितम् ॥
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
000000000000000000000000
मिलनि:रमालाभिर्वर्द्धमानां प्रतिक्षणम् । नटस्थविटपित्रातं पातयन्ती गुरूमिभिः ॥ ३३२ ॥ नृपस्तामापगां वीक्ष्य तत्क्षणात् प्रकृतिस्थिताम् । पुनः पश्यन् प्रजानाथोऽचिन्तयञ्चेति चेतसि ॥ ३३३ ॥ ( युग्मम् ). अनर्थहेतुरेवायं पुंसां सर्वोऽपि विस्तरः । श्रियो नद्या इव प्रायः प्रसरत्यत्र जन्मनि ॥ ३३४ ॥ सरित्समो भवेज्जीवो जलपूरसमाः श्रियः । कृत्याकृत्यविवेकं यजन्तुर्वेत्ति न तद्वशः ॥ ३३५ ॥ तदलं तटिनीपूरतुल्यया मे श्रियाऽनया । अभिमानसुखं यत्र भोगः साधारणः पुनः ॥ ३३६ ॥ धन्यास्ते यैरियं त्यक्ता संपच्छम्पाचलाचला। मक्षिका मधुनीवाहमासक्तोऽद्यापि तत्र हि ॥ ३३७ ॥ विभाव्येति सुसंवेगरससङ्गतमानसः । अभिषेच्य मुषेणाख्यं सुतं राज्ये स्वयं पुनः ॥ ३३८ ॥ गुणसेनादिशुद्धान्तयुतश्चादाय संयमम् । अभूत् कमलसेनर्षिब्रह्मकल्पे सुरोत्तमः ॥ ३३९ ॥ गुणसेनापि तत्रैव देवत्वेनोदपद्यत । तयोः प्राग्जन्मसंस्कारात् तत्राभृत् प्रेम पेशलम् ॥ ३४० ॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रचरिते कमलसेनराजर्षिचरितं
द्वितीयं भवग्रहणम् ।
00000000aOC0000000000OO
1॥२४॥
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरितम्।
थ्वीचन्द्र
तृतीयो भवः।
BO00000000OGO0000000000000
अथात्र मुरसेनाइदेशेऽस्ति मथुरापुरी । तत्र मेघनृपो नीत्या मां भुनक्ति त्रिशक्तियुक ॥१॥ अर्धाङ्गसङ्गिनी तस्य विमला मुगुणान्विता । मुक्तावलीव सुभगा देवी मुक्तावलीत्यभूत ॥२॥ तया दयितया युक्तस्तडितेव लसद्चा । मेघो मेघ इवाशेषं तापं पाशमयद् विशाम् ॥ ३ ॥ अन्यदा वासभवनं प्रविशन् मेघभूपतिः। दृष्ट्वा शशिमुखी साश्रुमुखी पप्रच्छ कारणम् ॥ ४ ॥ सा प्राह किं तया नाथ ! रूपसौभाग्यसंपदा । यदङ्कसङ्गतो रङ्गादङ्गभूर्नाङ्ग ! खेलति ॥ ५ ॥ श्रत्वेति भूविभुः स्माह दैवायत्तमिदं पिये ! । नहि केनापि दुर्लक्या लङ्घयते भवितव्यता ॥६॥ राज्ञी प्राह तथाप्यत्र कोऽप्युपायो विधीयते । भाग्ययोगेऽपि यत् साध्यं फलमुद्योगयोगतः ॥७॥ मणिमन्त्रौषधीनां यदचिन्त्यो महिमाऽस्ति हि । देवताराधनाद् यद्वा प्राप्यते चिन्तितं फलम् ॥ ८ ॥ निशम्य सम्यक तद् देव्या गदितं भूपुरन्दरः। प्राह प्रिये ! शुचं मुश्च करिष्ये त्वत्समीहितम् ॥९॥ इति देवीं समाश्चास्यान्यदा साहससेवधिः । नृपः कृष्णचतुर्दश्यां निशि प्रेतवनं ययौ ॥ १० ॥
9000000000000000000
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
00000000000000000 POESO
तत्रेति तारध्वनिनावनिनाथोऽप्यभाषत । भोः! भोः ! प्रेतपिशाचाद्या वचः शृणुत मेऽनघम् ॥ ११ ॥ महामांसं ददेऽहं वः पुत्रं ददतु मे सुराः। पिशाचः कोऽपि तच्छब्दं श्रुत्वागत्येदमब्रवीत् ॥ १२ ॥ भोः ! मांसेन कुतः पुत्रः प्राप्यते शिरसा यतः। नृपोऽवग् दधि तदपीत्युच्चरन् सहसाहसात् ॥ १३ ॥ विधृत्य पाणिना वेणी कृपाणी वाहयन् गले । पिशाचेनेति गदता धृतो भूमिविभुः करे ॥ १४ ॥ (युग्मम्). त्वत्सत्त्वेनास्मि तुष्टोऽहं पुत्रस्ते भवितोत्तम !। संशयं हृदि मा कारित्रार्थे प्रत्ययो ह्ययम् ॥ १५ ॥ देवी द्रक्ष्यति पारीन्द्रं स्वमेऽद्य शयिता निशि । श्रुत्वेति नृपतिस्तुष्टो निजमागाद् निकेतनम् ॥ १६ ॥ इतस्तस्यां निशि च्युत्वा ब्रह्मकल्पात सुरोत्तमः । जीवः कमलसेनस्य कुक्षौ मुक्तावलीस्त्रियः ॥ १७ ॥ पुत्रत्वेनावतीर्णोऽयं सिंहस्वमोपमूचितः । बभार गर्भ देवी सा रोहणोर्वीच सन्मणिम् ॥ १८ ॥ सुतं प्रामुत पुण्यति देवी मुक्तावली क्रमात् । अवर्षद् वसुधाराभिर्मेघस्तज्जन्महर्षतः ॥ १९ ॥ दत्तो देवेन नः सिंहस्वमसंमूचितो ह्ययम् । तं देवसिंहमित्याख्यत् पिता प्रमदपूर्णहत् ॥ २० ॥ इतश्च गुणसेनाया जीवश्युत्वा ततो दिवः। पुर्युजयिन्यां विजयशत्रुनाम्नो महीपतेः ॥ २१ ॥ देव्याः कनकमअर्याः कुक्षौ हंसीव मानसे । पुत्रीत्वेनावातरत् सा नाम्ना कनकसुन्दरी ॥ २२ ॥ (युग्मम् । क्रमेण वर्द्धमानाऽसौ संप्राप्ता यौवनं वयः। परं विषयसौख्येषु विमुखा सा सुमुख्यभूत् ॥ २३ ॥
000000004जी सामरीज
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वीचन्द्र
www.kobatirth.org
सवयोभिर्वयस्याभिर्बहुधा बोधिताऽप्यसौ । अपि कामसमानानां सेहे नामाऽपि नो नृणाम् ॥ २४ ॥ तद् ज्ञात्वा नृपतिश्चिन्तातुरः पप्रच्छ मन्त्रिणम् । विभाव्य सोऽपि चित्ते स्वे धियाऽवोचद् नृपं प्रति ॥२५॥ प्राग्भवे नूनमेतस्याः कस्मिन्नपि नरेऽभवत् । प्रेमाधिक्यं ततस्त्यक्त्वा तं नान्यत्र मनोरतिः ॥ २६ ॥ ततस्तदवबोधाय सर्वभूभृत्तन्भुवाम् । प्रतिरूपाणि दर्श्यन्ते प्राग्भर्त्तास्यास्तदाप्यते ॥ २७ ॥ यतः - श्रुतं प्रियस्य नामापि प्रतिरूपमपीक्षितम् । ध्रुवं जन्मान्तरप्रेम प्रकाशयति देहिनाम् || २८ ॥ युक्तमेतदतः सर्वराज्येषु प्राहिणोद् नृपः । आत्तकन्याप्रतिरूपान् सर्वाश्चित्रकरान् नरान् ॥ २९ ॥ asपि भूपतनूजानामनेकान्यद्भुतान्यपि । रूपाणि नृपकन्यायै लिखित्वाऽदुर्नृपाज्ञया ॥ ३० ॥ किमेतद्दर्शनेनान्यकार्यविघ्नविधायिना । भणन्तीत्यत्यजत् साऽपि सासूयं तानि तत्क्षणात् ॥३१॥ अत्रान्तरे मथुराया आगताश्चित्रकृन्नराः । देवसिंहकुमारस्यादर्शयन् रूपमद्भुतम् ॥ ३२ ॥ भूपस्तद्रूपमालोक्यावदद् रूपेण चामुना । चेन्मनो रज्ज्यते नास्यास्तन्नीरागशिरोमणिः ॥ ३३ ॥ कन्येयमविशेषज्ञा यद्वा पशुरिवोदिता । ब्रुवन्निति नृपः प्रेषीत् पुत्र्यै तां चित्रपट्टिकाम् ॥ ३४ ॥ साऽपि पूर्व नृपादेशात् ततश्चापूर्वदर्शनात् । ततो हर्षात् स्मररसात् तद्रूपं वीक्ष्य विस्मिता ॥ ३५ ॥ धूनयन्ती शिरो राजसुताssलीनां पुरोऽवदत् । केनेदृग् लिखितं रूपमहो ! विज्ञानकौशलम् || ३६ ||
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चरितम्
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३८ ॥
३९ ॥
४० ॥
अथवेदृग्रूपशाली हलाः ! कोऽप्यस्ति किं पुमान् ? । प्रतिरूपं हि यस्येदृगसरूपं जगत्यपि ॥ ३७ ॥ आख्यन् सख्यः स्वसर्देवसिंहोऽयं मेघभूपभूः । वरस्त्वदुचितः साधु विधिवेद् घटयिष्यति ॥ अत्रान्तरे प्रतीहार्या नृपस्तां चित्रपट्टिकाम् । आनाययत् सोऽप्यङ्गासीत् कुमार्या रुचितं वरम् ॥ ततो नृपः स्वसचिवान् मधुरां प्रेष्य सत्वरम् । देवसिंहकुमारायादापयत् तनयां निजाम् ॥ मेघभूभृदनुज्ञातः सत्सामग्रया समन्वितः । तत्पाणिग्रहणायागाद् देवसिंहो नृपाङ्गभूः ॥ ४१ ॥ महामहात् ताद्वाह्य कन्यां कनकसुन्दरीम् । अतिष्ठद् देवसिंहोऽथ सुखं तत्र कियदिनान् ॥ ४२ ॥ तत्रान्यदा समायासीच्चतुर्ज्ञानी महामुनिः । श्रुत्वा तदेशनां देवसिंहो धर्म प्रपन्नवान् ॥ ४३ ॥ अन्यदा नृपमापृच्छय देवसिंहः प्रियान्वितः । मथुरामागतस्तत्र जातो वर्द्धापनोत्सवः ॥ ४४ ॥ अन्यदा भूपोऽपि वा राज्यं स्वमूनवे । निष्क्रम्य सद्गुरूपान्ते तपस्तप्त्वा दिवं ययौ ॥ ४५ ॥ इतरोऽपि नयेनोव पालयन् प्रथितो गुणैः । श्राद्धधर्मे सुनिष्णातोऽपालयद् द्वादशवतीम् ॥ ४६ ॥ कालेन शुक्रकल्पेऽभूद् विमलद्युतिनिर्जरः । साऽपि तत्रैव देवत्वमगात् कनकसुन्दरी ॥ ४७ ॥ एकत्रैव विमाने च तावुभौ प्रेमनिर्भरौ । पालयामासतुः सप्तदशोदधिमितां स्थितिम् ॥ ४८ ॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रचरिते देवसिंहराजश्रमणोपासकचरितं तृतीयं भवग्रहणम् ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥२६
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
चरितम्
चतुर्थो भवः।
0000000000000000000000६
अत्रैव जम्बूद्वीपेऽथ प्राग्विदेहविभूषणे । सुकच्छविजये आयामही नाम नगर्यभूत ॥ १ ॥ नृपो विमलकीया॑ख्यस्तत्राभूद् विपुलः श्रिया । देवी प्रेमवती तस्य राज्ञः प्रियमतीत्यभूत् ॥२॥ देवसिंहसुरो देवरथस्वमोपमूचितः । आगात् तत्कुक्षिसरसि सुतत्वेन मरालवत् ॥ ३ ॥ स्वमानुसारतो देवरथ इत्यभिधां व्यधात् । पिता तस्य प्रमोदेन तारुण्यं प्राप स क्रमात् ॥ ४॥ इतश्चात्रैव विजये रतिरत्नाह्वये पुरे । रवितेजा नृपस्तस्य रतिदेवीति वल्लभा ॥५॥ कनकसुन्दरीजीवदेवश्च्युत्वा दिवस्ततः । तस्याः कुक्षौ सुतात्वेनावातारीच्छेषपुण्यतः ॥ ६ ॥ रत्नावलीस्वप्मलाभानुभावादभवत् क्रमात् । सुता रत्नावलीत्येषा प्रपेदे यौवनं क्रमात् ॥ ७॥ चतुःषष्टिकलादक्षाऽप्यसौ शिक्षाशतैरपि । कुतोऽपि हेतुतो द्वेषं पुरुषेषु जहौ न सा ॥ ८ ॥ ततो नृपतिनाऽऽरब्धः स्वयंवरमण्डपः । आहूताः सर्वसामन्ताङ्गजास्तत्र समन्ततः ॥ ९ ॥
00000000000000000000000
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0000000000000000000000000
अथेष पित्रनुज्ञातः सारसैन्य पमन्धितः । देववद् दीप्तिमान देवरथोऽपि प्रस्थितस्ततः ॥१०॥ व्रजन्नध्वनि सोद्राक्षीच्छिन्नसक्षमिव द्विजम् । अप्युत्पतिष्णुं तत्कृत्याक्षम कमपि खेचरम् ॥१२॥ अपृच्छत् तं कुमारोऽथ महाभाग ! भवानिह । कुत आगात् किमेकाकी तिष्ठत्यत्र महावने ? ॥ १२ ॥ सोऽप्याख्यत शृणु वैताढ्ये कुण्डलाख्यपुरे नृपः। श्रीध्वजस्तस्य पुत्रोऽहं चन्द्रगत्यभिधानतः ॥ १३ ॥ कुलक्रमागतां विद्यामभ्यस्यन्नन्यदा त्वहम् । अधित्यकायामश्रौषं करुणं तरुणीरवम् ॥ १४ ॥ यावत् ससंभ्रमं तत्राधा तावत् सखीजनैः। वीज्यमानां मीलिताक्षी मृगाक्षी वीक्ष्य विस्मितः ॥ १५ ॥ तत्सख्यस्तावदाख्यन्मां साधो ! एोहि सत्वरम् । इमां गन्धर्वरादपुत्री विषभृद्विषविह्वलाम् ॥ १६ ॥ त्वरितं प्राणदानेनोपकुरुष्व दयानिधे !। प्रगुणां तां व्यधां चाहं दाग मुद्रारत्नवारिणा ॥ १७ ॥ (युग्मम्). विषव्यथायां नष्टायां सा क्रमादाप्तचेतना । सखीजनमुखान्यश्रुजलााणि स्मितानि च ॥ १८॥ वीक्ष्य विरमयवत्यूचे विरुद्धाकृतयः कथम् ? । सख्यो यूयं ममाख्यान्तु परमार्थ कमप्यमुम् ॥ १९ ॥ ता अप्यूचुर्भगिन्यासीराशीविषविषार्दिता । जीविताऽस्यधुनाऽनेन निनिमित्तोपकारिणा ॥ २० ॥ एतनिमित्तमेवायं विरोधो नः किलाकृतेः । श्रुत्वेति सानुरागाऽभूत् साऽथ मय्युपकारिणि ॥ २१ ॥ अत्रान्तरे च तत्रागात् स गन्धक्षमापतिः । मां श्रीध्वजसुतं मत्वा प्राह स्मेति सगौरवम् ।। २२ ।।
000000000000000000000000
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
काचरितम्
000000000000000000000000
गौरव्योऽसि कुमार! त्वं किं ते दद्युपकारिणे ?। गृहाण पाणिमेतस्याः सुताया अविलम्बभाक ॥ २३ ॥ मत्वा तदाग्रहमहं विवाहं सुमहामहम् । विधाय तामथादाय स्वस्थानेऽस्मि सुखं स्थितः ॥ २४ ॥ अयोद्यानाद् निवृत्तस्य प्रदेशेऽत्र ममाधुना । पितृष्वसुः सुतस्तस्याः सुमेघः खेचरोऽमिलत् ॥ २५ ॥ रोषात सोऽजल्पदाक्रोशपरो मामिति खेचरः । रे रे ! जामि ममादाय तिष्ठस्यद्यापि दृक्पथि ॥ २६ ॥ तद् दर्शयेऽधुनैवाहं तव दुर्नयजं फलम् । जल्पन्नित्युपतस्थौ द्राक् स मया सममानये ॥ २७ ॥ प्रतिमह महमप्यस्मि तस्मिन् समुद्यतः । व्यस्मार्षमाकुलत्वेन चैकं विद्यापदं परम् ॥ २८ ।। तेनात्र सहसा भूमौ पतितोऽस्म्यत्र संपति । पङ्गोरिव ममादाय प्रियां नष्टः स च क्षणात् ॥ २९ ॥ इत्येष ते सखे ! सर्वो वृत्तान्तोऽस्ति निवेदितः । तदुःखदुःखितः माह कुमारोऽप्यथ तं प्रति ॥ ३०॥ पठ त्वं मत्पुरो विद्यां सोऽप्यपाठीच तां ततः । पदानुसारिलब्ध्या तत्पदं प्राह स्म भूपभूः ॥ ३१॥ निःस्वो निधिमिवासाद्य तन्मुदा खेचरोऽवदत् । मुट्वहं जीवितोऽस्म्यद्य कुमारेणोपकारिणा ॥ ३२ ॥ ध्रुवं सफल एव स्यान्महतामङ्ग ! सङ्गमः । कालक्षेपाक्षम कार्य परमस्ति ममाधुना ॥ ३३ ॥ गृहाण पाठसिद्धां तद्विद्या वैक्रियनामिकाम् । तन्मिषेणापि येनाहं कृतार्थः स्यां स्मृतस्त्वया ॥ ३४॥ आदात् कुमारस्तां विद्या सुमेधं सोऽनुधावितः । इतरोऽपि क्रमादापद् रतिरत्नाह्वयं पुरम् ॥ ३५ ॥
90000000000000000000000
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
1,000000000
www.kobatirth.org
प्रवरावसथेष्वावासितः सोऽपि सगौरवम् । क्रमेण सर्वराजन्यकुमारेष्वागतेष्वथ || ३६ || सायमा घोषणाकारि सर्वतोऽपि नृपेण यत् । सर्वैः प्रातः समागम्यं स्वयंवरणमण्डपे ॥ ३७ ॥ दध्यौ देवरथः किन्नु भूषाद्याडम्बरेण चेत् । भाग्यं मे तद् वृणीते मां कन्या सामान्यमप्यहो ? ॥ ३८ ॥ ध्यात्वेति स्ववयस्यं स्वासनि संस्थाप्य स स्वयम् । किश्चित्कुरूपो भूत्वा तत्पुरो वीणामवादयत् ॥ ३९ ॥ आगादत्रान्तरे तत्र कन्याऽऽरु सुखासनम् । तद्रूपदर्शनात् सर्वे चुक्षुभुः क्ष्माभृदङ्गजाः ॥ ४० ॥ दृष्टिर्नास्या निविष्टा तु कस्मिन्नपि नृपाङ्गजे । अरज्यत्प्राग्भवप्रेम्णा सा वीणावादके परम् ॥ ४१ ॥ सा बाला वरमालां चाक्षैप्सीत् तत्कण्ठकन्दले । जनोक्तिरिति तत्राभूद् धिग् गन्धर्वो वृतोऽनया ॥ ४२ ॥ रवितेजा निशम्येति जनवाचं विषादभाक् । दध्यौ ध्रुवं नितम्बिन्यो निम्नगा इव निम्नगाः || ४३ ॥ कृतरूपपरावर्त्ती यद्वा कोऽपि महानसौ । भावी रत्नावली स्वप्ने यन्मात्राऽस्यास्तदेक्षिता || ४४ ॥ तोsनयाऽयं गन्धर्व इत्यमर्षवशंवदाः । सर्वेऽपि भूभुजो गर्वात् समराय समुत्थिताः ॥ ४५ ॥ रवितेजा नृपस्तानित्यूचे भोः ! कोऽयमञ्जसा । अकाण्डे समरारम्भो नृपाः ! शृणुत मद्वचः ॥ यदि राज्ये पञ्चदिव्यैः प्राकृतोऽपि निवेश्यते । यदिवेष्टं वरं कन्या वृणुते च स्वयंवरा ॥ तदन्येषां हि को मानभङ्गः का वा त्रपा मता ? | यदि चेर्ष्या विधास्यध्वे तदा विपदमाप्स्यथ ॥
४६ ॥
४७ ॥
४८ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥२८
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
चरितम्
1000000000000000000000000000
तथापि कुग्रहावेशात ते कुमारमवेष्टयन् । स चकोऽपि शरवातैस्तानजैषीत् क्षणादपि ॥ ४९ ॥ रवितेजा नृपस्तत्र तच्छौर्य वीक्ष्य विस्मितः । जज्ञौ विमलकीर्तेस्तं सुतं तन्मित्रवाक्यतः ॥ ५० ॥ जातप्रकृतिरूपं तं रत्नावल्या व्यवाहयत् । स्थित्वा तत्र कियत्कालं प्रतस्थे स्वपुरं च सः॥५१॥ अथ स्वावसथे देवरथो दयितया सह । रत्या स्मर इवाभुत सुखं विषयगोचरम् ॥५२॥ आयासीदन्यदोद्याने तत्र धर्मवसुर्गुरुः । तं वन्दितुं गतो भूपो देशनां चाशृणोदिति ॥ ५३॥ भोः! भव्याः! इह संसारपारावारे हि देहिनाम् । निमज्जतां विशुद्धोऽयं धर्मः पोतसमो मतः ॥५४ ।। रागादिदोषनिर्मुक्तो देवः सर्वज्ञ उच्यते । अदृष्टोऽपि स दृष्टस्तैयस्तद्धर्मो धुरीकृतः ॥ ५५ ॥ भविको योऽत्र सत्पश्चपरमेष्ठिपदस्मृतिम् । करोति नित्यं तस्य स्यानिःश्रेयसपदाश्रयः ॥ ५६ ॥ त्रीन् पञ्च सप्त वा वारानशने शयनेऽपि यः। ध्यायेन्मन्त्राधिराज स स्यादवश्यं सुखास्पदम् ।। ५७ ।। तथाह्यत्रैव भरते ग्रामे सुग्रामनामनि । प्रकृत्या भद्रधीः कोऽपि सङ्गतो नाम पामरः ॥ ५८ ॥ सोन्यदा निशि वासाय मुनिभ्योऽदादुपाश्रयम् । तेऽपि ध्येयतया तस्य परमेष्ठिपदान्यदुः ॥ ५९॥ स तान्याजीवितं स्मृत्वाऽऽयुःक्षये नन्दिपत्तने । पद्मानननृपस्याभूत सुतो रत्नशिखाभिधः ।। ६० ।। स तत्र नृपतिर्भूत्वा राज्यं विन्यस्य मन्त्रिषु । देशान्तरदिदृक्षायै चलितः कलितोद्यमः ॥ ६१ ॥
93000000000000000000000000
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रामाकरपुरादीनि लङ्घयन् कुत्रचिद् वने । एकं महागजं दृष्ट्वा वशीकृत्यारुरोह तम् ।। ६२ ।। तत्कण्ठकन्दले कस्मादपि पुष्पत्रगापतत् । विस्मितोऽग्रे चलन् दृष्ट्वा पुरथैकं महासरः ।। ६३ ।। कृत्वा तत्र जलक्रीडां स यावत् तत्तटे स्थितः । ददौ दिव्यदुकूलानि काऽप्यस्मै तावदङ्गना ।। ६४ ।। ( युग्मम् ). ऊचे साऽपूर्वदेवस्य स्वागतं तव संप्रति । नृपः प्राह कथं भद्रेऽपूर्वदेवोऽस्मि तद् वद ? ।। ६५ ।। सस्मिता विस्मितायाख्यत् क्षितीशायेति सा तदा । सम्यगाराधिता देवा निर्वृतिं ददते न वा ! ।। ६६ ।। दृष्टमात्रोऽपि नः सख्यास्त्वमदा देव ! निर्वृतिम् । तत एव त्वमत्रैषोऽपूर्वदेवो निगद्यसे ।। ६७ ।। नृपोऽवोचत् सखी कैषा कथं वाऽहं तयेक्षितः ? । साऽऽख्यदस्त्यत्र वैतान्ये सुरसङ्गीतपत्तनम् ॥ ६८ ॥ तत्राभूत् सूरणो नाम नृपतिस्तस्य वल्लभा । एका स्वयंप्रभा नाम्नी पराऽऽसीच महाप्रभा ।। ६९ ।। शशिवेगसुरवेगाभिधौ सविनयौ तयोः । उभावभूतां तनयौ सर्वदाऽप्युल्लसन्नयौ ॥ ७० ॥ अन्यदा मूरणो राज्ये शशिवेगं निवेश्य तम् । रवितेजोगुरूपान्ते प्रावाजीद् विरतो भवे ।। ७१ ॥ तद्राज्येऽथ सूरवेगः सुवेगाद्धं स्वमातुलम् । सहायीकृत्य युद्धायोपतस्थौ लोलुभः श्रियाम् ॥ ७२ ॥ शशिवेगो निजं हित्वा पुरं सुगिरिभूधरात् । परतो नूतनं न्यस्य पुरं तत्र स तस्थिवान् ।। ७३ ।। अस्ति चन्द्रप्रभा नाम दुहिता तस्य भूपतेः । नैमित्तिकोऽन्यदा कोऽपि तां दृष्ट्वाऽऽचष्ट शिष्टधीः ॥ ७४ ॥
For Private and Personal Use Only
| ॥२९॥
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीचन्द्र
चरितम्॥
0000000000000000000000000
वालयिष्यति ते राज्यं य एतां परिणेष्यति । कथं स ज्ञास्यत इति नृपोक्ते सोऽप्यभाषत ॥ ७५ ॥ बने महागजं मत्तं वशे यो दाग विधास्यति । ज्ञेयश्चन्द्रप्रभाभा स नूनं बलवत्तरः ॥ ७६ ।। आरभ्य तहिनादेवाधोरणैरपि रक्षितः । हस्तनेऽति स गन्धेभः प्रोन्मूल्यालानमअसा ॥ ७७॥ अत्रारण्येऽविशत् तत्रागता पितृनिदेशतः । चन्द्रप्रभा देवकण्ठे चिक्षेप वरमालिकाम् ॥ ७८ ॥ (युग्मम् ). इदं दिव्यदुकूलादि प्राहिणोत् सैव तेऽनघ!। इत्युक्तवत्यां तस्यां द्रागागात् सैन्यं कुतोऽप्यथ ॥ ७९ ॥ यावत् पश्यति भूपस्तत् तावत् केनापि सादिना । पुरस्सरेण भूपालः पप्रच्छे इति साअसम् ॥ ८॥ गजारूढो नरः कश्चित् त्वया दृष्टोऽत्र कानने ? । यतस्तद्दर्शनोत्कण्ठा वर्ततेऽस्मत्पभोर्भृशम् ॥ ८१ ॥ खेच!चे स एवैष सादी श्रुत्वेति तद्वचः । वसुतेजोनृपस्यैतां तत्मवृत्ति न्यवेदयत् ।। ८२ ।। सचिवस्तं समाह्वाय्य सोऽप्यष्टौ कन्यका निजाः दत्त्वा तस्मै निजे राज्ये तं च रत्नशिखं व्यधात् ।।८३॥ स्वयं च सुगुरोः पार्श्वे तपस्यां स प्रपेदिवान् । शशिवेगोऽपि तां वार्ती श्रुत्वा तत्रैत्य सत्वरम् ॥८४॥ चन्द्रप्रभाभिधां पुत्रीं तस्मै प्रादान्मुदान्वितः। सहस्रविद्यासंयुक्ता विद्या चाप्यपराजिताम् ॥ ८५ ॥ (युग्मम् ) ज्ञात्वा व्यतिकरं चनं सुवेगाहः स खेचरः । समागाद् गजरूपेण तत्पुरोधानसीमनि ॥ ८६ ॥ कौतुकात् तज्जिघृक्षायै वनं रत्नशिखोऽप्यगात् । यावद् गजं वशीकृत्य समारोहत् स भूपतिः ॥ ८७ ॥
000000000000000000000000
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
පමණ වනවවෙළදපළවළ:
उत्पपात गजस्तावत् सहसा स नभोऽङ्गणे । संभ्रान्तो भूपतिस्तं चाताडयद् दृढमुष्टिना ॥ ८८ ॥ (युग्मम् ) तद्घातपीडितोऽथासौ विस्मरन् मन्त्रचिन्तनम् । स्वरूपस्थो नमोऽईद्भ्यो भणनित्यपतद्भुवि ॥ ८९॥ श्रुत्वेत्याशातितो हा ! धिग् मया साधर्मिकोऽप्ययम् । ध्यायन्निति व्यधाद् भृभुक् स्वस्थं तं जलमारुतैः ॥ ९०॥ तं च रत्नशिखोऽवोचत् सम्यक्त्वं साधु साधु ते । आपत्स्वपि यदस्मापनमस्कारं सुचेतसा ॥ ९१ ॥ क्षमस्वागो मयाऽज्ञाततत्त्वेनासि यदाहतः । सोऽप्याचष्ट न मन्तुस्ते पापीयानहमेव हि ॥ ९२ ॥ यद्विदन्नपि ते कर्तुं विपियं चाहमुद्यतः । अस्मि चक्रपुरस्वामी सुवेगो नाम खेचरः ॥ ९३ ।। जामेयपक्षपातेन शशिवेगः स खेचरः । पितृप्रदत्तराज्योऽपि मया निर्वासितः पुरात् ॥ ९४ ॥ तस्य जामातृतो राज्यलाभं शृण्वन्नमर्षभाक् । त्वद्वधाय मुधाऽधावं द्विपरूपधरो ह्यहम् ॥ ९५ ॥ साधर्मिकवत्सलेन त्वया साध्वस्मि बोधितः । निविण्णो भववासाच गृहीष्याम्यधुना व्रतम् ।। ९६ ॥ तत् त्वं गृहाण मद्राज्यं क्षमयित्वा यथा द्रुतम्। शशिवगं नृपं साधो ! साधयामि स्वमीप्सितम् ॥ ९७ ॥ खेचराद् ज्ञातवृत्तान्तः शशिवेगस्तदागमत् । सुवेगः क्षमयित्वा तं प्रत्यपद्यत संयमम् ॥ ९८ ।। क्रमाद् विद्याधरश्रेणिविभू रत्नशिखोऽभवत् । परदेशेऽपि पुण्यान्याः प्राप्नुवन्त्युत्तमश्रियम् ॥ ९९ ।। अवेत्य मूरवेगोऽपि स्वमातुलकथां च ताम् । बन्धुना रक्ष्यमाणोऽपि वैराग्यादग्रहीद् व्रतम् ॥ १० ॥
0000000000000000000000000
॥३०॥
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0
-
चरितम् ।
अथ रनशिखनृपोऽपि प्राक् पुण्यावाप्तखेचरैश्वर्यः। जिनगणधरकेवलधरपदारविन्दाभिनतिशीलः ॥ १०१ ॥ संप्राप्य बोधिरनं हायनलक्षाण्यनेकशोऽप्यभुनक् । सुखवर्गमुत्तरोत्तरमसौ सुपुण्यात्मनां धुर्यः॥ १०२ ॥ साकेतपुरे समवसृतमन्यदा सुयशसं मुनि नत्वा । निजपूर्वभवमपृच्छद् व्याहरदथ सप्रथं भगवान् ॥ १०३ ॥ राजन् ! पश्चनमस्कृतिमतिनिश्चितमिदमशेषमपि तेभूत् । राज्यादि किं न तदियं सुखाय केषामिहामुत्र ? ॥१४॥ इति मुनिपतिवचनामृतगतदुरितविषः स रत्नशिख एषः । व्रतमादायोदितकेवलर्द्धिरगमत् स सिद्धिसुखम् ॥१०॥ इति रत्नशिखचरित्रं श्रुत्वा श्रीविमलकीर्तिनृप एषः। भववासपाशविमुखः शिवसुखसङ्गे कृतोत्साहः ॥१०६॥ देवरथं निजराज्येऽभिषिच्य जग्राह धर्मवसुपार्थे । दीक्षां देवरथोऽपि स रत्नावल्या समं प्रियया ॥१०७॥ सम्यग् गृहिधर्मविधि प्रपाल्य पुत्रं निवेश्य निजराज्ये। आयुःक्षयादवापच्चानतकल्पे सुरैश्वर्यम्॥१०८॥त्रिभिर्विशेषकम्। एकस्मिन् सुश्मिाने द्वावपि तौ प्रेमपेशलौ देवौ । एकोनविंशति सागराणि सौख्यं मुदाभुङ्काम् ॥२०॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रचरिते देवरथश्रमणोपासकचरितं
चतुर्थ भवग्रहणम् ॥ ४ ॥
300CGOOGGGOOOO560600563000
-
000000
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमो भवः ।
स्000000000000000000
अधाऽस्ति प्राग्विदेहेऽत्र पुष्कले विजये पुरी । विशाला नाम तत्राऽस्ति सिंहसेनाभिधो नृपः ॥ १ ॥ प्रियशुमारी राजी तस्याभूच्छी रिवाङ्गिनी । दम्पती तो मिथः प्रेम्णा समयं नयतः सुखम् ॥ २ ॥ अथ च्युत्वा दिवा देवरथजीवोऽवतीर्णवान् । प्रियशुमारीकुक्षी भुक्तौ मुक्तामणिर्यथा ॥ ३ ॥ पूर्णचन्द्रमहास्वमानुसारेण पिताकरोत् । पुत्रस्य पूर्णचन्द्राहां शुभेऽति सुमहामहम् ॥ ४ ॥ अथ रत्नावलीदेवश्च्युत्वा तत्रैव सत्पुरि । देव्या भ्रातुर्विशालस्य सामन्तस्य सुताऽभवत् ॥५॥ पुष्पमालामहास्वमदर्शनात् पुष्पसुन्दरी । जाता सद्गुणरत्नकरखनी देवकनीनिभा ॥ ६ ॥ सा तारुण्यं वयः प्राप्ताऽन्यदा पित्रोनिदेशतः । वसन्तत्तौ सखीयुक्ता गतोद्यानं निरीक्षितुम् ॥ ७॥ क्रीडित्वा सुचिरं तत्र माधवीवल्लिमण्डपे । हृतश्रमा समारंभे वीणां वादयितुं मुदा ॥ ८ ॥ अत्रान्तरे सवयाभिः सेव्यमानः स कौतुकान् । तत्रायातः पूर्णचन्द्रस्तया सस्नेहमीक्षितः ॥ ९ ॥ माग्भवाभ्युल्लसत्प्रेमरसात् तद्रूपदर्शनात् । पुप्पसुन्दर्यवाप्ताऽसो पुष्पेषुशरगोचरम् ॥१०॥
0000000000000000000000000
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
चरितम
3000000000000000000000000
अथ विज्ञाय तद्भाव स उचेऽशोकदत्तया । पूर्णचन्द्र ! समेह्यत्र क्षणं व्रततिमण्डपे ॥ ११ ॥ आगतः सोऽपि तत्रेक्षाञ्चक्रे तां स्नेहनिर्भरम् । अभ्युत्थानासनाद्या साऽप्यस्मै सत्कृतिमातनोत् ॥१२॥ दथ्यौ स पूर्णचन्द्रोऽस्या अहो! काप्यङ्गचारुता । अहो! लीलाविलासोऽयमहो! लावण्यमद्भुतम् ॥१३॥ प्राग्भवप्रेमसंस्कारसंरम्भादिति भूपभूः । मुहुर्मुहुस्तदालोककौतुकाद् विरराम न ॥१४॥ अवोचत् पूर्णचन्द्रस्तां पूर्णचन्द्राननेऽधुना । वीणां वादय सा ब्रीडावनतास्याऽभवत् तदा ॥ १५ ॥ अशोकदत्तावादीत त्वत्पुरः सुभग ! लज्जते । अविनीतेत्यसो तन्न कलनीया त्वयाऽनघ !॥ १६ ॥ अयं विपञ्चीं छन्दामीत्युक्तिदक्षाय सा ददौ । पूर्णचन्द्रकुमारायाशोकदत्ताऽपि तां द्रुतम् ॥ १७ ॥ एवं मिथः कथोद्देशलेशपेशलयोस्तयोः । आगतैका सखीकन्या जनन्या इत्यभाषत ॥ १८ ॥ अहो ! अभिनवो यूनोः सङ्गोऽयमिति वाक्परा।सा पुष्पसुन्दरीमूचे स्थिताऽसि किमियच्चिरम् ॥१९॥ यत् खां विना जयादेवी भुते नाद्य त्वमेहि तत् । श्रुत्वेति साप्यनिच्छन्ती प्राप्ता निजनिकेतने ॥२०॥ पूर्णचन्द्रमुखी पूर्णचन्द्रं चित्ते स्मरन्त्यथ । काऽपि नापद् रति तुच्छाम्भसि मत्स्यीव सानिशम् ॥२१॥ अथ विज्ञाततञ्चित्ताशयाः सख्यो जगुर्गिरम् । स्वसविद्मो वयं नूनं त्वन्मनोदुःखकारणम् ॥ २२ ॥ शृणु तच्छमनोपायमपि यज्जनकोऽद्य ते । अस्माभिः शुश्रुवे देव्या सममालापयन्निति ॥ २३ ॥
TTTTTTTTTTTTTTTTTTTT
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
--
00000000000000000000000
कथं नु पुष्पसुन्दाः पूर्णचन्द्रो वरो भवेत् । उचितो यदयं योगो मणिहेम्नोरिवेक्ष्यते ॥ २४ ॥ इत्यालोच्य मिथो भ्रातृजामी रन्तुं युवामिह । वने समादिदिशतुर्दूतं वां सङ्गमार्थिनौ ॥ २५ ॥ निशम्येति सखीवाचं साऽभूनितमानसा । कुमारोऽपि स्वमित्रोक्तमवृत्तेनितो हृदि ॥ २६ ॥ अथ प्रशस्तेऽति तयोः पाणिग्रहमहामहम् । सिंहसेनविशालाख्यौ पितरौ चक्रतुर्मुदा ॥२७॥ पूर्णचन्द्रकुमारोऽसावथ मारोपमः श्रिया | प्रियया पुष्पसुन्दर्या समं शर्म समन्वभूत् ॥ २८ ॥ अन्यदा पुष्पशालाख्योद्यानेऽत्र समवासरत् । श्रीसुरसुन्दराचार्यों नृपस्तं वन्दितुं ययौ ॥ २९ ॥ पूर्णचन्द्रकुमारोऽपि तत्रागाद् दयितायुतः। सर्वेऽपि शुश्रुवुस्तस्य व्याख्या द्राक्षानुवादिनीम् ॥ ३० ॥ अथास्य मुनिनाथस्याद्भुतरूपं विलोकयन् । अपृच्छद् विस्मयापूर्णः पूर्णचन्द्रस्तमित्ययम् ।। ३१॥ प्रभो ! अत्यद्भुतं रूपं राजते वो नवं वयः। प्रत्यक्षलक्षणैरेभिर्जाता मन्ये महत्कुले ॥ ३२ ॥ कुतो वैराग्यतो घोरमिदमङ्गीकृतं व्रतम् । भगवन् ! विस्मयो मेऽसौ तच्छुश्रूषामि कारणम् ॥ ३३ ॥ मूरयोऽप्यूचिरे भूपभवायं भव एव नः। वैराग्याय तथाऽपि त्वं शृण्वथ प्रथितां कथाम् ॥ ३४ ॥ पुरं रत्नपुरं तत्र महेभ्यः सुधनाभिधः । लक्ष्मीरिवाङ्गिनी तस्य लक्ष्मीरित्यभवत् पिया ॥ ३५ ॥ सुरसुन्दरनामाहं तयोः पुत्रोऽतिवल्लभः । द्वात्रिंशद् दयिताः पित्रा तारुण्ये च विवाहितः ॥ ३६॥
900000000000000000000000
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
चरितम्
36633003331000303033333333€
कालेन निधनं प्राप्तौ पितरौ तद्वियोगतः । दुःखितोऽपि गृहारम्भचिन्तासु व्यापृतोऽभवम् ।। ३७ ।। ईर्ष्यालुत्वेन जायानां निर्गन्तुं सदनाद् बहिः । अददानः परविशां प्रवेशाद्यप्यवारयम् ॥ ३८ ॥ प्रतोल्यां तालकं दवा व्यवहाराय याम्यहम् । कुविकल्पशतैस्तत्र तिष्ठामि न पुनश्चिरम् ॥ ३९ ।। शुष्कोद्यानमिव त्यक्तं पक्षिभिर्भिक्षुभिर्गृहम् । ततो मे जैनमुनिभिर्विशेषाच कृतांहसः ॥ ४० ॥ अथादत्त्वाऽन्यदा द्वारं गते मयि मुनिगृहम् । आगाद् नत्वा च तं धर्म शुश्रुवुस्ताः प्रिया मम ॥ ४१ ॥ मुनौ गदति सद्धर्ममागां द्वार्यहमप्यथ । पश्याम्यवहितीभूय यावत् तत्र रहःस्थितः ॥ ४२ ॥ तावत् ता मुनिवक्त्राब्जदत्तनेत्राः पुरः प्रियाः । अपश्यमासनस्थं च मुनि रूपमहोनिधिम् ॥ ४३ ।। कोपावेशात् ततो दध्यावहो ! धृष्टोऽधमो मुनिः। स्वच्छन्दं मम कान्ताभिः सह जल्पति निस्त्रपः ॥ ४४ ॥ तदेतस्य स्वहस्तेनाप्यष्टस्वङ्गेषु यष्टयः । पञ्च पञ्च महर्त्तव्या मया दुर्नयकाङ्क्षिणः ॥ ४५ ॥ परं शृणोमि कि तावन्मन्त्रयत्येष इत्यहम् । ध्यायन्नवहितस्तावद् धर्म सोऽवग् दयामयम् ॥ ४६ ॥ सौभाग्यमारोग्यमयं वपुश्च रूपं परं वान्छितभोगसंपत् । स्वर्गापवर्गादिमहासुखानि भवन्त्यहिंसाव्रतपालनेन ॥४७॥ पगुत्वकुष्ठित्वकुणित्वदोषाः कुब्जत्वमन्धत्वमशर्मरोगाः। दौर्भाग्यदौर्गत्यविवर्णताश्च स्युर्जन्तुघातं सृजतामिहैव ॥४८॥ शत्रुञ्जयशूराही पितृपुत्राविव सुदारुणं दुःखम् । इह परलोके च सहन्ति जन्तवः प्राणिघातेन ॥ ४९ ।।
ttttttttttttttttttttttt
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तथाद्यत्रैव विजये पुरे जयपुरे नृपः । शत्रुञ्जयाख्यस्तत्पुत्रौ शूरचन्द्राभिधावुभौ ॥ ५० ॥ युवराज्ञि कृते शूरे चन्द्रः परिभवं वहन् । गतो देशान्तरे रत्नपुरे तत्रानमन्मुनिम् ॥ ५१ ॥ श्रुत्वा धर्म मुनेः पार्श्वात् निरागः प्राणिघाततः । निवृत्तस्तत्र शिश्राय जयसेनं स भूपतिम् ॥ ५२ ॥ आज्ञापितोऽन्यदा राज्ञा स इति त्वमतर्कितः । यत् कुम्भचरटं सुप्तं निशि संवेष्टय घातय ।। ५३ ।। सोऽपि स्वनियमं स्मृत्वा प्रावर्त्तिष्ट न तद्विधौ । ततो राज्ञाऽतिविश्वासाञ्चक्रेऽसौ स्वाङ्गरक्षकः ॥ ५४ ॥ अन्यदा शौर्याsit कुम्भं बद्धा समानयत् । लब्धप्रसिद्धिश्चन्द्रस्तं नियमं प्रत्यपालयत् ।। ५५ ।। शूरोऽथ युवराजाऽपि राज्यार्थी जनकं निजम् । प्रहारजर्जरं कृत्वा निरगाद् निशि मन्दिरात् ॥ ५६ ॥ देव्या दृष्टो यामिकै कोलाहलरवोत्थितैः । बद्धाऽऽनीतो नृपस्याग्रे प्रातः सर्वैः स लक्षितः ॥ ५७ ॥ कोपाद् निर्विषयीचक्रे नृपस्तमथ मन्त्रिणः । प्रेष्य चन्द्रकुमारं चानाययत् सोऽपि सत्वरम् ॥ ५८ ॥ स पितृमिलना कुण्ठोत्कण्ठो जवनयानयुक् । जयसेनमनुज्ञाप्य समागात् स्वपुरं प्रति ॥ ५९ ॥ शत्रुञ्जयनृपश्चन्द्रं स्वे राज्येऽस्थापयत् ततः । शस्त्रघातार्दितः शूरे स मात्सर्यमनुत्सृजन् ॥ ६० ॥ मृत्वा द्वीप्यभवच्छ्ररो भ्राम्यंस्तेन हतो वने । स शूरः शवरश्वासीत् पुनस्तत्रैव कानने ॥ ६१ ॥ मृगयायै भ्रमन् जघ्ने स तेन द्वीपिना पुनः । द्वीपी च शेषशवरैर्विशिखैर्निहतो मृतः ।। ६२ ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥३३॥
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वीचन्द्र
www.kobatirth.org
-
ततोऽभूतां तावुभावपि । युध्यन्तौ तौ मिथो वैराद् निजघ्नुः शवराः क्षणात् ॥ ६३ ॥ वने तत्रैव मृत्वा तो पुनर्जातौ मृगार्भको । मिथो युद्धपरौ तत्राऽप्यवधील्लुब्धकच तो ॥ ६४ ॥ asभूतां ततrt युध्यन्तौ तौ वनेचरैः । गृहीत्वा चन्द्रभूपस्योपनीतौ दैवयोगतः ॥ ६५ ॥ तत्राऽपि तौ युद्धपरावरक्षन् हस्तिपालकाः । अन्यदाऽथागतस्तत्र ज्ञानी पृष्टः स भूभुजा || ६६ || प्रभो ! महेभयोः कस्मादनिशं वैरमेतयोः । प्राग्भवान्मुनिरप्याख्यदशेषानपि तांस्तयोः ॥ ६७ ॥ श्रुत्वेति भूपतिश्चन्द्रो वितन्द्रो धर्मकर्मणि । feat anादाय त्रिदिवे त्रिदशोऽभवत् ॥ ६८ ॥ तावनुत्सृष्टमात्सयों गजौ युद्धा मृतौ ततः । रत्नप्रभायां श्वभ्रोर्व्यामभूतां नारकावुभौ ॥ ६९ ॥ तत्प्राणिघातविरताविरतेषु चैवं दृष्ट्वा गुणांस्तदितरांश्च सुखासुखानाम् ।
मूलं विभाव्य भवनो विरमन्तु मन्तुनिर्मुक्तजन्तुगणघातमवाहसोऽस्मात् ॥ ७० ॥ इति प्रथमाणुव्रते शत्रुञ्जयशरचन्द्रकथा ।
Acharya Shri Kailassagarsuri Gyanmandir
इति मुनिपतिमुखगदितां निशम्य ता विनयतो नता वनिताः । प्रथमाणुव्रतनिरता बभूवुरसुमद्धाद् विरताः ॥ ७१ ॥ निशम्येत्यहमुर्वीशसुताथो हृद्यचिन्तयम् । हितमेतन्ममैता यद् विरता जन्तुघाततः ॥ ७२ ॥ कुपिता अपि यन्नैताः कर्त्तारो विप्रियं मम । तद्दास्येऽहं यष्टिघातांस्तस्मै पञ्चैकवर्जितान् ॥ ७३ ॥
For Private and Personal Use Only
चरितम् |
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अत्रान्तरेऽवदत् साधुः सुधामधुरया गिरा । अहमप्यस्मि तत्रैतद्वाक्याकर्णन कौतुकी ॥ ७४ ॥ वक्तव्यं सत्यमेवात्रोपयुक्तैर्युक्तिमद् वचः । सत्यवाक् प्रत्ययस्थानं भवेत् सर्वाङ्गिनां प्रियः ।। ७५ ।। सत्येनाग्निर्भवेच्छीतो मार्ग दत्तेऽम्बु सत्यतः । नासिश्छिनत्ति सत्येन सत्याद् रज्जूयते फणी ॥ ७६ ॥ यन्मूत्वादयो दोषाः स्युः परत्रेह चायशः । जन्तूनां जायते यस्मात् तदसत्यं त्यजेत् सुधीः ॥ ७७ ॥ वञ्च्यते नहि केनापि सत्यवाग् धनवद् भुवि । आत्मानमात्मनैवान्यो वञ्चयेद् धरणो यथा ॥ ७८ ॥ अत्रैव विजयेऽभूतां सुदर्शनपुरे वरे । सुदत्तवणिजः पुत्रौ धनश्व धरणाभिधः ॥ ७९ ॥ धन निसर्गतः सत्यवाक तथा सत्यसङ्गरः । धरणो विपरीतस्तु मिश्रः प्रीतिस्तयोरभूत् ॥ ८० ॥ धनो मनसि निर्दम्भोऽभवदन्यस्तु दम्भभाक् । वाङ्मनः काय संशुद्धिः स्यात् सतामेव नासताम् ||८१|| पित्रोगौरवमालोक्य धनस्य धरणोऽन्यदा । दध्यौ मम गृहे सत्यस्मिन् पित्रोर्नेषदादरः ॥ ८२ ॥ जगाद धनमन्येद्युर्धरणो भ्रातरस्ति मे । कौतुकं दूरदेशेभ्योऽधुना धनमुपार्जितम् ॥ ८३ ॥ धनवादीत् कथं भ्रातस्तत्र गत्वार्ण्यते धनम् ? । विषमा दूरमध्वानो मुग्धौ त्वावां स्तनन्धयौ ॥ ८४ ॥ उवाच धरणो भ्रातरावां देशान्तरं गतौ । छलच्छद्मादिकृत्येनार्जयावो विभवं बहु ॥ ८५ ॥ आकर्णेति धनः कर्णौ पिधाय धरणं जग । भ्रातमैवेदृशं ब्रूहि नरकादिगतिप्रदम् ।। ८६ ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
1000
॥३४॥
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
चरितम
0000000000000000000000000
तन्मिथ्या दुष्कृतं देहि न वाच्यं पुनरीदृशम् । यन्नयेनार्जिता लक्ष्मीः सौख्यायेह परत्र च ॥ ८७ ॥ नेष्टमस्येदमित्यन्तर्विचिन्त्य धरणोऽवदत् । नेच्छामि मनसाप्येतत् त्वच्चित्तं तु मयेक्षितम् ॥ ८८ ॥ कुर्वो नीवीं समादाय व्यवहृत्या धनार्जनम् । इति प्रत्यायितः प्रेम्णा धनस्तत् प्रतिपन्नवान् ॥ ८९ ॥ अनुक्त्वैव ततो मातृपित्रोस्तो निर्गतौ पुरात् । लङ्घयन्तौ पुरग्रामारामादीन् कापि तस्थतुः ॥ ९० ॥ धरणश्चान्यदा दध्यौ कथं नायात्यसौ गृहे । कुर्वे तत् कञ्चनोपायं लब्धधीश्चाब्रवीद् धनम् ॥ ९१ ॥ किं धर्मेण जयो भ्रातः ! पापेनाथ जने बद । आख्यत् सोऽप्येतदाबालगोपालं ख्यातमीक्ष्यते ॥ ९२ ॥ धर्मादेव जयः संपद् यशः सर्वैरवाप्यते । अधर्माच्चायशो दुःखदौर्गत्यादि भवेद् नृणाम् ॥ ९३ ॥ धरणः प्राह वातूलो वेत्सि तत्त्वं न किञ्चन । पापादेव जयो वाद उभयोरित्यभूत् तदा ॥ ९४ ॥ धरणोऽवददासनग्रामे वादस्य निर्णये । कृते योऽसत्यगीस्तस्य ग्राह्यमन्येन लोचनम् ॥ ९५ ॥ धनोऽवग ननु तथ्यो मे पक्षो नेत्रं तु नाददे । उक्त्वेति तौ गतौ ग्रामं पृष्टाः पर्षद्रता जनाः ॥ ९६ ॥ तेऽवोचन् साम्पतं पापाद् जयो धर्माच्च नेक्ष्यते। श्रुत्वेति धरणो हृष्टः प्राह देयं त्वयाऽक्षि मे ॥ ९७ ॥ द्वितीयस्मिन्नपि दिने विवदन्तौ तथैव तौ। पणीकृत्य द्वितीयाक्षि पुनाम्यानपृच्छताम् ॥ ९८ ॥ ग्राम्यैः पुनस्तथैवोक्तं ततस्तो जग्मतुर्वनम् । उवाच धरणोऽद्यापि प्रतिपद्यस्व मद्वचः ॥ ९९ ॥
0BCCESOOOOTEESOGGEScecom
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
त्रयं बक्षिणी सीना
0000000000000000000000000
देहि वा हारित नेत्रद्वयं ब्रह्मथ नो व्यधाम्। द्यूतं त्वया सहावादी सत्यवादीति सोऽप्यदः ॥१०॥ कृतमेव मया द्यूतं त्वदायत्ते च मेऽक्षिणी। कुरु यद् रोचते तुभ्यमित्युक्तिनिभृते धने ॥ १०१॥ तथाविधतरुक्षीरक्षेपणादक्षिणी क्षणात् । सोऽक्षेप्सीद् भ्रातुरेषोऽपि तस्मिन् नेपद्रुषं व्यधात् ॥ १०२॥ दम्भधीधरणोऽवग् हा ! पापोऽकार्ष त्वयीदृशम् । इत्यमुं विलपन्तं सोऽधारयन्मधुरोक्तिभिः ॥ १०३॥ व्याघ्रा व्याघ्र इतो भ्रातर्बुवन्नित्युदितोऽमुना । पलायस्व द्रुतं तत् त्वं माभूद् यन्नः कुलक्षयः ॥ १०४ ॥ पलाय्य सोऽपि संपूर्णेप्सितः स्वपुरमासदत् । परिभ्रमन् धनोऽप्यापदेकं प्रवरशाखिनम् ॥ १०५ ॥ तत्रस्थं तं क मे भ्राता गतो वा कथमस्ति सः ? । मुहुः खिद्यन्तमित्यन्तरैक्षिष्ट वनदेवता ॥ १०६ ॥ अहो ! सौजन्यमस्याहो ! दौर्जन्यमपरस्य तु । ज्ञात्वेति तं जगौ देवी वत्सालं तस्य चिन्तया ॥ १०७ ॥ नेत्ररोगहरीमेतां वत्सादत्स्वाअनौषधीम् । वदन्तीत्यमरी दत्त्वा तो तस्मै द्राक् तिरोऽभवत् ॥ १०८ ॥ तदानप्रयोगेण धनः प्रगुणलोचनः । सुभद्रनगरं प्रापदतिक्रम्य महाटवीम् ॥ १०९॥ नेत्ररोगार्दिता तत्र राज्ञः कन्याऽस्ति तस्कृते । पटहं वाद्यमानं चाघोषणां सोऽशृणोदिति ॥ ११० ॥ कन्यारत्नं प्रगुणनयनं यः सृजेत् तस्य राजा राज्यस्याई वितरति सुतां चेति सम्यग् निशम्य । स्पृष्ट्वा सोऽप्यानकमपगदं नेत्रयुग्मं विधाय प्राज्यप्रीत्या नृपतितनयां पयणैषीद् धनस्ताम् ॥ १११ ॥
90000000000000000000000000
॥३५
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वी चन्द्र
www.kobatirth.org
११७ ॥
लब्ध्वा राज्यार्द्धमेषोऽपि सुखाम्भोनिधिमध्यगः । श्रियेवाधोक्षजोऽनैषीदद्धां वध्वाऽन्वितस्तया ॥ ११२ ॥ अन्यदा वाडवः कोऽपि पुरादागात् सुदर्शनात् । लक्षयित्वा तमात्मीयं धनोऽनैषीद् निकेतनम् ॥ ११३॥ सत्कृत्याशनपानाद्यैर्धनः पप्रच्छ तं द्विजम् । स्वपित्रोः कुशलोदन्तं स्वभ्रातुर्द्धरणस्य च ॥ ११४ ॥ सोऽव्याख्यद् यत्प्रभृति ते व्याघ्राच्छुश्रुवतुर्भयम् । पितरौ तद्दिनाद् दुःखमासाते तावहर्निशम् ।। ११५ ।। arrerरुणो नीरुग् दृष्टो व्यवहरन् पुनः । श्रुत्वेति मुदितश्चित्ते धनोऽदात् तस्य दक्षिणाम् ॥ ११६ ॥ ततो नामाङ्कितां मुद्रां लेखं दवा व्यसर्जयत् । धनस्तं सोऽपि लेखाद्यं तत्र पित्रे समार्पयत् ॥ सुदत्तः कुशलोदन्तं श्रुत्वा भाग्यमथाद्भुतम् । निजात्मजस्य मुदितो व्यधाद् वर्द्धापनोत्सवम् ॥ ११८ ॥ अध्यासीद्धरणोऽप्येवमायासीत् स कथं पुरम् ? । यत् तथा तत्र मुक्तोऽयमासीद् गुरुवने तदा ॥ ११९ ॥ कथं वेदृश्रियं प्रापद् दैवान्मे प्रातिकूल्यकृत् । न चिन्त्यते तद् घटयेत् कृतं विघटयेद् विधिः ॥ अत्रागतोऽयं मे भावी लाघवाय ततो द्रुतम् । गत्वोपायान्तरं कुर्वे येन न स्यादयं धनः ॥ ध्यात्वेत्यूचे स पितरं भ्रातुरुत्कण्ठितोऽस्म्यहम् । गच्छामि त्वदनुज्ञातः सोऽपि तं व्यसृजद् मुदा आगात् सुभद्रं धरणो धनस्तं वीक्ष्य हर्षतः । समालिङ्गत् परो वीक्ष्य तच्छ्रियं दौर्मनस्थितः ।। दध्यौ धर्माज्जयः सत्यमिति चक्रे श्रियाऽनया । धनोऽयं विपरीतं तदद्य कुर्वे क्षणादहो ! ॥
॥
For Private and Personal Use Only
१२० ॥
१२१ ॥
१२२ ॥
१२३ ।।
१२४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
चरितम्
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
100OOOOOOOOOOO00000000000
ततोऽसौ लाल्यमानोऽपि पाल्यमानोऽपि बन्धुना। माहान्येधुनूपं देव ! सहस्राक्षा हि भूभुजः ॥१२॥ वश्चितः किमनेन त्वं यदस्मा अप्यदाः सुताम् । अविचार्य कुलं शीलं नासीत् किं कोऽपि धीमदः ॥ १२६ ॥ यथास्थं वच्मि चेद् देवो नाख्यात्यस्मै ममोदितम् । यद् विभेम्यसुरादस्मादहं दुर्नयकारिणः ॥ १२७ ॥ प्रतिपन्ने नृपेणेति सोऽवोचत् श्वपचो ह्ययम् । अस्मत्पुरे विरुद्धात्माऽत्रैतो निर्विषयीकृतः ॥ १२८ ॥ युष्माभिरविमृश्यैव विवाह्य प्रापितः श्रियम् । भापितोऽस्म्यमुनात्मीयवृत्तजल्पविधौ भृशम् ॥ १२९ ॥ तन्मां मोचय यत् कापि तीर्थे गत्वा स्वशोधनम् । कुर्वे नृपोऽपि तत् सत्यं मन्वानस्तमदोऽवदत् ॥१३०|| भद्र ! मुष्टः शठः सुष्ठु निद्राति न ततस्त्वया। वाच्यमन्यस्य येनाहं यतिष्ये तत्कृते रयात् ॥१३१ ।। धरणोऽगान्नृपं नत्वाऽथादिशद् भूविभुर्भटान् । प्रातर्व!गृहे वध्यो धनोऽसौ छन्नमेव भोः! ॥ १३२ ॥ ययुस्ते प्रतिपद्येति तत्र प्राग भूपसेवकाः । शिरोऽा च धनः प्रैषीद् धरणं नूपपर्षदि ॥ १३३ ॥ सोऽप्यागादात्मवपुषः शुद्धयै वोंगृहं तदा । जघ्ने प्रागभियुक्तैस्तैर्भटैश्च धरणो जवात् ॥ १३४ ।। कृतो चुम्बारवस्तत्र पानीयपरिचारिणा । ज्ञातवृत्तो धनोऽप्यागाद् मूच्छितश्चापतद् भुवि ॥ १३५ ॥ देहस्थिति नो कुरुते स कृतेऽप्यौलदेहिके । श्रुत्वेत्यतर्क पद् भूपो मुग्धात्मा नन्वयं धनः ॥ १३६ ॥ पुण्याब्धेस्तस्य तत्पापनुन्नेनानेन ही विधेः । विलासात् स्ववधायैवमूचेऽसत्यं हि दुर्खिया ॥ १३७ ॥
0000000000000000000000000
॥३६
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
चरितम्
-
-
300COGOS63600309060360993
कृत्वेति निश्चयं गत्वा धनपाचे भवस्थितिम् । निरूप्याब्रुधद् धर्म नृपं सोऽपि श्रुतोक्तिभिः ॥१३८॥ धरणीशो धरणस्यान्यदा दौष्टयस्य कारणम्। अपृच्छद् ज्ञानिनं सोऽपि व्याहरच्छृणु भूपते ! ॥१३९।। सत्यगीर्द्धर्मशीलश्च दानी सर्वजनप्रियः । धनस्तद्विपरीतस्य द्वेषोऽस्मिस्तस्य तद् ध्रुवम् ॥ १४ ॥ प्राग्भवीयं पुनः किश्चिद् वैरं तत्राऽस्ति कारणम् । स मृत्वा धरणोऽत्रैव पुरे श्वपचपुत्र्यभूत ॥ १४१ ॥ संप्राप्तयौवना पत्या क्रोशन्ती निहता मृता । गणिकाऽभूत् पुरेऽत्रैव भुजगेन विनाशिता ॥ १४२ ॥ अत्रैव रजकस्याभूद् दुहिता रूपक्षिता । मातापित्रोरनिष्टा च कष्ट तिष्ठति साधुना ॥ १४३ ॥ इत्याकये स निर्विण्णः संसारार्णवतो भृशम् । धनः श्रामण्यमासाद्य सद्योऽगात् त्रिदशालयम् ॥१४४॥ असत्यगीरकरुणो धरणोऽप्यरुणो रुषा । जन्ममृत्यूमिभीमेत्र भ्रमिष्यति भवोदधौ ॥ १४५ ॥
पीत्वेति ताः साधुमुखारविन्दात् समुद्भवत्सत्यमरन्दविन्दून् । भावेन भेजुव्रतमद्वितीयमपि द्वितीयं सुकृतद्रुमूलम् ॥ १४६ ॥
इति द्वितीयाणुव्रते धनधरणयोः कथानकम् । ततो हितं ममैवैतद् यन्त्रताः कुपिता अपि । वितथाभिः कथाभिर्मा वञ्चयिष्यन्ति जात्वपि ॥ १४७ ॥ ततोऽमुष्मै यष्टिधाता मया देयास्त्रयस्त्रयः । ध्यायन्निति तथैवास्थामहं तत्रैव गोपुरे ॥ १४८ ॥
50000000000000000000000000
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
00000000000000000000000
अथासावभ्यधात् साधुर्माधुयविदितं वचः। नादेयमणु वाऽनल्पमदत्तं कुशलार्थिभिः ॥ १४९ ।।
परस्वापहारादिहामुत्र जीवा न कस्यापि विश्वासपात्रं भवन्ति ।
वघोद्वन्धने हस्तपादादिभङ्गं लभन्ते व दारिद्यदुःखानि कामम् ॥ १५० ॥ ये च परस्वग्रहणे विरतास्ते सिद्धदत्त इव सौख्यम् । ये च रतास्ते घोरं दुःखं विन्दन्ति कपिल इव ॥१५॥ काविमौ ताविति प्रोक्ते ताभिराख्यत स साधुराट्। विशालाख्यपुरेऽभूतां वणिजौ सुहृदौ मिथः ॥१५२॥ तत्रैको मातृदत्तश्च वसुदत्तो द्वितीयकः। अन्येषुस्तो पुरोधाने प्रयातौ नेमतुर्मुनिम् ॥ १५३ ॥ आदत्त मातृदत्तः सोऽदत्तस्वविरतिं तदा । मुनेरुपान्ते नान्यस्तु वसुदत्तः सतृष्णहृत् ।। १५४ ॥ द्वावप्यल्पधनावाद्यः परं सद्व्यवहारवान् । अन्यः कूटतुलाकूटमानाद्येषु प्रवर्तते ॥ १५५ ।। अन्येचुरल्पमूल्यानि पण्यान्यादाय तौ ततः। चलितो व्यवसायेन नगरे पाण्डुवर्द्धने ॥ १५६ ॥ वसुतेजा नृपस्तत्र नरं कश्चिदवञ्चकम् । कोशाध्यक्षं विधित्सुश्चाध्वनि स्वर्णाद्यचिक्षिपत् ॥ १५७ ॥ निजानाप्तनरांस्तत्र परीक्षायै नृपोऽमुचत् । वणिजौ पश्यतः कापि तौ पथि स्वर्णकुण्डलम् ॥ १५८ ॥ अहो ! स्वयंवरेयं श्रीरित्याख्यन् स तदभ्यगात् । वमुदत्तो निषिद्धश्चेतरेण ज्ञातदर्शनात् ॥ १५९ ॥ यथा स्वनगरे देवयशाही वणिजावुभौ । साधारणं व्यवसायं मिथस्तौ चक्रतुः सदा ॥ १६० ॥
00000000000000000000000000
॥३७॥
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वरितम्॥
थ्वीचन्द्र
000000000
नादत्तेऽदत्तमन्यस्य देवाख्यस्तत्र कस्यचित् । अन्यस्य नियमो नास्ति परस्वग्रहणे पुनः ॥ १६१ ॥ अन्यदा तौ बहिर्यान्तौ पश्यतः पथि भूषणम् । अदत्ताद् विरतो देवो नेक्षाञ्चक्रेऽपि तद् दृशा ॥१६२॥ तल्लज्जया यशोऽप्येष तदानीमवधीर्य तत् । मार्गान्तरेण गत्वा च गृहीत्वाऽगोपयद् गृहे ॥ १६३ ॥ दध्यौ स च महात्माऽयमलुब्धो यः परश्रियाम् । तथाऽप्यहं करिष्यामि साधारणमिदं मिथः ॥ १६४ ॥ यशस्तद्भूषणस्वनाक्रोणात् पण्यं पुरान्तरात् । पश्यनायव्ययं देवो वीक्ष्य पण्यं महच्च तत् ।। १६५ ॥ यशं पप्रच्छ वितथोत्तरं कुर्वस्तदाऽथ सः। निर्बन्धे प्रोक्तवान् सत्यं देवस्तत् स्वधनाधिकम् ॥ १६६ ॥ पृथक चक्रे तदाऽनैषीद् यशोऽपि निजसअनि । तत् तस्यापहृतं सर्व निशि तस्यां मलिम्लुचैः ॥१६७॥ (युग्मम् ). देवोऽवोचत् सखे ! स्तन्याहृतं वस्तु न तिष्ठति । कुरु तद्विरतिं तस्मादुरीचक्रे यशोऽपि तत् ॥ १६८ ॥ तदा देशान्तरायातवणिग्भ्यो ददतुश्च तौ । तत् पण्यं द्विगुणो लाभः समभूत् सत्वरं तयोः ।। १६९ ॥ परस्वविरतो न्यायनिरतौ तौ ततः परम् । जने देवयशाहो तो यशः श्रियमवापतुः ॥ १७० ।। तदित्थं भोः ! नयेनैव बुधैः कार्य धनार्जनम् । किमायतौ विरसया सखे ! परधनेच्छया ॥ १७१ ।। तदनाकर्णितमिव वसुदत्तोऽपि संसृजन् । गृहंस्तत् कुण्डल बद्धो झटित्येव स तैभर्टः ॥ १७२ ।। हृतं तैः सकलं पण्यं मातृदत्तो विवादभाक । भणितस्तैर्भटैर्भद्र ! मा विषोदैहि पर्षदि ॥ १७३ ।।
00000000000000000
0 00000000
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0000000000000000000000000
सत्त्वेन तेऽमुना भूपः प्रसादं दाग विधास्यति । सोऽवग् वरमिदं सर्वमादत्ता, तु मुश्चत ॥ १७४ ॥ सहध्वमपराधं नौ ग्राम्यौ विद्वो न किश्चन । सभायां भूपतेः कार्य सुभटाः ! नु किमारयोः ॥१७॥ तद्विरा वसुदत्तं ते मुक्त्वा तं मातृदत्तकम् । अनैषुश्च सविनयं भूत्या भूपतिसंसदम् ॥ १७६ ॥ निवेदितस्तैर्वृत्तान्तस्तस्य भूपोऽपि पृष्टवान् । मातृदत्तं कुतो भद ! निरीहस्त्वं परश्रियाम् ? ॥ १७७ ।। सोऽप्याचख्यौ स्वनियमं भूपोऽस्मै मुदितस्त्वदा । कोशाध्यक्षपदं वृत्तिं व्यधाचातिगरीयसीम् ॥१७८॥ राजमान्यो महर्द्धिश्च जज्ञेऽसौ संमतो जने । कालेन मृत्वा चन्द्राभापुर्या पुण्यानुभावतः ॥ १७९ ॥ पुरन्दरमहेभ्यस्य सतीभार्यातनूद्रतः। सिद्धदत्ताहयः प्राज्ञः कलाबा विश्रुतोऽभवत् ॥ १८० ॥ (युग्मम् ). इतः स वमुदत्तोऽपि तथा कूटतुलादिना। दुराजीविकया मृत्वा कालेन विधियोगतः ॥ १८१ ॥ बङ्गालसन्निवेशऽभूत् कपिलाहो द्विजाङ्गजः । पितरौ निधनं प्राप्तौ तस्याभाग्यनियोगतः ॥ १८२ ।। (युग्मम् ). क्रमात् क्षीणपितृधनं स्वजनाः पर्यणाययन् । कस्यापि दुर्विधस्याएं कन्यां रूपादिदूषिताम् ॥ १८३ ।। निर्भय॑मानो गेहिन्या दौस्थ्याद् देशान्तरंगाः श्रिये कुकर्मभिः क्लिश्यन्नुक्तः कार्पटिकेन सः ॥१८॥ धनार्थी यदि तद् गच्छ चन्द्रामापुरि देवताम् । आराधयाशाकरणी द्रुतं येनेष्टमाप्नुयाः ॥ १८५ ।। श्रुत्वेति गत्वा तत्रासौ शुचिरेकाग्रमानसः । न्यषीदत पुरतो देव्याः कुशसंस्तारकोपरि ॥ १८६ ॥
00000000000000000000000000
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
थ्वी चन्द्र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
॥
तृतीयस्यां निशि प्रोक्तो देव्योत्तिष्ठांसि किं स्थितः ? । सोऽवग् याचे धनं देवी प्राह किं देवमस्ति ते ? पुनस्तां वाडवोsवोचत् प्राणांस्त्यक्ष्यामि तन्निजान् । तवैव देवि ! भवने लप्स्ये न स्वेप्सितं यदि देवी तनिश्वयं ज्ञात्वादत्तिष्ठाऽस्ति पुस्तकम् । विक्रीय तत् पञ्चशतीं लप्स्यसे स तथा व्यधात् ॥ भ्राम्यंस्तद्विक्रयायागात् सिद्धदत्तस्य सन्निधौ । स द्विजन्मा पुस्तकं तत् तस्यादर्शयदुत्सुकः ॥ १९० ॥ मूल्ये प्रोक्ते सिद्धदत्तोऽवाचयत् तत् सकौतुकम् । आदौ वृत्तस्य पाद चापश्यदेतं हि तद् यथा ॥ १९९॥ " प्राप्तव्यमर्थं लभते मनुष्यः " इति ।
तदर्थं परिभाव्यैष गृहीत्वा पुस्तकं ददौ । तस्मै पञ्चशतीं सोऽप्यादायागात् स्त्रपुरं प्रति । १९२ ॥ आगच्छन्नन्तरा भिल्लैर्नीत्वा बन्दीकृतश्चिरम् । कदर्थयित्वा मुक्तश्च क्लेशादापनिजं पुरम् ॥ १९३ ।। इतश्च सिद्धदत्तोऽपि पित्रा पञ्चशतीव्ययात् । रुष्टेन पुस्तकयुतो निरकाशि स्वमन्दिरात् ।। १९४ ।। निर्गतो निशि सिद्धोऽपि पिहिते पुरगोपुरे । जीर्णदेवकुले सुप्तस्तत् पयं हृद्यचिन्तयत् ।। १९५ ।। तस्यां पुर्यामथो भूपमन्त्रिश्रेष्ठिपुरोधसाम् । मिथः प्रेमपराः कन्या आलपन्नन्यदेति ताः ॥ १९६ ॥ बालभावादियत्कालमभूत् संयोगजं हि नः। शर्मेदानीं भविष्यामस्तारुण्ये विरहातुराः || १९७ || अथ भूपतिपुत्र्याख्यत् सख्यः ! शृणुत मन्दिरम् । यावत् केभ्योऽपि नो दद्युः पितरोऽद्यापि नोचताः || १९८ ||
For Private and Personal Use Only
१८७ ॥
१८८ ॥
१८९ ॥
चरितम् ॥
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तावत् कुर्मो विवोढारं सर्वाः संभूय कञ्चन । यथा न नो वियोगाग्निर्दहत्येव हृदि स्थितः ॥ १९९ ॥ ( युग्मम् ) तथेत्यङ्गीकृते ताभिराह्नाय्य नृपकन्यया । राजपुत्रः कोऽपि जात्यो विज्ञप्तो भर्त्तताविधौ ॥ २०० ॥ यावन्न स्वीकरोत्येष तावत् ताः स्ववधोद्यताः । भयात् सोऽपि प्रपेदे तत् स्त्रीभिः कस्को न वाह्यते ? || २०१ ॥ श्वेताष्टम्यां निशि स्वामिन्! जीर्णदेवकुले त्वया । चतुरेण चतस्रोऽपि विवाह्याः कन्यका वयम् ।। २०२ ।। इत्युक्तस्ताभिरेषोऽपि चिन्ता सागरमग्रहृत् । निरूपितदिनेऽस्मिन् सोऽचिन्तयच्चेति चतसि ॥ २०३ ॥ स्वामिद्रोहेण समल कुलं कुर्वे कथं निजम् । विमृश्येति पुरात् सायं निरीहो निर्ययौ जवात् ॥ २०४ ॥ आगाद् राजसुताऽऽदत्तविवाहोपस्करा निशि । देवौको वीक्ष्य सुप्तं तं सिद्धपुत्रं च साऽवदत् ॥ २०५ ॥ fi देव ! निश्चितता सुप्तोऽसीति विबोध्य तम् । गान्धर्वेण विवाहेनाकारयत् पाणिपीडनम् ॥ २०६ ॥ नृपपुत्र्याह मे नाथापूरयस्त्वं यथेप्सितम् । तिसृणामपि कन्यानां पूरणीयं तथाऽर्थितम् ॥ २०७ ॥ क पुनर्वाहनं येन गम्यतेऽन्यत्र संप्रति । सोऽवग् भावीष्टमखिलं श्रान्तो निद्रामि संप्रति ॥ २०८ ॥ स्यान्नायं किं स इत्याशङ्का यावद् व्यलोकयत् । तं राजतनया तत्र प्रदीपोद्योतनात् तदा ॥ २०९ ॥ सुरूपं सुभगं वीक्ष्य तं च तत्पुस्तकं च सा । संवाच्य वृत्तपादं तं सत्यमित्यालपन्त्यसौ || २१० ॥ तिसृणामपि जामीनामथ प्रत्ययहेतवे । कज्जलेन द्वितीयं तत्पादमित्थं च साऽलिखत् ॥ २११ ॥
For Private and Personal Use Only
॥३९॥
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
पृथ्वीचन्द्रा
वरितम
OROCCOROPORGOOOOOOOOOSE
यथा-"किं कारणं दैवमलकुनीयम् ।" राजपुत्री निजावासमगाद् यामे द्वितीयके । अथागान्मन्त्रिपुत्री साऽप्युदवाक्षीत् तथैव तम् ॥ २१२ ॥ तथैव पुस्तके पादं तृतीयमलिखच्च सा।। - यथा-" तस्मान्न शोचामि न विस्मयो मे"।
गता सापि निजावासं कृतार्था मन्त्रिणः सुता ॥ २१३ ॥ विवाद्य तं तथैवासौ पुस्तकं वीक्ष्य विस्मिता । यामे तृतीये तुर्य चालिखत् तं श्रेष्टिपुत्र्यपि ॥ २१४ ॥
यथा-" यदस्मदीयं नहि तत् परेषाम्"॥१॥ गता सा तुर्ययामेऽथ पुरोहितसुता पुनः । अलिखद् विदितश्लोका श्लोकमित्युल्लसन्मतिः ॥ २१५ ॥ व्यवसायं दधात्यन्यः फलमन्येन भुज्यते । पर्याप्तं व्यवसायेन प्रमाणं विधिरेव नः ॥ २१६ ॥ ताश्चतस्रोऽपि वृत्तान्तं निजागःशङ्कया च तम् । प्रागेव स्वस्वमातृभ्योऽशंसन् विनयतो नताः ॥२१७|| ता अप्यूचुः स्वभतृभ्यस्ततः प्रातर्न लप्स्यते । पथिकोऽयमिति प्रेष्याक तमानाययपः ॥ २१८ ॥ इतः पुरन्दरो रात्रौ तमन्विष्याखिले पुरे । प्राप्तोदन्तस्ततः प्रातर्नृपोपान्तमुपागमत् ॥ २१९ ॥ तुष्टाः सर्वेऽपि तं वीक्ष्य तत्पुण्याधिक्यविस्मिताः ग्रामपञ्चशती भूपोऽप्यदात् तस्मै करग्रहे ॥ २२० ।
DOGCOGOOOOOOOO0000000000€
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवमेष सुखसंपदुपेतं जीवितं समनुपाल्य गुरुभ्यः । प्राग्भवीयचरितं विनिशम्यादाय संयममवाप शिवं च ।। २२१ ।। वाडवोऽपि कपिलो गृहचिन्ताभ्रष्टधर्मविभवो विगताशः। भ्रान्तवान् गुरुचतुर्गतिपूच्चैः प्राप्नुवन् जननमृत्युशतानि ।। २२२ ॥ इत्थं तृतीयव्रतपालनेन श्रीसिद्धदत्तः समवाप सौख्यम् । तद्वैपरीत्येन दुरन्तदुःखमवाप नित्यं कपिलो द्विजन्मा ॥ २२३ ।।
इति तृतीयाणुव्रते सिद्धदत्तकपिलकथा । मत्वेत्यदत्तविरताविरतानां गुणागुणान् । पालनीयं प्रयत्नेन तत् तृतीयमणुव्रतम् ॥ २२४ ॥ श्रुत्वेति दयिताः पोचुर्मम ता भगवन्निदम् । अस्माभिरपि नादेयमदत्तं जातु कस्यचित् ॥ २२५ ॥ स्वसबगतमप्येतत् पतिदृग्वश्चनेन च । अणु वा बहु वाग्दत्तं नादास्यामो ह्यतः परम् ॥ २२६ ।। श्रुत्वेत्यहं हितकरं ममैतद् विमाश्य । अस्तमन्युः क्रमाद् यष्टी द्वे द्वे दास्ये मुमुक्षवे ॥ २२७ ।। ध्यायन्निति स्थितो यावदस्मि तत्रैव निश्चलः । स मुनिाहरत् तावद् वर्य तुर्यमणुव्रतम् ॥ २२८॥ (युग्मम् ). सच्छीलधारिणीनां स्त्रीणां विषविषवराग्निपैरिगणाः । न प्रभवन्ति पायो वशीभवेद् दैवतगणोऽपि ॥ २२९ ॥
@codeCOSO0600000000000CCC€
॥४०॥
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वीचन्द्र
00000
00000000
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शीलभ्रष्टानां पुनरित्र कर्णौष्ठनासिकाच्छेदः । धनबन्धुविनयोगः स्यादयशश्चापि जन्तूनाम् ॥ २३० ॥ सच्छीलपालनादिह सुखमापच्छीलसुन्दरी नारी । दुर्ललितास्तु कुशीलाः पेतुः संसारकान्तारे ॥२३१॥ विदेहेऽत्रैव विजये पुरे विजयवर्द्धने । वसुपगलाभिधः श्रेष्ठी वसुमाला च तत्प्रिया ।। २३२ ।। रूपलावण्यशीलादिगुणालङ्कारभूषिता । सुन्दरीति तयोर्नाम्ना सुताऽभूत् परमाहती ॥ २३३ ॥ तरुणैः प्रार्ध्यमानापि सा तारुण्यमधिश्रिता । ददे पित्रा सुभद्राख्यश्रावकायैव तत्पुरि ॥ २३४ ॥ अन्य द्वौ वणिक्पुत्रपुत्रावुभावपि । सुन्दर्या रूपमाहात्म्यं श्रुत्वा चत्वार एव ते ।। २३५ ॥ एकाग्रमनसेो भूत्वा सुन्दरीसङ्गमिच्छनः । कुर्वन्ति विविधोपायान् कलाकेलिवशंवदाः ॥ २३६ ॥ ( युग्मम् ). -विहिताद्भुतशृङ्गारास्ते तिष्ठन्ति तदध्वनि । विचित्रा: प्राहुरन्योक्तीगीतं गायन्ति मञ्जुलम् || २३७ ॥ इत्थं विविधवेष्टाभिरपि ज्ञाततदाशया । शीललीलावती सुन्दर्यपश्यन्न दृशापि तान् ॥ २३८ ॥ ततो मोघमामी । कामपि तापसीम् । वशीकृत्य प्रजिघ्युक् सुन्दरीनिकटेऽन्यदा || २३९ || बहुपसर्पन्ती सा तद्वेश्मनि तापसी । सम्यग्दृशा दृशाऽप्येषा न सुन्दर्या विलोकिता ॥ २४० ॥ तथाऽपि दृष्टया भाणि परिव्राजिकयाऽन्यदा । सुन्दरी सखि ! विज्ञाऽसि तथाऽपि शृणु मद्वचः || २४१ ॥ जिनैर्निगदितः सर्वामतां दयाविधानेन । तद् दुःखितेषु सुन्दरि ! कुरु तेषु दयां प्रयत्नेन ||२४२ ||
For Private and Personal Use Only
चरितम्
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
9601000003036
www.kobatirth.org
॥
ततः श्रुत्वेति सुन्दर्या सख्याचख्ये हला ! इदम् । महापातकमुचैर्यत् प्रतिपन्नत्रता अपि वितरन्ति परेषां ये पापबुद्धिं गतत्रपाः । क्षिपन्ति परमात्मानमपि ते चोग्रदुर्गतौ ॥ श्रुत्वेति तापसी ज्ञानश्वया तानदोऽवदत् । चेज्जिजीविषत्रो यूयं तदमुं मुञ्चताग्रहम् ॥ तथाऽपि ते त्यक्तकदाग्रहग्रहा आराधयन् कञ्चन मन्त्रवेदिनम् ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२४३ ॥
२४४ ॥ ( युग्मम् ).
२४५ ॥
स तानयो कृष्णचतुर्दशीनिशि प्रेतौकसि प्रापयदुल्लसत्कुधीः ॥ २४६ ॥ तत्र मण्डलमालिख्य विहितैकाग्रमानसः । जजाप मन्त्रसिद्धोऽसौ विधिवन्मन्त्रदेवताम् || २४७ ॥ तन्मन्त्राचिन्त्यमाहात्म्यादथ सा कृतपौषधा । सुप्ता तत्र समानिन्ये मन्त्रसिद्धेन सुन्दरी ॥ २४८ ॥ सुन्दर्यास्तत्तथा तेजोऽसहमाना महाधियः । आः किमीदृक्पापकर्मण्यभियुक्तास्मि संप्रति ॥ २४९ ॥ मुहुर्मुहुर्मन्त्रसिद्धं वदन्तीति पुरः स्थिता । तदा कोपकरालाक्षी तिरोऽधान्मन्त्रदेवता ॥ २५० ॥ ( युग्मम् ). सुन्दरी दीपिकोद्यतात् पश्यन्ती सर्वतो वनम् | हा किमेतदिति प्राप्तविस्मयोद्धान्तलोचना ।। २५१ ॥ नमस्कृतिस्मृतिपरा यावत् तिष्ठति तत्र सा । तावत्तांश्चतुरो मन्त्रसिद्धोऽवादीन्मुदान्वितः ॥ २५२ ॥ ( युग्मम् ). भोः ! आनीतास्त्यसौ युष्मद्दयिता विद्यया मया । अथ यद्रोचते वस्तत् कुरुत प्रथितादराः || २५३ ॥ मिथस्तेऽप्यवदन् योऽत्र प्रागमूं स्मक्ष्यति प्रियाम् । आदौ रन्ता स एवेति कृतसङ्केतनिश्चयाः ॥ २५४ ॥
॥ ४१
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
थ्वीचन्द्र
चरितम्।
दवीक्ष्य सुन्दरीम्। ता पाभियं मन्त्र सिद्धानपुराङ्गनाः ।
DOCG00000OOOOGO000000OOOO
सञातसुरताशांस्तान् सुन्दरीमभिधावतः । ज्ञाततच्छीलमाहात्म्याऽस्तभ्नात् काननदेवता ॥ २५५ ॥ मन्त्रसिद्धोऽथ तान् काष्टप्रायान् वीक्ष्य भय द्रुतः । गृहीत्वा सुन्दरीपादौ विनयेन व्यजिज्ञपत् ॥ २५६ ॥ महासति ! मया ज्ञातं त्वन्माहात्म्यं नहीदृशम् । तेनेदं विहितं भूयः करिष्ये न कदाप्यदः ॥ २५७ ॥ क्षमस्वागोऽभयं देहि ममेत्यालपतोऽपि च । अलब्धप्रतिवाक्यस्य विभातेयं विभावरी ॥ २५८ ॥ सपौरः शूरभूपोऽपि तत्रागाद् वीक्ष्य सुन्दरीम्। तांस्तथास्थांश्च पप्रच्छ न त दुर्ललिता जगुः ॥ २५९ ।। सुन्दर्यपि न वेग्रीति जल्पन्त्यस्थात् त्रपानता। तावत् प्रार्थ्याभयं मन्त्रसिद्धस्तत्वार्थमृचिवान् ॥ २६ ॥ नृपः पापात्मनः ताश्चाक्षिपञ्चारकवेश्मनि । ऊचे सिद्धं च हा पापिन् ! ममाप्यन्तःपुराङ्गनाः ॥ २६१ ॥ हरिष्यसीति दण्डा)ऽप्यभयं श्रावितोऽसि यत् । तन्मुक्तोऽसीति निर्भय॑ नृपस्तं निरवासयत् ॥२६२॥ (युग्मम् ). न्यपतद् नृपतिस्तत्र सपौरः सुन्दरीपदोः । वसुपालोऽपि तत्रागाच्छ्रेष्ठी श्रेष्ठचरित्रभृत् ॥ २६३ ॥ नृपः करेणुमारोह्य पुरी प्रावेशयच्च ताम् । प्रसिद्धा तत्मभृत्यासीत् सा जने शीलसुन्दरी ॥ २६४ ।। इति निष्कलङ्कशीलं प्रपाल्य सा शीलसुन्दरी प्रान्ते । प्राप्य सुरलोकलीलामशीलयत् सौख्यलक्षाणि ॥ २६५ ॥ इतरे कृतसवस्वापहाराश्चारकौकसि । चिरं संक्लिश्य मृत्वाऽगुः पृथिवीं शर्कराप्रभाम् ॥ २६६ ॥
0000000000000000000ODoes
For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0000000000000000000000000
शीलवतापालनपालनेषु दोषान् गुणांश्चापि विभाव्य सम्यक । गुरूपदेशाद् जगृहुः स्त्रियस्ताः परस्य पुंसो नियमं तदानीम् ॥ २६७ ॥
इति चतुर्थव्रते शीलसुन्दरीकथानकम् ॥ श्रुत्वेत्यहमपि हितकरमेतन्मे यत्प्रशान्त ईर्ष्याग्निः। जाता परा च नितिरधुना तयष्टिमेकैकाम् ॥२६८॥ दास्यामि मुनिवरायेति चिन्तयन् यावदस्मि तत्रस्थः । तावन्मुनिरप्यगदत् परिग्रहप्रमितिनियममसौ॥२६९॥ (युग्मम् ). परिग्रहस्य ये धीराः प्रमाणं हि वितन्वते । भवाब्धिरपि तेषां स्यात् प्रमितः सुकृतात्मनाम् ॥ २७० ॥ नवधा धनधान्यादावल्पीयसि परिग्रहे । चिन्ताऽल्पैव हि सा गुर्वी भवेत् तस्मिन् गरीयसि ॥ २७१ ॥ भूयो मज्जेद्भवाम्भोधौ लोभभाराभिभूतहृत् । संतोषामृतसिक्तानां दूरं दुःखानलो व्रजेत् ।। २७२ ॥ परिग्रहानिवृत्तास्तु क्लशायासाननेकधा । सहन्ते शीतवातोष्णक्षुत्तृट्पीडादिसंभवान् ॥ २७३ ॥ कृतेच्छापरिमाणो हि गुणाकर इवोदयम् । लभते चेतरो दुःखं वणिग्गुणधरो यथा ।। २७४ ।। जयस्थलाह्वये ग्रामे वणिजौ भ्रातराविह। उभौ विष्टसुविष्टाहावभूतां स्नेहलौ मिथः ।। २७५ ॥ ज्येष्ठो विष्टो जनेऽनिष्टो व्यवहारपराङ्मुखः । न सत्करोति स्वजनानातिथीन च दुःखितान् ॥२७६॥ सहतेऽहर्निशं क्लेशं विभवार्जनहेतवे । निन्धमानोऽर्थिभिः कालं गमयत्यतिदुःखितः ॥ २७७ ॥
ttcccccccccccccc
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वी चन्द्र
www.kobatirth.org
सुविष्टः पुनरौचित्यवृत्तिः सर्वत्र बुद्धिमान् । पूरयेत् कल्पशाखीव स्वजनार्थिजनार्थितम् ॥ २७८ ॥ क्षमर्षिरन्यदा तेन प्रत्यलाभि गृहागतः । मनोज्ञाशनपानाद्यैर्बहुमानपुरःसरम् ॥ २७९ ॥ भोगभूमिमनुष्यायुर्निबद्धं तेन तत्र च । विहस्येषत्पुनर्विष्टश्चिन्तयामास मानसे ॥ २८० ॥ व्यवसायाक्षमा एते अहो! पाखण्डिनोऽन्वहम् । मुष्णन्ति परधिष्ण्यानि तेभ्यो दत्तेन किं सुधा ॥२८१ ॥ इति दानान्तराय स नीचैर्गोत्रं च बद्धवान् । पप्रच्छ विष्टो दृष्ट्वामूनन्यदा खन्यवादिनः ॥ २८२ ॥ अवोचंस्ते गिरेरस्य नितम्बेऽस्ति महानिधिः । परं तग्रहणे नास्ति सामग्री नः कियत्यपि ॥ २८३ ॥ विष्टोऽवक् तामहं सद्यः प्रापयिष्येऽथ तेऽवदन् । यद्येवं तद्वयं भागं दास्यामस्ते यथोचितम् || २८४ ॥ निश्चित्येति प्रशस्तेऽह्नि विष्टो वित्तव्ययेन सः । बलिपूजादिसामग्रीमध्यव्यग्रमना व्यधात् ॥ २८५ ॥ ततो गतो नितम्बेऽद्रेः समं तैः खन्यवादिभिः । दर्शितस्तैः पलाशस्य पादस्तस्मै भुवं गतः ॥ २८६ ॥ उक्तं च न स्यादक्षीरवृक्षस्य प्ररोहो विभवं विना | बद्दल्पं वा भवेद् द्रव्य ध्रुवं बिलपलाशयोः ॥ २८७ ॥ तद्दृष्ट्वा विष्ट आचष्ट स्पष्टमेतानदुष्टधीः । प्राप्तो निधिः परं स्वर्णमण्यादि स्यात् किमत्र भोः ! ॥ asarचंद्रमः पादाद्रको निर्याति तद् ध्रुवम् । मणयः काञ्चनं पीते श्वेते श्वेतं तु लभ्यते ॥ पादच्छेदे रसं रक्तं ज्ञात्वा पूजोपहारतः । तुष्टैः कृष्टो निधिस्तैश्वादिष्टो विष्टो निजेष्टकृत् ॥
२८८ ॥
For Private and Personal Use Only
२८९ ॥
२९० ॥
Acharya Shri Kailassagarsuri Gyanmandir
3000000
चरितम
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0000000000000000000000000€
आनयामो नयामो यन्निधि निशि तवौकसि । लुब्धहृत् मुग्धधीश्वैष तदर्थमगमत् पुरम् ॥ २९१ ॥ परेऽपि रत्नान्यादाय पलायाश्चक्रिरे रयात् । विष्टस्तत्रागतस्ताननीक्षमाणो विषादभाक् ॥ २९२ ।। पपात मच्छितः पृथ्व्यां भूपोऽपि तदवेत्य तम् । भृत्यैरानाय्य सर्वस्वापहाराद् निरवासयत् ॥ २९३ ॥ ततोऽप्युन्मादवान् कश्चित् कालं स्थित्वा मृतस्ततः । सारमेयोऽभवच्चाऽथ वृषभुर्मदोषतः ॥ २९४ ॥ विशन् महानसं सूपकृता सोऽपि हतस्ततः । अभूद् दरिद्रमातङ्गो मृत्वा रत्नप्रभामगात् ॥ २९५ ॥ न्यायनिष्ठः सुविष्टस्तु त्रिवर्गमनुपालयन् । मृत्वोत्तरकुरौ जातो युग्मजन्मा नरोत्तमः ।। २९६ ।। देवदितल्यं तत्रापि सुखं भुक्त्वा गतो दिवम् । ततश्युत्वाऽत्र विजये ग्रामे जयस्थलाभिधे ॥ २९७ ॥ बणिजः पादेवस्य देवकीकुक्षिसंभवः । नाम्ना गुणाकरः पुत्रो जातोऽशेषगुणाकरः ॥ २९८ ॥ (युग्मम् ). इतश्च विष्टजीवोऽसावुद्धत्य नरकात्ततः । धनञ्जयस्य वणिजो जयाजायासमुद्भवः ।। २९९ ।। पुत्रो गुणधराभिख्यः प्राग्भवप्रेमवारिणा। सिक्ता वृद्धिमती चासीत् तयोः प्रीतिलता मिथः ॥ ३०० ॥ (युग्मम् ). अन्यदा जाततारुण्यौ तौ धनार्जनतत्परो । उद्याने धर्मदेवाख्यमृर्षि गत्वा प्रणेमतुः ॥ ३०१॥ पप्रच्छतुर्धनोपायमनगारं च तो तदा । सोऽप्याख्यद् धर्म एवैकः स्याद् धनार्जनकारणम् ॥ ३०२ ॥ यद्यपि कृतसुकृतभरः प्रयाति गिरिकन्दरान्तरेषु नरः। करकलितदीपकलिका तथापि लक्ष्मीस्तमनुसरति ॥३०॥
"0000000000000000000000000
॥४३॥
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DOO
बीचन्द्रा
IQचरितम् ॥
-
000000000000000000000000
तथा च-अकृतसुकृतस्य न सुखान्यतप्ततपसो न चेष्टसिद्धिश्च । नाशीलवतो महिमा नहि मोक्षो मृढहृदयस्य ॥३०४॥ अन्यच्च-लोभाभिभूतपुरुषः सत्यपि विभवे न तोषमुपयाति । दत्वा चरणौ धनिनां च शिरसि शेते प्रसन्तुष्टः ॥३०॥
उपर्युपरि संपश्यन्निन्द्रोऽपि द्रमकायते । सन्तोषामृतसिक्तात्मा रङ्कोऽपि श्रीपतीयति ॥ ३०६ ॥ शक्यते सर्वथा नो चेन्मोक्तुं धान्यधनादिकम् । पुण्यवद्भिस्तथापीच्छापरिमाणं विधीयते ॥ ३०७ ॥ श्रुखेति शुद्धसम्यक्त्वप्रतिपत्तिपुरस्सरम् । गुणाकरोऽग्रहीदिच्छापरिमाणं मुनेगिरा ॥ ३०८ ॥ इतरोऽश्रद्दधानस्तन्नानुमेनेऽपि चेतसा । भूरिलोभाभिभूतः स दध्यौ गुणधरोऽप्यथ ॥ ३०९॥ मन्यते कृतकृत्यं स्वमल्पीयस्या श्रियापि यः। क्रुद्धो विधिस्तदधिको तस्मै दत्ते नहि श्रियम् ॥ ३१० ॥ तथ्यमिदमन्यथा कथमद्भुतभुजवीर्यशालिनोऽप्यस्य । त्वरितं मनोमनोरथ इह सङ्कुचितोऽधुना नियतम् ॥३१२॥ एवं तौ सदसद्भावैर्मुनि नत्वा गतौ गृहम् । गुणाकरमनापृच्छयान्यदा गुणधरस्तु सः ॥ ३१२ ।। आदायागण्यपण्यानि गत्वा देशान्तराण्यसौ। उपाय॑ भूरिविभवं निवृत्तः स्वगृहं प्रति ॥ ३१३ ॥ प्राप्तो महाटवीं तावदज्वलद् ज्वलनो वने । नेशुर्भियाऽभितो भृत्या भस्मीभूतान्यनांसि च ॥ ३१४ ॥ नष्टः कथमपि क्षुत्तृट्पीडातः सप्तरात्रतः । ग्रामं कमप्यगात् तत्र ददृशे लिङ्गिनाऽन्यदा ॥ ३१५ ॥ नीला निजालयं तेन प्राणवृत्तिं च कारितः । ज्ञातवृत्तेन चानायि नितम्बे कस्यचिद् गिरेः ॥ ३१६ ॥
DHOOOOOOOOOOOOG
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
00000000000000000000000000
दर्शयित्वौषधीं काश्चिद् भणितो लक्षयस्व भोः! । एतां संपति यद् रात्रौ ग्राहयामि त्वयाऽनघ ! ॥ ३१७ ॥ लिङ्गिना पुनरूचेऽसौ निशि भोस्तां महौषधीम् । ज्वलन्ती सर्वतो वीक्ष्य दीपदीपशिखामिव ॥ ३२८ ॥ गृहीत्वा वामहस्तेन छित्त्वा चैतामुपर्यधः । दृढमुष्टितया पृष्ठे त्यजन् दृष्टिं त्वमेहि भोः ! ॥ ३१९ ॥ (युग्मम् ) कुर्वे येनादरिद्रं त्वां प्रतिपद्येति तद्वचः। औषधीं विधिवल्लात्वा प्रत्यागच्छन्नथ द्रुतम् ॥ ३२० ॥ गिरिशृङ्गपतहावखटत्काररवेण च । सहसाऽऽलोकयत्पृष्ठे तावन्नष्टौषधी करात् ॥ ३२१॥ (युग्मम् ) निवेदितश्च वृत्तान्तो यथास्थस्तेन लिङ्गिनः। सोऽवम् भद्रास्ति सत्वं ते न पुनः पुण्यमश्चयः ॥ ३२२ ॥ तद् भोः ब्रज निजं स्थानं भज सन्तोषमञ्जसा । तद्रिं सोऽवधार्याथामिलत् कस्यापि लिङ्गिनः ॥३२३॥ सोऽपि माह कापि वत्स ! रक्तक्षीरस्नुहीतरुम् । विलोकय च्छिनयेष दाग्गिं येन तत्क्षणात् ॥३२४॥ लब्धस्तेन स्नुहिस्ताहक ज्वालितो लिङ्गिनाऽग्निना । क्षिप्तो गुणधरस्तत्र प्रसह्येव हि तेन सः ॥ ३२५ ॥ निरगात् स लघुत्वेन तं प्रक्षेप्तुमथोद्यतः । एवं तयोर्विरोधे चागमत् तत्र नृपाङ्गजः ॥ ३२६ ॥ ज्ञातवृत्तो गुणधरात् स कुमारोऽपि कौतुकात् । अक्षिपल्लिङ्गिनं तत्र सातः स्वर्णपूरुषः ॥ ३२७ ॥ जग्राह तं नृपसुतो दत्त्वा किमपि काश्चनम् । विसृष्टोऽसौ गुणधरश्चलितः स्वपुरं प्रति ॥ ३२८ ॥ अमिलत् पथि कोऽप्यस्य मन्त्रसिद्धो महानरः। गोष्ठी मिष्टां मिथस्तौ द्वौ कुर्वन्तौ कापि तस्थतुः ॥३२९॥
900000000000000000000000
॥४-४1
-
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीचन्द्र
चरितम्।
00000000000000000000000000
मन्त्रानीतोदकाद्यैस्तत्र भुक्तावुभा अपि । पप्रच्छ सिद्धं स वणिक कुतो वः शक्तिरीदृशी ? ॥३३०॥ सोऽवग वेतालमन्त्रं मे कोऽपि कापालिको ह्यदात् । तत्पभावेन सर्वाऽपि लक्ष्मी येत देहिनाम् ॥३३॥ वेतालमन्त्रं तं तस्मात् स जग्राह वणिग्वरः । निश्चक्राम च ततोऽस्थात् सुखं स्वमातुलौकसि ॥३३२॥ अन्यदा कृष्णभूतेष्टानिशि प्रेतवने स च । ययौ साधयितुं मन्त्रं चक्रे जापं कृताहुतिः ॥ ३३३ ॥ विभीषिकाभिः क्षुब्धस्य तस्य मन्त्रपदं तदा । विस्मृतं कुपितस्तावद् वेतालः कालवत् क्रुधा ॥ ३३४ ॥ हत्वा दण्डेन तं दूरमक्षिपत् सोऽथ मूञ्छितः । स्वस्थीकृत्य मातुलेन द्रुतं निन्ये जयस्थलम् ॥ ३३५ ।। हस्यमानो जनस्तत्राभाग्यशेखर इत्यसौ । त्रपयाऽऽत्मानमुद्रध्य परामुत्वं गतोऽचिरात् ॥ ३३६ ॥
इति परिग्रहतोऽविरतोऽसको गुणधरो बहुलोभसमाकुलः ।
विविधमण्डलमण्डलमभ्रमन्त्र धनलेशमवाप सपापहृत् ॥ ३३७॥ गुणाकरः पुनः सोऽयं स्फुरत्तरगुणाकरः। नयार्जितश्रीः परमां प्रसिद्धि प्राप्तवान् भुवि ॥ ३३८ ॥ श्रुत्वा गुणधरस्याथ वृत्तान्तं तं तथाविधम् । विशेषादाप्तवैराग्यः प्रपाल्य तदणुव्रतम् ॥ ३३९ ।। त्रिदिवं प्रापदन्यस्तु वराको नारकादिषु । सञ्जातो दुःखलक्षाणां स्थानं गुणधरो वाणक ॥ ३४० ॥
इति पञ्चमाणुव्रते गुणाकरगुणधरकथा ।
ളരാളമായി
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
triển trí
000OOOOOOOOOOOOOOOOOOOOOO
श्रुत्वेति सम्यग् विरताविरतानां परिग्रहात् । गुणदोषांश्च जगृहुस्ता इच्छापमिति प्रियाः ॥ ३४१॥ अहं च हा मुधैतस्मिन्महाव्रतधरे मुनौ । विरूपं ध्यातवानित्युत्पन्नानुशयमानसः ॥ ३४२ ॥ पतितो मुनिपादेषु पापाभिप्रायमात्मनः । प्रकाश्य क्षमयित्वा च मुनिपं तं व्यजिज्ञपत् ॥ ३४३ ॥ ( युग्मम् ) भगवन् ! हास्यवाचाऽपि यद्विष्टेन सुदारुणम् । दुःखमाप्तमहं भावी तत् कथं द्वेषषितः ?॥ ३४४ ॥ सोत्साहं मुनिरप्याइ महापापमिदं खलु । यन्महर्षिषु विद्वेषचिन्तनं मनसाऽप्यहो ! ॥ ३४५ ॥
चारित्रमन्तरेणैतन्त्र च्छेत्तुं पार्यते बुधैः । भानवो भानवीया यत् क्षमा ध्वान्तान्तहेतवे ॥ ३४६ ॥ अन्यच्च-संसारासारतां सम्यग् विचारय विभावय । कामभोगांश्च विरसावसानाबिजमानसे ॥ ३४७ ॥
तद् भोः ! अशाश्वतासारसंसारमुखमुत्सृजन् । शाश्वतैकान्तसौख्यस्य निदानं श्रय संयमम् ॥ ३४८॥ श्रुत्वेत्यमृतमाधुर्यधुर्यो मुनिपतेर्गिरम् । क्षणान्मोहविष नष्टं प्रबुद्ध ज्ञानलोचनम् ॥ ३४९ ॥ ततः प्रणयिनीः सर्वाः प्रबोध्य शुभया गिरा। धर्मदेवगुरूपान्ते पावजं प्रेयसीयुतः ॥ ३५० ।। पादाब्जमूले तस्याहं तपस्यन्बनिशं क्रमात् । गुणसंपदमीक्षां तेन संपापितोऽधुना ॥ ३५१ ॥ नमोऽस्तु गुरवे तस्मै महिमाद्भुतसंविदे। अश्मोपमोऽपि येनाहं वन्दनीयः कृतो जने ॥ ३५२ ॥
tiên tiến
॥४६॥
For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरितम्॥
1000000000000000000000000
श्रुस्वेति सूरिचरितं नृपसिंहसेनश्चित्रीयमाणहृदयो मुनिदर्शनेन । पुण्यात्मनां प्रवरमभ्युपमन्यमानः स्वं संस्तुवंश्च मुनिपं विविधैर्वचोभिः ॥ ३५३ ॥ राज्यं वितीर्य तनयाय दिने प्रशस्त भावाम्बुशोधितपनोमलनिष्कलङ्कः।
त्यक्त्वाऽखिलां श्रियमिमां तृणवत्मपन्नश्चारित्ररत्नममलं शिवसौख्यमूलम् ॥ ३५४ ॥ भूपोऽपि पूर्णचन्द्रः सम्यक्त्वाणुव्रताधिगममुदितः । जनताः पाति पितेव प्रसृमरगुणभासुरः श्रीमान् ॥३५५॥ नमयति वैरिस्तोमं दमयति दुष्टान्नयावना युक्तः। पालयति दीननिकरं सुहृद्गणं चोपकुरुते यः ॥३५६॥ अथ पुष्पसुन्दरी देव्यपि सम्यक्त्वान्वितव्रताधिगमा।जिनवरवचनसुधारसहृतभवतृष्णा जयत्यनिशम् ॥३५७॥ पञ्चविधानिति विषयाननुभवतोरिह तयोः कियति काले।वीरोत्तराभिधोऽभूत् तनयो विनयोज्ज्वलः श्रीमान् ॥३५८॥ युवराज्ञि कृते तस्मिन् श्रुत्वा निर्वाणमथ पितुर्नृपतिः । हर्षविषादोपेतो विभावयामास मनसीति ॥ ३५९ ॥ धन्यो महानुभावो महामुनिर्मम पिता महासत्वः । सुखलालितोऽपि योऽसाधयत्तरां दुष्कर कार्यम् ॥ ३६० ॥ अहमेषकोऽल्पसवः पापासक्तस्तपःक्रियाऽशक्तः । विषयामिषप्रसक्तो जरामवाप्तोऽपि गततत्त्वः ॥ ३६१ ॥ जानामि यच्चला श्रीश्चलमायुर्दुःखहेतवः कामाः । नियतवियोगाः स्वजनास्तथापि धर्म प्रमाद्यामि ॥ ३६२ ॥ इति चिन्तावान् भणितः प्रियया कि देव! शोचनेनात्र सच्चोद्योगसहायाः पुरुषाः कार्योधता यत् स्युः ॥३६॥
CODBODOBO0000000000000000
For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ចចចចចច
तजहिहि राज्यचिन्तां ब्रह्मवतमाभजस्व निःशङ्कम् । सुरसुन्दराहसुगुरुावदिहायाति गुणसिन्धुः ॥३६४॥ साधृक्तमिति भणन् स्वाङ्गजाय राज्यं वितीर्य वर्यगुणः। त्यक्तसमस्तममत्वः सोऽस्थाद् गुरुसङ्गमाकाङ्क्षी ॥३६५॥
देव्यप्युदग्रतपसा किल भासुराङ्गी तस्थौ सुधर्मममलं परिपालयन्ती।
आकस्मिकी रुगथ जातवती नृपस्य दथ्यौ तदतिविधुरो तृपतिस्तदेति ॥ ३६६ ॥ धन्यास्ते ग्रामपुरारामास्तिष्ठन्ति येषु मे गुरवः । भावि किमहोऽपि तदहो! यत्र भजेऽहं गुरुपदान्जम् ॥३६७॥
विभावयन्नेष इति स्वचित्ते आयुःक्षयान्मुक्तकषायदम्भः । समाधिना मृत्युमवाप्य कल्पं संप्राप्तवानारणनामधेयम् ॥ ३६८ ॥ तत्रैव देव्यपि जगाम सुरत्वमेवमेकत्र तौ सुखमनुत्तरमन्वभूताम् ।
प्रेमानुबन्धरसिकौ विशदे विमाने पाक पुण्यसञ्चयाशाद् बहुसागराणि ॥ ३६९ ॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रचरिते पूर्णचन्द्रश्रमणोपासकचरितं
पञ्चमं भवग्रहणम् ।
000000000000000000000
||४९०
-
For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीचन्द्र
वस्तिम्
DES9999USED
ចំប៉ា
ថ្មី
Boooooooooooooooooooooooo
षष्ठो भवः।
--- -- पुण्यानुबन्धिपुण्यप्रभावतस्तावथो सुरद्धिसुखम् । भुक्त्वा च्युत्वा च ततो यत्रोत्पन्नौ शृणुत तदतः ॥ १॥ अस्ति विदेहजनपदे मिथिलापुर्या भुजौजसा सिंहः । नरसिंहनामनृपतिः स्वयशोभरधौतदिग्वलयः ॥ २॥ तस्याद्भुतगुणशाला सुकृतविशाला शिरीषसुकुमाला । देवी गुणमालाऽऽख्या चन्द्रकलानिर्मला बाला ॥३॥ परिपूर्णमहाभोगामपराक्रान्तां भुवं प्रणयिनी च । सममनुभवनसमय समयं तं वेद भूमीशः ॥ ४ ॥ भूपोऽन्यदाऽऽनपुंसा विज्ञप्तो देव ! यदिह पूर्वाप्याम् । पौरस्त्रीणां शुश्रावालापमहं जगादेति ॥५॥ जीयानरसिंहनृपोऽन्याऽऽख्यत् सखि! नैष भवति नरसिंहः। किन्तु नरजम्बुकोऽयं यदुदास्ते पुत्रहीनोऽपि ॥६॥ श्रुत्वेति चित्रवार्ता भूपोऽथापृच्छदङ्गजोपायम् । सचिवांस्तेऽप्याहुरिदं कश्चिद्योगीह देवोऽस्ति ॥ ७ ॥ स च साधको जनेष्टं दत्तेद्भुतडम्बरः स पुत्रार्थे । पृष्टव्यो भूपतिनाऽप्याहूतोऽयं सबहुमानम् ॥ ८ ॥ पृष्टश्च सविनयं भो ! योगिन्! सामर्थ्यमस्ति ते कीटकाईषद्विहस्य सोऽप्याचख्यो नृप कार्यमादिश मे ॥९॥
ៗថ្មីចថ្មីៗ
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किं नागवधूरथवा देववधूरानयामि वशमधुना ? । किं वाऽवनिं सार्णवां नयामि द्राक् तवाङ्घ्रितले ? ॥ १० ॥ गजवाजिवृन्दमथवा किं दूरादानयामि चान्यदपि ? । विषमं प्रयोजनं भण यत् संप्रति साधयाम्येषः ॥ ११ ॥ अवदद् नृपोऽपि योगिन्नानय नागाङ्गनां यदसि शक्तः । सोऽप्यानिनाय तामपि धृत्वा ध्यानं क्षणादेव || १२॥ सा योगिनः पुरस्तात् स्थिताऽऽख्यदादिश विभो ! प्रकुर्वे किम् ? । सोऽप्याचख्यौ कुरु नरवरस्य गिरमिति तदादिष्टा ॥१३॥ एत्य नृपमादिश विभो ! जल्पन्ती भाषितेति सा राज्ञा । का त्वं किमिहायाताऽसि ? वाऽत्र सावोचदिति तं च ॥ १४ ॥ नागेश्वरदयिताऽस्म्यहमादेशाद् योगिनोऽत्र चायाता । अथ विस्मितेन राज्ञाऽप्यसौ विसृष्टा तिरोधत ॥ १५ ॥ माहात्म्यमहो ! योगीन्द्र ! तेऽद्भुतं जल्पतेति भूपेन । ऊचे कार्य सोऽप्याख्यत् कृष्णचतुर्दशीरात्रौ ॥ १६ ॥ एकाक्येव सहायो भव येन ज्वालिनीं महाविद्याम् । आराध्य पुत्ररत्नं सर्वेष्टं दापये चान्यत् ॥ १७ ॥ मन्त्रिभिरूचे राजन् ! भव्य उपायस्तथापि नास्य मनाक् । विश्वस्तव्यं यदिह स्याच्चित्रचरित्रभृत् प्राणी || १८ || प्रतिपद्य मन्त्रिवचनं तदुपान्ते निश्चितेऽह्नि निशि भूपः । प्राप्तोऽसियुक् श्मशानं योग्यपि तत्रागतश्च तदा ॥ १९ ॥ संमाये भुवं योगी चिताऽग्निदीपेन मण्डलालेखम् । कुर्वन् जगाद नृपतिं वटद्रुमो दक्षिणेनेतः ॥ २० ॥ उद्बद्धः शाखायां तस्य नरो यस्तमानयास्तभयः । न च तस्मै दातव्यं प्रतिवचनं जल्पतेऽपि गम् ॥ २१ ॥ fif पाशं च यावदुत्तीर्णः । तावत् तथैव तं तरुशाखास्थं पश्यति नृनाथः ॥
२२ ॥
For Private and Personal Use Only
300556
॥४७॥
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरितम्॥
00000000000000000000000
एवं द्विखिः कुर्वस्तथैव शाखागतं तमथ भूपः। छिच्चा पाशं सहसा तं शवमादाय च निवृत्तः ॥ २३ ॥ तमवोचद् वेतालः किं मुक्त्वा मूढ ! वीरवृत्तं स्वम् । कुर्वन् कुकर्म रक्षास्यनुवदसि निशि भ्रमंश्चैवम् ॥ २४ ॥ भूतबलिः क्रियसे त्वं दुष्टेनानेन चेन मुश्चसि माम् । अक्षुब्धमनाः श्रुत्वेति भूपतिः पुनरनेनोचे ॥ २५ ॥ भोः ! साधु साहसं ते प्रतिपन्नविनिश्चयश्च हे वत्स ! तुष्टो भणामि तदिदं पुत्रेच्छुस्त्वं तु दुष्टोऽयम् ॥ २६ ॥ दत्त्वा वदेहबलिं मां साधयितुं समीहते तस्मात् । मा क्लिश्यसि यत् सूनुर्भविता ते सप्तरात्रान्तः ॥ २७ ॥ (युग्मम् ) प्रतिपन्नपालनाय च नय मृतकं तत्र पुनरसिं दद्याः। नार्थयतेऽप्यस्मै यन्न जेष्यसे तेन तयुक्तः ॥ २८ ॥ इति जल्पन्तं मृतक प्रगृह्य साधकसमीपमानीय । नीरेण तत्र संस्नाप्य तं शवं मण्डले न्यस्य ॥ २९ ॥ अवदद् नृप ! यच्छास्मै खड्गं वेतालगिरमसौ स्मृत्वा । भणति भगवन् ! न सुभटा ददते कस्यापि चासिं स्वम् ॥३०॥ देहि त्वमेव तत्रिनमसिमस्मै तेऽस्मि चाङ्गरक्षाकृत् । योग्याह लोहरक्षा ध्रियतेऽसौ मन्त्रसिद्धयै भोः ! ॥३१॥ अवदद् नृपोऽपि मयि सति कुपितयमोऽपि प्रभो! न ते प्रभवेत्। तत्कुरु कार्य निजमथ रुष्टः सोऽस्त्रं विधाय चोत्तस्थौ ॥३२॥ भणितस्ततो नृपेण व्रतीति नो हन्यसे त्यज ततस्त्वम् । मद्दष्टिपथं यद्यात्मानं पातुं समीहेथाः ॥ ३३ ॥ मत्याणितेन वेतालसाधनं त्वं विधित्सुरसि मूढ !। श्रुत्वेति कथमनेन ज्ञातोऽस्मीति हिया कलितः ॥ ३४॥ कोऽप्येष महासचो ध्यायन्निति मुक्तखड्गयष्टिरयम् । विहितानुशयो योगी कृताञ्जलिर्भणति नृपतिमिति ॥३५॥
TTTTTTTTTTTTTTTTTTTTTTTTTTTTT
For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0000000
सत्वाधिक ! तव वचनैरज्ञानतमो निरस्तमधुना मे | कालमियन्तं कुजनासङ्गेन विडम्बितोऽस्म्यधिकम् ॥ ३६ ॥ तन्मृष मदीयमागः परलोकहितावहाय धर्माय । अथ कर्ताऽस्म्यभियोगं त्वं धर्मगुरुर्ममासि विभो ! ॥ ३७॥ अस्त्यत्रव्रणरोहणमणिरत्नं तद् गृहाण मत्पार्धात् । उररीचक्रे धात्रीधवोऽपि तत् तदुपरोधेन ॥ ३८॥ अत्रान्तरे विभाता रजनी द्वावपि गतौ निजं स्थानम् । सप्तदिनान्ते देवीकुक्षावथ पूर्णचन्द्रसुरः॥ ३९ ॥ पुत्रत्वेनावतरन्मिहिरस्वनोपमूचितः सोऽत्र । देवी बभार गर्भ निधानमिव भासुरं भूमिः ॥ ४० ॥ (युग्मम् ).2 मासेऽथ सप्तमेऽभूद् देव्या इति दोहदः स्फुटं चित्ते । यदई गजाधिरूढा समस्तसामन्तसंयुक्ता ॥ ४१ ।। विहरामि पुरग्रामारामेषु निशम्य भूपतिरपीति । वरवारणाधिरूढां तामनयत् कचन चोपवने ॥ ४२ ॥ (युग्मम् ). तत्र करुणं रुदन्ती नियमाकाह भूपति देवी । स्वरलक्षणेन खेचरवनितामेतामहं वेद्मि ॥ ४३ ॥ तत् तत्र नाथ ! गत्वा हारंय तदुःखमथ नृपो देव्या । उक्तस्तत्र गतश्चापश्यत् खंचरं नरं प्रहारार्तम् ॥ ४४ ।। तत्पार्षे च रुदन्तीं तां खेचरवल्लभां नृपो वीक्ष्य । प्राग्लब्धमणिप्रक्षालनाम्बुना तं प्रगुणमकरोत् ॥ ४५ ॥ खेचरयुवापि तन्मणिमाहात्म्यसचित्रमानसो राज्ञा । भणितो भद्र ! कथं ते व्यसनमिदं दारुणं पतितम् ॥४६॥ अथवा महीयसामिह विपदोऽपि भवन्ति संपदश्चैव । हानिवृद्धिरपीन्दोः स्याद् नतु लघुतारकौघस्य ॥ ४७ ॥ १ व्यपनयेति पाठः क्वचित् । २ प्रहारविधुरं खचरपुरुषम्, इत्यपि पाठः ।
900OOOOOOOOOOOOOOOOOOOOO
CGCCES
॥४८॥
For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीचन्द्र
चरितम
10000000000000000000000000
परमार्थ इह तथापि हि कश्चित् शोश्रूय्यते यदाख्यासि । विद्याधरो नृपाग्रे न्यगददशेष स्ववृत्तान्तम् ।। ४८ ॥ अस्ति गिरौ वैतादये रत्नधने पुरवरे जयन्तनृपः। जयवेगो नाम तदङ्गजोऽस्मि संसिद्धबहुविद्यः ॥ ४९ ॥ तत्रैव कुंभनगरे धरभूपः सोऽथ मेऽग्रजां जामिम् । याचितवानल्पायुर्ज्ञात्वा नैमित्तिकाचास्य ।। ५०॥ नादात्तस्मै तां मत्पिताऽचलपुरे त्वनङ्गवेगाय । खेचरवराय स ददौ क्रुद्धोऽथ धरो धराधीशः ॥५१॥ (युग्मम् ) युद्धाय जयन्तमुपस्थितश्च निहतस्तदङ्गजन्माऽथ । किन्नरनामा वैरं स्मरन् पितुर्भमति मत्पृष्ठे ।। ५२ ॥ अत्रोद्याने क्रीडन् सकलत्रो निर्दयं हतोऽनेन । इति परमार्थः सर्वः कथितोऽयं भूमिवासव ! ते ॥ ५३ ॥ श्रुत्वेत्यथ जयवेगो निमन्थ्य नीतो नृपेण निजगेहम् । उपचक्रे च सगौरवमसौ सदारोऽशनैर्वसनैः ॥ ५४॥ आपृच्छय नृपं विद्याधरोऽपि तुष्टोऽगमद् निजं स्थानम् । संपूर्णदोहदाऽभूद् देवीति नृपो गतो मिथिलाम् ॥ ५५ ॥ अथ गुणमाला देवी सुषुवे सूनुं विभासुरं महसा । वापितो नृपोऽदाद् भूरिद्रव्याणि मुदितमनाः ।। ५६ ।। सूरः स्वप्ने दृष्टो यत् सेनादादोऽभवद् देव्याः । तत् सूरसेन इत्यभिधामस्य चकार भूनाथः ।। ५७॥ अथ ववृधे सोऽप्यबलापरंपरोत्सङ्गचारुतनुः । अन्येधुर्जयगो वीक्ष्य कुमारं प्रमुदितोऽभूत् ॥ ५८ ॥ अन्यदा खेचरेन्द्रस्य जयोगस्य वल्लभा । सूरसेनकुमारस्य रूपं वीक्ष्यातिविस्मिता ॥ ५९ ॥ अवदद् गुणमालां तां नरसिंहनृपप्रियाम् । नैमित्तिकगिरा चेन्मे भाविनी तनया तदा ॥ ६ ॥
000000000000000000000006
For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उद्वाह्या सा त्वत्सुतेन देव्यप्याख्यत् किमुच्यते । स्वयमेव यथार्ह त्वं कुर्याः किं चिन्तयाऽत्र मे ॥ ६१ ॥ ( युग्मम् ). यः पुष्पसुन्दरीदेवो दिवश्युत्वा स पुण्यतः । रविकान्ताऽभिधानायां प्रियायां खेचरेशितुः ॥ ६२ ॥ कुक्षावात् पुत्रत्वेन हंसी मानसे । स्व मुक्तावलीं माताऽपश्यत् तदनुभावतः ॥ ६३ ॥ ( युग्मम् ). क्रमेण पुत्री सञ्जाता नाम्ना मुक्तावलीति सा । पितृभ्यां भाषिता स्वप्नानुसारेण तदा मुदा ॥ ६४ ॥ तयोः क्रमेण तारुण्यमाप्तयोरथ पेशलम् । मिथो विवाहं विदधुः पितरो विधिवन्मुदा ॥ ६५ ॥ सूरसेनकुमारोऽथ मुक्तावल्या समं तया । मिथः प्रेमानुकूल्येनागमयत् समयं सुखात् ॥ ६६ ॥ अथान्यदा नरसिंहनृपो भूषणभूषितः । स्वरूपं मुकुरेऽपश्यन्मनसीति व्यभावयत् ॥ ६७ ॥ अहो ! ये मूर्ध्नि मे केशा अभूवन्नञ्जनप्रभाः । ते सांप्रतं मुअतुल्या दृश्यन्ते विस्वसाभरात् ॥ ६८ ॥ स्वर्णादर्शाविवास्तां यौ कपोलो मांसलौ कलौ । सकूपकौ तावद्याभिसन्तप्तकुतपाविव ॥ ६९ ॥ निरन्तराः सशिखरा ये रदा वदनेऽभवन् । ते समितं प्रविरलाश्चला आजौ कुभृत्यवत् ॥ ७० ॥ मुलालितोऽप्यसौ देहः पोषितोऽपि प्रयत्नतः । दौस्थ्ये कुमित्रवत् प्रायः कृतघ्न इव दृश्यते ॥ ७१ ॥ विभावयन्निति स्वान्ते स्मृत्वा प्राग्जन्मसंयमम् । प्रत्येकबुद्धः सआतो नरसिंहो नराधिपः ॥ ७२ ॥ मूरसेनोऽथ तत्पुत्रोऽमात्यै राज्येऽभिषिच्यत । प्रजाः पाति पितेवासौ प्रतापाक्रान्तशात्रवः ॥ ७३ ॥
For Private and Personal Use Only
॥४९॥
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वीचन्द्र
चरितम् ।
30000000000000000000000000
पाचीवांशुं प्रसूताऽथ राज्ञी मुक्तावली सुतम् । चन्द्रसेनाभिधं देहधुतियोतितभूतलम् ॥ ७४ ॥ वईमानः क्रमेणासौ गृहीताशेषसत्कलः। संप्राप्तयौवनो भोगान् भुनक्ति प्राच्यपुण्यतः ॥ ७५ ॥ मूरसेनोऽथ भूजानिरन्यदा शरदागमे । मन्त्रिणा बन्धुजीवेन विज्ञप्त इति सत्वरम् ॥ ७६ ॥ आगता वाजिवणिजो दूरदेशान्तराद्विभो ! । परीक्ष्य तेषां गृह्यन्ते ये जात्याः स्युर्महाहयाः ॥ ७७ ।। श्रुत्वेति सचिवस्योक्तं तान् वाहान् वाहयन् वने । मूर्त धर्ममिवापश्यन्मुनि कमपि भूपतिः ॥ ७८ ॥ नत्वा तस्य पदांभोजान मुनेः श्रुत्वा च देशनाम् । मुदितोऽन्तर्महीनाथो निजागारमगाद् द्रुतम् ।। ७९ ।। ब्राह्म मुहर्ने तद्वर्णवर्णनापरमानसः । यावन्नृपोऽस्ति शुश्राव स तावद् दिवि दुन्दुभिम् ॥ ८० ॥ ततो निश्चित्य तस्यानोत्पत्ति प्रमोदभाक । मुक्तावल्या समं भूपोऽप्यगमत् तत्क्रमान्तिके ॥ ८१॥ अत्रान्तरे कोऽपि दिव्यः पुमान् नृत्यपरश्चिरम् । नत्वा स्तुत्वा महर्षि तं निषसादाथ तत्पुरः ॥ ८२ ॥ नृपोऽपृच्छच्च भगवन् ! क एष नरपुङ्गवः?। कथं वाऽत्यन्तभक्त्याऽसौ जायते प्रमदान्वितः? ॥ ८३ ।। मुनिर्जगाद सम्यक्त्वगुणेन प्राणिनां भवेत् । इतीदृशी गुरोभक्तिरन्यद् वा शृणु कारणम् ॥ ८४ ॥ पाखण्डपुरेऽभूतां सम्यग्मिथ्यादृशावुभौ । ईश्वरधनेश्वराख्यौ वणिजौ प्रेमपेशलौ ॥ ८५॥ परं धनेश्वरो मिथ्यादृष्टिरश्नन्तमीश्वरम् । दिवाऽपि वक्ति नो युक्ता भुक्तिढिरकवासरे ॥ ८६ ॥
0000000000000000000000000
For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0000000OCGGGO0000000000000
ईश्वरः प्राह भोः ! दोषाऽशनं दोपास्पदं भवेत् । विहाय कुग्रहं तस्मात् कुरुष्वात्महित सखे ! ॥ ८७ ॥ बहुधा बोधितोऽप्येवं न निवृत्तो निशाऽशनान् । मृत्वोत्पन्नः पञ्चकृत्वो वल्गुला दुःखसङ्खला ॥ ८८ ॥ ततो द्विश्चर्मचाटेका कौशिको जंबुकस्तथा । उज्जयिन्यां ततो जातो देवगुप्तद्विजन्मनः ॥ ८९ ॥ सुतः प्रियायां नन्दायां जन्मतो रुग्भरादितः । जनै रोग इति ख्यातो ववृधे प्राच्यकर्मतः ॥ ९० ॥ (युग्मम् ). अथेश्वराख्यः श्रद्धालुः संवेगोत्तुङ्गरङ्गभाक । धर्मेश्वरगुरोः पार्थे संयमं प्रतिपन्नवान् ॥ ९१ ॥ विहरनथ स ज्ञानी पुर्यवन्त्यां द्विजन्मनः । देवगुप्तस्य गेहेगात् पक्षक्षपणपारणे ॥ ९२ ।। पृष्टस्तेन स्वपुत्रस्यामयोपशमकारणम् । मुनिः स तूचिते देशे स्थित्वा प्रोचे द्विजोत्तमम् ॥ ९३ ॥ जीवहिंसा मृषा स्तैन्यं मैथुनं च परिग्रहः । अमीभिः स्यान्महापापैरो रोगभरादितः ॥ ९४ ॥ परमेष्टिमहामन्त्रं स्मरन् सद्धर्ममाचरन् । सम्यक्त्वं पालयन् सद्यो नरो नीरोगतां व्रजेत् ॥ ९५ ॥ श्रुत्वेति ससुतो विप्रो वाचं वाचंयमस्य ताम् । अणुव्रतधरः श्राद्धोऽभवद्धर्मे कृतादरः ॥ ९६ ॥ रोगो रुगाभिभूतोऽपि त्यक्ताशेषप्रतिक्रियः । वेदनां सहमानोऽपि धर्मेऽभृद् दृढनिश्चयः ॥ ९७ ॥ हरिः सदसि चान्येयुः प्राशंसत् तदृढव्रतम् । अश्रद्दधानौ द्वौ वैद्यरूपौ तत्रागतो मुरौ ॥ ९८ ॥ तावूचतुस्त चेत् त्वं भोः! वचोऽस्माकं करिष्यसि । तदा जीवितमेतौ ते कर्तारौ निर्गदं वपुः ॥ ९९ ॥
3000000000000000000000000
॥५०॥
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
श्वीचन्द्र
शिक पाक की
यथा-प्रातर्मध्वपराह्ने च सुरा निश्यशनं तथा । शालेः सनवनीतस्य ततश्च विविधौषधैः ॥१००॥
जलस्थलखेचराणां पिशितं सप्त वासरान् । भुञानस्य क्षणात्तेऽमी गदा यास्यन्ति निश्चितम् ॥ १०१ ।। श्रुत्वत्यवग रोगबदुर्भावि यत्तद्भवत्वलम् । धर्मध्वंसं व्रतभङ्गं कुर्या प्राणात्ययेऽपि न ॥ १०२ ॥ बहुधा बोधितोऽप्येष चलितो न मनागपि। तच्छुभध्यानतः प्रीताः प्रापुः सर्वेऽपि विस्मयम् ॥ १०३ ॥ निर्जरावपि तत्सत्वं परीक्ष्य धृतविस्मयो । विधाय नीरुजं तं च स्तुत्वाऽगातां यथागतम् ॥ १०४ ॥ अरोग इति तस्याख्या ततः प्रभृति पप्रथे। मृत्वा कालेन सौधर्मे दिव्यभूद्दिविषद्वरः ॥ १०५॥ ज्ञात्वा स्वं प्राग्भवं सोऽयं नतये न इहागतः। दृष्ट्वा च केवलोत्पत्तिं नन सौ प्रमोदतः ॥ १०६ ।। इतीश्वरमुनेचा निषिद्धक्षणदाशनाः । प्रतिपन्नः श्राद्धधर्म केचिदन्ये च संयमम् ॥ १०७ ॥ मूरसेननृपोऽप्युच्चैर्वैराग्यापूर्णमानसः । त्यक्त्व राज्य समं मुक्तावल्या संयममग्रहीत् ॥ १०८॥ प्रपाल्य चारु चारित्रं मासं सलेखनापरौ । अवेयके विमाने तावभूतां निर्जरोत्तमौ ॥ १०९ ॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रचरिते नरसिंहनृपसरसेनराजचरितं
षष्ठं भवग्रहणम् ।
teeeeeeeeeeeeeeeeeeeeee
1900
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सप्तमो भवः ।
अथात्र भरतक्षेत्रे गज्जणाख्यपुरे नृपः । नाम्ना सुरपतिस्तस्य विनयप्रणया प्रिया ॥ १ ॥ स च भूमिपतिर्मिथ्यादृष्टिर्विप्रेषु भक्तिमान् । जनोऽपि तादृश: सर्वो यथा राजा तथा प्रजा ॥ २ ॥ एवं व्रजति काले च सूरसेनसुरोऽन्यदा । विनयप्रणयादेव्याः कुक्षौ स समवातरत् || ३ || सुवासरे प्रसूताऽथ राज्ञी कान्त्याऽर्कसन्निभम् । सुतं रोहणभूमीव रत्नं प्राचीव भास्करम् ॥ ४ ॥ जनको जनकोटीभिर्युतो जन्ममहं व्यधात् । सुतस्य तस्य चाभिख्यां पद्मोत्तर इति स्फुटम् ॥ ५ ॥ वर्द्धमानः क्रमेणापत् पावनं यौवनं वयः । कलाकलापमखिलं कलयामास सोऽअसा ॥ ६ ॥ sar वैतान्यगिरौ भौमनगरे नृपः । तारवेगाभिधस्तस्य हेममालाऽभिधा प्रिया ॥ ७ ॥ तयोर्बहूनां पुत्रीणामथोपर्युदपद्यत । मुक्तावलीसुरः पुत्रत्वेन ग्रैवेयकाच्च्युतः ॥ ८ ॥ प्रसूता समये हेममाला पुत्रं महायुतिम् । हरिवेग इति ख्यातनामाऽसौ ववृधे क्रमात् ॥ ९ ॥ त्यक्तबाल्यत्रयाः सर्वकलाग्रहणकोविदः । नारीजनमनोहारि तारुण्यं प्राप स क्रमात् ॥ १० ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥५१॥
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वी कन्द
900009
www.kobatirth.org
१३ ॥
१४ ॥
मथुरायामथो चन्द्रध्वजस्य वसुधापतेः । आस्तां चन्द्रमतिः सूरमतिः पत्न्यावुभे शुभे ॥ ११ ॥ शशिलेखासूरलेखाऽभिधाने च तयोः क्रमात् । पुत्र्यावभतां सद्रूपलावण्य भरभूषिते ।। १२ ।। अनयोर्जन को ऽकार्षीदनुरूपवराप्तये । स्वयवरं समाहूतास्तत्र सर्वेऽपि भूधवाः ॥ पद्मोत्तरकुमारोऽपि परिमेयपरिच्छदः । स्फुरद्विपुलनेपथ्यः प्रस्थितो मधुरां प्रति ॥ कुमारो लङ्घयन्मार्ग वीक्ष्यैकं तापसाश्रमम् । नत्वा कुलपति तत्र निषण्णस्तत्पदान्तिके ॥ १५ ॥ ततः कुलपतिस्तस्य पुरः कन्यां मनोरमाम् । उपादाय जगौ वत्स ! स्वीकुर्वेतां निजोचिताम् ॥ १६ ॥ कुमारोऽवग् मुने ! ब्रह्मभृतां वः स्यात् कुतः सुता ? । जगौ कुलपतिवत्स ! परमार्थ शृणु स्वयम् ॥ १७ ॥ अस्त्युत्तरस्यां सुरभिपुरं तत्र धराघवः । वसन्तराजस्तत्पत्नी पुष्पमालेति चाभवत् ॥ १८ ॥ गुणमालाऽऽह्वया पुत्री तयोः पञ्चसुतोपरि । जाता ततोऽस्त्यभिमता पित्रोः सा पुत्रतोऽधिकम् ॥ १९ ॥ न व्यवाहयतां चैतां पितरौ विरहातुरौ । तद्रूपमोहितश्चम्पापतिरागाच्छु कोऽन्यदा ॥ २० ॥ सचिवमेरितो भूपः प्रादात् तस्मै च तां सुताम् । पुत्रीवियोगभीरुचातिष्ठिपत् तं निजे पुरे ॥ २१ ॥ रममागः समं प्राणप्रेयस्या स तया समम् । अतिव्रजन्तं नाज्ञासीत् समयं नमयन्नरीन् ॥ २२ ॥ क्षारत्वेनैव यत् सिन्धोः कलङ्केन विधोरिव । मृगयाव्यसनेनास्य दोषोऽभूद् दुस्त्यजस्तथा ॥ २३ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चरितम्
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ാള്ള
ततो राज्ञा नियुक्तोऽस्य बोधनाय विशारदः । सुमुखो नाम भट्टः स पाप्यावसरमालपत् ॥ २४ ॥ प्रत्यर्थिनोऽपि मुच्यन्ते तृणानि दधतो मुखे। तृणाशिनोऽप्यमी नित्य हन्यन्ते हा! पशुव्रजाः ॥२५॥ केयं नीतिश्च किं शौर्य क्षत्रधर्मोऽपि को ह्ययम् । नन्ति यत् पुरुषा जन्तूननस्वानकृतागसः ॥ २६ ॥ पगुकुष्टिकुणित्वादि फलमणिवधोद्भवम् । मत्वाऽऽत्मनः सुखाकाङ्क्षी परपीडां विवर्जयेत् ॥ २७ ॥ बोधिताऽपीति पापधि हियैवौज्झन्मनो विना । पित्राऽऽहूतः स चान्येाश्चचाल स्वपुरं प्रति ॥ २८ ॥ आपनसत्वां स्वां पत्नी सहादाय प्रतस्थिवान् । क्रमेण प्राप्तवानेषोऽस्माकमेतत्तपोवनम् ॥ २९ ॥ दृष्ट्वा वनचरात् जीवान् पापद्धिविवशो भृशम् । यावद्धावति तान् हन्तुं तावत् पापनियोगतः ॥ ३०॥ तृण्याऽच्छन्नेगाधगर्नेऽपतनिशितकीलके। भिन्नकुक्षिर्विधुराङ्गो नीतो भृत्यैर्बहिस्ततः ॥ ३१ ॥ (युग्मम् ). चरेभ्यो ज्ञातवृत्तान्तो वसन्तः पुष्पमालया। यावत् समागतस्तावत् स परासुरभूत् क्षणात् ॥ ३२॥ शोकात गुणमालाऽग्नि प्रविविक्षुः कथञ्चन । निषिद्धा विललापोच्चैः सोरस्ताडं सुदैन्यतः ॥ ३३ ॥ पितरावथ दुःखातौं सुतामादाय तौ ततः। गतौ कुलपतेः पार्थे सोऽप्यमन् प्रत्यबुबुधत् ॥ ३४ ॥ राजन्नयं भवो घोर: क्लिश्यन्ते यत्र जन्तवः । जरामरणदुःखौधैश्चतुर्गतिगमोद्भवैः ॥ ३५ ॥ चला लक्ष्मीश्चलाः प्राणाश्चलाः स्वजनसङ्गमाः । वृथा संसारवासेऽस्मिन् सुखाशां कुरुते जनः ॥ ३६॥
EGGCOO00000000000OOOGOO00€
॥५२॥
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वीचन्द्र
चरितम्
9000000000OODGGOODtvo66666
तद्विहाय नृप ! प्रेमसम्बन्धं बन्धुषु स्वयम् । रमय स्वमनो धर्म शमयाति ममत्वजाम् ॥ ३७॥ इति श्रुत्वा कुलपतेगिरं बुद्धो धराधवः । त्यक्त्वा राज्यं सभार्योऽपि सोऽभूद् दीक्षाकृताग्रहः ॥ ३८ ॥ ससत्त्वेति निषिद्धाऽपि सा पित्रोविरहासहा । अनुज्ञया कुलपतेर्गुणमालाऽप्यलाद् व्रतम् ॥ ३९ ॥ कालेन गुणमालाऽथ मुखेन सुषुवे सुताम् । परासुश्चाभवत् मूतिरोगेण विपिने स्थिता ॥ ४० ॥ मातामही पुष्पमाला कियत्कालमपालयत् । वनमालामिमां बालां नामशेषाऽथ साऽप्यभूत् ॥ ४१॥ ततोऽहं कर्मदोषेणाक्षमो मोक्तुमिमां सुताम् । मुनिर्वसन्तराजाख्यः पालयबस्मि मोहतः ॥ ४२ ॥ गुर्वादेशान्मया त्वेषा ढौकिताऽस्ति भवत्पुरः । साधुना नाधुना कार्यों याञ्चाभङ्गस्त्वया ततः ॥ ४३ ॥ तथेत्यभिदधत्यस्मिन् वनमालाद्यलकृताम् । वनमालामदात् तस्मै मुदा तत्र स तापसः ॥ ४४ ॥ विद्यां वेतालिनी नाम्ना वनमालां च तां प्रियाम् । पद्मोत्तरः समादाय प्रतस्थौ मथुरामथ ॥ ४५ ॥ समग्रे राजचक्रे च तत्रायाते क्रमादथ । विवाहमण्डपे तस्मिन्नागातां ते पतिवरे ॥ ४६ ॥ भ्रामं भ्रामं भ्रमरीव कुमारारामगोचरे । पद्मोत्तरकुमारे तु निविष्टा दृष्टिरेतयोः ॥ ४७ ॥ बालाभ्यां वरमालाऽस्य चिक्षिपे कण्ठकन्दले । प्रवर्तितो जयस्तूर्यरवैरापूर्यताम्बरम् ॥ ४८॥ अथान्ये भूभुजः पद्मोत्तरस्य दयिताद्वयम् । मानादसहमानाचावेष्टयस्तं निर्बलैः ॥ ४९ ॥
-
For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्मृत्वा वेतालिनीं पद्मोत्तरो विद्यामनुत्तराम् । अनाशयद् रिपुबलं पलालमिव मारुतः ॥ ५० ॥ असा सर्वे निर्जिता ऊर्जिता अपि । भूभुजो भूभुजङ्गाङ्गभुवोऽथ लुलुठुः पदोः ॥ ५१ ॥ महामहेन स तो कुमार्या भूभुजङ्गभूः । स्थित्वा तत्र कियत्कालं संप्राप नगरं निजम् ॥ पितृप्रदत्तां युवराजलक्ष्मीमक्षीणपुण्योऽनुभवन्नथैषः ।
५२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पद्मोत्तरोऽयं शशिसूरलेखाप्रियान्वितोऽभुङ्क सुखानि नित्यम् ॥ ५३ ॥
इतश्च वैताढ्यगिरौ पुरे गगनवल्लभे । विद्याधरेन्द्रः कनककेतुर्नाम्नाऽस्ति विश्रुतः ॥ ५४ ॥ देवी कasaत्येका तस्य रत्नवती परा । तयोः सुतैका कनकावली रत्नावली परा ॥ ६५ ॥ तयोर्जन्मदिने नैमित्तिकोऽयमिदमादिशत् । एकां परिणयनेकश्रेणीशः स भविष्यति ॥ ५६ ॥ faareera कन्ये भावी श्रेणिद्वयीशिता । अथ ते वर्द्धमाने द्वे कन्ये तारुण्यमापतुः ।। ५७ ॥ ( युग्मम् ). स्वयंवरमहे पित्रा प्रारब्धेऽखिलखेचराः । समागुईरिवेगं तु प्रमोदाद् वृणुतः स्म ते ॥ कन्याद्वयं परिणीय स आगान्नगरं निजम् । निश्विकाय पिता श्रेणिद्वयीशोऽयं भविष्यति ॥ ५९ ॥ दध्यौ पिता प्राग्भवे किमेतेन सुकृतं कृतम् । ज्ञानवान् कोऽपि यद्येति पृच्छयते तदिदं ध्रुवम् ॥ इतश्च तत्र संप्राप्तः श्रीतेजा नाम केवली । नत्वा पप्रच्छ तद् भूषो व्याहरद् भगवानथ ॥
५८ ॥
६० ॥
६१ ॥
For Private and Personal Use Only
॥५३॥
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्रा
चरितम्
00000000000000omoeoSERSAR
कलावतीशलभवाद्धरिवेगभवावधि । तारवेगः सुसंवेगः केवल्युक्तं मुदाऽशृणोत् ॥ १२॥ (युग्मम् ). प्रबुद्धस्तारवेगोऽथ दत्वा राज्यं स्वसूनवे । तदङ्घिमूले प्राब्राजील कर्मनिर्मूलनोद्यतः ॥ ६३ ॥ जातजातिस्मृतिश्चान्यः श्राद्धधर्म प्रपेदिवान् । सम्यग्दर्शनपूतात्मा पालयद् द्वादशवतीम् ॥ ६४ ॥ अन्यदाऽवसरं प्राप्य नृपोऽपृच्छन्मुनीश्वरम् । भूरसेनः प्रभो! कुत्रोत्पेदे कि नामभृच्च सः ॥६५॥ सुनापो बोधिरस्यास्ति दुःप्रापो वा विभो ! बद । स जगौ गज्जणेशस्याङ्गभूः पद्मोत्तराभिधः ॥ ६६ ॥
संप्रत्यस्ति सुबोधिश्च न पुनर्धर्ममाप्तवान् । सामग्र्यभावाद् यद् योग्योऽप्याप्नुते न प्रतिक्रियाम् ॥ ६७ ॥ यतः --योग्योऽपि धर्मरत्नस्य प्राणी बोधि न चाप्नुते । विशुद्धधर्मचरितं धर्माचार्यमनाप्नुवन् ॥ ६८ ॥
त्वत्त एवाधिगम्याईन्मतं घोषिं स चैष्यति । श्रुत्वेति तोपमगमद्धरिवेगः स वेगतः ॥ ६९ ॥ क्रमेण श्रेणियुग्मैश्यं प्रपन्नस्तारवेगमः । पद्मोत्तरकुमारस्य दिटक्षोत्कण्ठयाऽभ्यदा ॥ ७० ॥ गज्जणं मण्डलं प्राप्तः स एकाक्यपि खेचरः । ओतुमेकं महाकायं विकृत्याञ्जनसन्निभम् ॥ ७१ ॥ वराटिकालम्भिरलं समलङकृतहृद्गलम् । सुवर्णकिङ्किणीस्फूर्जत्ताररत्नगणाकरम् ।। ७२ ॥ सुवर्णशृङ्खलाबद्धं गृहीत्वाऽगाचतुष्पथम् । कौतुकाम्मिलिता लोकाः पृच्छन्त्येनं किमेष भो। ७३ ॥ विक्रेयः किञ्च मूल्यं सोऽप्याह स्म स्वर्णलक्षकम् । जनोऽवगोतुमात्रस्येयन्मूल्यं किं भवत्यहो॥७४|| (पञ्चभिः कुलकम्।।
Các tin TTTTT
For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
000000000000000000
खेचरोऽवग्गुणैरश्मदारूणामप्यमूल्यता । मण्यादयो महाः स्युन वा किं चन्दनादयः? ॥७॥ गुणाः केऽस्येति लोकोक्ते खेचरोधग् नृपोकसि । गम्यते येन तत्र स्याद् गुणागुणविनिश्चयः ॥ ७६ ॥ इत्युल्लापपरो वृद्धवाडवैः परितो वृतः । वृषदंशं पुरस्कृत्य स नृपास्थानमागमत् ।। ७७ ॥ प्राग्भवाभ्यासतः पद्मोत्तरे तं प्रेमपेशलम् । पश्यत्यथ महीशस्तमूचे भोः ! कौतुमाप्तवान् ? ।। ७८ ॥ खेचरः स्माह केनापि ददे दिविपदैप मे । गुणाव्यस्यास्य नो मूल्यं वर्तते यजगत्यपि ॥ ७९ ॥ के गुणा अस्य राज्ञोक्ते खेचरोऽवक शृणु प्रभो ! । जीयते नापि कैरेष श्वमार्जारादिकरहो !॥ ८० ॥ अन्यच्च यत्रैव वसेनिशि तबाखवो ध्रुवम् । द्वादशयोजनैः स्थानं तत् त्यजन्ति भयद्रुताः ॥ ८१॥ गुणा अन्येऽपि बहवोऽस्येत्यसौ वाडवानवक । मूल्यं नास्त्यस्य किं खेप विक्रीणे दौस्थ्यपीडितः ॥४२॥ पश्यन्तः श्रुतिमेकां ते वृषनग्धामदोवदन् । विहस्य मूत्रकण्ठा भोः ! यदि द्वादशयोजनीम् ॥ ८३ ॥ प्रणश्यन्त्याखवस्तत् तैः किमीपत्कर्ण आशित: ? । पूर्वापरविसंवादिन्यतो यद्बो वचःस्थितिः ॥ ८४ ॥ (युग्मम् ).
खेचरोऽथावदद्भट्टाः ! सद्रत्नं नेति दृष्यते । देवादिष्वपि येनैवं विरोधो वः प्रकीर्त्यते ॥ ८५ ॥ तथाहि-यो गोद्विजागना दीन् हन्यात् कीदृक् स उच्यते। द्विजाः पोचुमेहापापः सोऽद्रष्टव्यमुखो भवेत् ॥८६॥
यद्येवं तत् प्रदीप्तो यो द्विजबालादिकं दहेत् । स पूज्यते कथं देवधियाऽग्निईमकाङ्क्षिभिः ? ॥ ८७ ॥
00000000000000000000000000
॥५४॥
-
For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वीचन्द्र
चरितम
G63360000360Gt66035cbetét
अथ चेद् देवकोटीनां मुखं तेनैप तप्यते । तत्कथं तदनिष्ठं च शवाद्येष दहेत् स्वयम् ॥ ८८ ॥ शौचधर्मविदो यूयमशुचिग्रासतत्परम् । पूजयध्वं कथं देवधिया धूमध्वजं द्विजाः ! ॥ ८९ ॥ एवमंभो हरेल भणन्तः पादधावनात् । अशुचिक्षालनात् किं न विरोधो वः प्रवर्तते ?॥९० ॥ विरोधो यदि देवेषु तत् कथं दोषचिन्तनम् ?। क्रियतेऽस्मिन्नोतुरत्ने तथाऽन्यदपि चिन्त्यताम् ॥११॥ स्मरारिमपि मन्यध्वे यथा गौरीरतं शिवम् । वृषखादितमप्योतुं तथा कि नाखुहिसिनम् ? ॥ ९२ ॥ इति तथ्यगिरा विप्राः कृताः सद्यो निरुत्तराः । दध्यौ पद्मोत्तरः कोऽपि महानेष नरोत्तमः ॥ ९३ ॥ स्वरूपं देवतादीनां तत्पृच्छाम्यमुमादृतः । तथा कृते सोऽप्यगदद्धर्म सर्वज्ञभाषितम् ॥ ९४ ॥ हरिवेगः पुनः पद्मोत्तरं प्रति जगावदः । किं न स्मरसि भोः ! प्राच्यभवे ग्रैवेयकश्रियम् ? ॥ ९५ ॥ जातजातिस्मृतिः सोऽथ हरिवेगमभाषत । अहो ! ते ज्ञाननैर्मल्यमहो ! ते चोपकारिता ॥ ९६ ॥ सद्धर्मपक्षपातस्ते अहो ! कीदृगनुत्तरः। अहो ! कृपापरत्वं त अहो ! वात्सल्यमुत्तमम् ॥ ९७ ॥ त्वं तु मुक्तावलीजीवः खेचरत्वमुपागतः । कथश्चिन्मम बोधाय समायातोऽसि निश्चितम् ॥ ९८ ॥ तन्मुक्त्वा गूढरूपं स्वं यथावस्थं प्रदशय । तथा कृते मिथो गाढमालिलिङ्गतुरुन्मुदौ ॥ ९९ ॥ नृपोऽपि ज्ञाततवृत्तः सपोरः सपरिच्छदः । जिनधर्मकनिष्टोऽभूत् सुसङ्गः कस्य नेष्टदः ॥ १० ॥
300000000000000000
जातजातिस्मात
हो! कीदृगनुत्तरः कश्चिन्मम बोधाय
मालिलिङ्गतुरुन्मुदा
For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अत्रान्तरे वनपालोsवनीपालं व्यजिज्ञपत् । स्वामिन् ! वर्द्धाप्यसे स त्वं केवल्यागमनेन यत् ॥ पद्मोत्तरहरिवेगान्वितो नृपतिस्ततः । वन्दनाय गतस्तत्राशृणोत् तद्देशनां मुदा ॥ प्रबुद्धो भूपती राज्यं त्यक्त्वा प्रव्रज्य दुस्तपम् । तपस्तप्त्वा दग्धकर्मा प्रपेदे परमं पदम् ॥ पद्मोत्तरः श्राद्धधर्म प्रपन्नोऽथ पितुः पदे । हरिवेगेनाभिषिक्तः प्राज्यं राज्यमपालयत् ॥ अथान्यदा हरिवेगः पद्मोत्तरं निजं पुरम् । नीत्वोवाच सखे ! विद्या अनवद्या गृहाण मे ॥ आदत्स्व खेचरैश्वर्य सोऽवक भ्रातस्त्वमेव मे । द्वितीयतनुभूतोऽसि तद् यस्यासि त्वमीशिता ॥ तस्याहमप्यधीशोऽस्मि तथा धर्मप्रदानतः । दातव्यं यत् तु दत्तं तत् किमतोऽप्यस्ति यद् वरम् ॥ तत् पालयावः स्वे राज्ये यावत् पुत्रोद्भवो भवेत् । ततो राज्यधुरं दवा चरिष्यावो व्रतं स्वयम् ॥ इत्थं मिथो मन्त्रयित्वा शाश्वतार्हद् गृहादिषु । कृत्वा यात्रामुभौ गज्जणकं नगरमापतुः ॥ अथान्यदोभौ नृपती नत्वाच्चैत्यमाहतौ । निवृत्तौ तावता यष्टिमुष्टिघातार्त्तलोचनम् ॥ आमुक्तकेश कौपीनवाससं धूलिधूसरम् । निन्द्यमानं जनैर्ऋतकृतमेकमपश्यताम् ॥ कृपाद्र तावथोचाते भोः ! किमेषोऽर्थते भृशम् । आख्यत् कोऽप्यत्र कोटीशवरुणश्रेष्ठिनन्दनः ॥ द्यूतव्यसनदोषेण पित्रा निर्वासितो गृहात् । तथापि न जहौ दैवहतकोऽसौ दुरोदरम् ॥
For Private and Personal Use Only
१०१ ॥
१०२ ॥
१०३ ॥
१०४ ॥
१०५ ॥
१०६ ॥
१०७ ॥
१०८ ॥
१०९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
११० ॥
१११ ॥ ( युग्मम् )
११२ ॥
११३ ॥
90000900SL, DIAMD999999999968
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरितमः
300059OOOOOOO000000O6GOGO
अद्य लक्षं हारयित्वा पलायन जगृहे बलात्। विना लक्षं न मोक्ष्यामो न वोऽहो तप्तिरस्य तत् ॥ ११४ ॥ ततो लक्षपदानेन मोचयित्वा तमासा । विषमां कर्मणश्चेष्टां भावयन्तौ गतौ गृहम् ॥ ११५ ॥ राज्यभारक्षमौ जातौ क्रमात् तयोस्तनूरुहो । दत्त्वा राज्यभरं मून्वोः प्रव्रजावः स्वयं रयात् ।। ११६ ॥ इति चिन्तयतोरागाद् रत्नाकरमुनिर्वने । गत्वा तौ तं गुरुं नत्वा श्रुत्वा तद्देशनां मुदा ॥ ११७ ॥ मुतयोः क्ष्माभरं न्यस्य प्रशस्यदिवसेऽन्यदा । परिवव्रजतुः सारसंवेगरससङ्गतौ ॥ ११८ ॥ अधीत्यैकादशाङ्गी तो तपःकर्मसु कर्मठौ । ग्रैवेयके सुरौ जातौ त्रिनवोदधिजीवितौ ॥ ११९ ॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रमहाराजर्षिचरिते पद्मोत्तरहरिवेगा
महामुनिचरितं सप्तमं भवग्रहणम् ।
000000000000000000000000
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमो भवः।
PORIC000000000000000000000
अस्त्यत्र पाण्डुविषये पाण्डुपुरं श्रीवलो नृपस्तत्र । जयतीह तत्कनीयान् युवराजः शतबलो नाम ॥ १ ॥ तो रामलक्ष्मणाविव मिथो धनप्रेमबन्धुरौ बन्धू । पालयतः पितृदत्तं प्राज्यं साम्राज्यमभियुक्तौ ॥ २ ॥ दयिते तयोयोरपि सुलक्ष्मणालक्ष्मणाभिधाने च । पद्मोत्तरर्भुरभवत् सुलक्ष्मणायाः सुतत्वेन ॥३॥ गाङ्गेयगिरिस्वमानुसारतः स गिरिसुन्दरो नाम । हरिवेगसुरोऽपि सुतत्वेनाभूल्लक्ष्मणाकुक्षौ ॥४॥ रत्नोच्चयसुस्वप्नानुसारतो रत्नसार इति नाम्ना । तो प्रेमशृङ्खलयितौ द्वावप्येकत्र रेमाते ॥५॥ आस्थानसंस्थितोऽथान्यदा बली श्रीबलो नृपः पौरैः । विज्ञप्तो दुःखात्तैस्त्वयि राज्यपि नो महद् व्यसनम् ॥ ६ ॥ हियते कमला महिला गृहाङ्गणगता प्रसह्य केनापि । न च दृश्यतेऽत्र कश्चिद् देवो वा दानवो वाऽपि ॥ ७ ॥ श्रुत्वेति नृपोऽप्याहूयारक्षमतर्जयच्च किं रे त्वम् । स्वपिषि निशि न भ्रमनसि निशितासिकरः पुरस्यान्तः ॥ ८ ॥ आरक्षोऽप्यवददहं भ्रमामि पुरगोपुराणि पिदधामि । धावन्नपि तं दस्युं न लभे तु शणोमि जनरावम् ॥ ९॥
100000000000000000000000000
-
थ्वीन्द्र
-
For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरितम्
DO066GOGOCCOGOOOOOO3006€
यत्नेन तदवरोधं रक्षतु देवोऽस्तु पौरवर्गोऽयम् । आकर्ण्यति नृपो यावत् किंकर्तव्यतामृदः ॥ १० ॥ कृतनतिना विज्ञप्तस्तावद् गिरिसुन्दरेण सप्ताहात् । देवाज्ञया लभेऽहं तमेष चौरं दुराचारम् ॥११॥ नरदेवेनाज्ञप्ती नियुक्तवान भूपभूः स्वचरपुरुषान् । तैरपि न कोऽपि लेभेततः स निरगात् स्वयं नगरात् ॥ १२ ॥ शून्योद्यानादिषु पर्यटस्ततो नाति रगिरिशृङ्गे । दृष्ट्वा ज्वलन्तमग्निं यावत् तदुपान्तमभिसरति ॥ १३ ॥ दृष्टश्च तत्र गुग्गलममिदाहुतितत्परो नरः कोऽपि । तत्सन्निधावसिध्यद् दुःसाध्यः क्षेत्रपालोऽस्य ॥ १४ ॥ स क्षेत्रपस्तमूचे सिद्धोऽस्मि तवास्य नुमहिम्नैव । अन्तर्हिते च तस्मिन् स साधकस्तं कुमारमवक् ॥ १५ ॥ सत्पुरुष ! कृतो भवता विहितागतिना ह्यनुग्रहोऽयं मे । तद् भण किं ते संपादये ततो भूपभूरगदत् ॥ १६ ॥ कृतकृत्योऽहं विद्यासिद्धया तव चार्थये किमपरं भोः। एवमनिच्छायादाद् विद्या रूपान्तरकरी सः॥ १७ ॥ अत्रान्तरेऽधिपुरमुरुकरुणं तरुणीरवं समाकर्ण्य । हियते दुरात्मनेयं काऽपीत्यभिधावितस्तमसौ ॥ १८ ॥ न च कञ्चनाप्यपश्यत् तत्राप्यथ निश्चिकाय गिरिदाम्। निवसनसो दुरात्मा कथं परिज्ञास्यत इदानीम् ॥१९॥ हुं ज्ञातं स्त्रीलोलोऽयं तावत् तद् दधे युवतिरूपम् । दृष्टस्तथाको निर्गच्छन् देवकुलिकातः ॥ २० ॥ कापालिश्वेषधरं दृष्ट्वा हन्मीति वा न दर्शनभृत् । वध्योऽसावविमृश्यारुददथ कृतकं स जिज्ञासुः ॥२१॥ रुदितश्रवणादथ सोऽप्यागाद् दृष्ट्वा च तत्पवररूपम्। प्राह स्म किमत्रैकाकिनी कथं रोदिपि च भद्रे? ॥२२॥
00000000000000000000000000
-
।
।
For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
ccetage00000000000seedees
अवदत् कुमारल लना पत्या संप्रस्थिता प्रयासमहम् । सुप्ताऽत्र तेन मुक्ता विस्मृतमिदमस्य करवालम् ॥२३॥ अलपत् कपालधारी मुन्दरि! विधिना स वश्चितोरङ्कः। न पुनर्भवादृशीनामनाथता क्वापि जायेत ॥२४॥ अगदत् कुमाररामा न युक्तमेवं कुलस्त्रियो भगवन् ! । प्राणेश्वरस्य विरहे क्षणमपि यज्जीव्यते तदिह ॥२५॥ तत् किमपि मे प्रदर्शय तीर्थ भगवन् ! करोमि यत्राहम् । निजजीवितप्रयाणं ततश्च कापालिकोऽप्यलपत् ॥२६॥ अस्त्यत्रैक तीर्थ वसंस्त्रिरात्रं प्रियं लभेतात्र। तत् किं निरर्थमृत्या कुरु तीर्थोपासनं भद्रे ! ॥२७॥ इत्यालप्योभावपि गतो ततः कापि देवकुलपृष्टे । कापालिको जघान क्रमेण धरणीतलं तत्र ॥ २८ ॥ तत्सङ्केतादुदघाट चेकया नागकन्यकोपमया। गुप्तद्वारं वशया प्रविविशतुरुभौ क्रमात् तत्र ॥ २९ ॥ देवार्चनं प्रकुरुतं युवामहं चानयामि कुसुमानि । इत्युल्लपन कपाली निरगाद् बहिरिह कुमारोऽस्थात् ॥३०॥ प्राच्यस्त्रिया कुमारस्यूचे त्वमनेन पापिनाऽऽत्ताऽसि । अहमिव सखि ! कुत्र जगौ कृतकस्त्री भगिनि ! मे कथय ||३१|| कोऽयं का वा भवती किमत्र वसतीति ? सा रुदन्त्याख्यत् । कापालिकवेषधरो दस्युरयं दण्डपालाख्यः ॥ ३२ ॥ अङ्गिभ्रमेद् यथेच्छ निशि हुत्वा स्त्र्यादिकं क्षिपत्यत्र । सश्चितमस्त्यावाभ्यां सहामुनकोत्तरं शतं स्त्रीणाम् ॥३३॥ अहमपि च पाण्डुपुरसन्महेभ्यतनया हृता सुभद्राऽऽख्या। श्रीवलशतबलराज्येऽप्यवशात्र वसामि किं कुर्वे ॥३४॥ पाह स्म कुमारस्त्रीसखि ! कथय कुतोऽस्य चेति सामर्थ्यम् । भणितं तया त्रिसन्ध्यं महत्यसौ खड्गरत्नमिह ॥३५॥
000000000000000000000000
॥५७॥
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरितम्।
500000000000000000000000
तस्मिन्नाने दिनमणिवद्भ्रमति यथेच्छया जगति गतभीः। तद्विरहितोऽथ कातर इवासको लक्ष्यते नित्यम् ॥३६॥ दर्शय तत्करवालं कुमारवचसेत्यदर्शयत् सा तत् । आदाय तन्निजमसि तत्स्थाने चामुचत् सोऽपि ॥ ३७ ॥ अत्रान्तरे कपाली सोऽथागान्नृपसुतः स्वरूपधरः। तमतर्जयत् तदैपोऽप्यादाय विकोशनिख्रिशम् ॥ ३८ ॥ यावदढौकत योर्बु तावन्नीतः क्षणेन संयमिनीम् । ताः सर्वाश्चाहृप्यन् वीक्ष्य मृगाक्ष्यस्तदिदमखिलम् ॥ ३९ ॥ भणितं ततश्च गिरिसुन्दरेण शंसत मृगेक्षणाः! स्व स्वम्। स्थानं तत्र च युवतीर्भवतीः संप्रापये सद्यः ॥ ४० ॥ ताश्च सुभद्रावचसा ज्ञात्वा गिरिसुन्दरं ततोऽवोचन् । लज्जामहे ह्यनार्या दर्शयितु स्वं मुखं स्वेषाम् ॥ ४१ ॥ तदिदानी त्वं शरणं मरणं वा नोऽस्तु दैवहतकानाम् । भवतोपकृतिक्रीताः न शक्नुमस्त्वां ततो मोक्तुम् ॥ ४२ ॥ इति कुरु पालनमथवा ज्वालनमनलेन हीनदीनगिराम्। करुणकरसाः सुजनाः उचितानुचिते न गणयन्ति ॥४३॥ इति विहितनिश्चयास्ता दृष्ट्वा सकृपं नपाङ्गभूर्दध्यौ । ही शुद्धानामपि मुग्धानामासीद् व्यसनमासाम् ॥ ४४ ॥ म्रियमाणा अपि तावद् द्रष्टुं शक्नोमि नो कथञ्चिदमः। तदहं भवामि नाथोऽप्यासां संप्रत्यनाथानाम् ॥ ४५ ॥ इति निश्चित्यैताभी रममाणोऽसावतिष्ठदथ मासम् । स्मृत्वाऽन्यदा स्वबन्धून् संस्थाप्य प्रणयिनीस्तत्र ॥ ४६ ॥ कृतरूपपरावर्त्तः पाण्डुपुराभ्यासमागतो दृष्ट्वा । शोकाकुलानशेषानपि पौरान् कमपि सोऽपृच्छत् ॥४७।। (युग्मम्) तच्छोकहेतुमथ सोऽप्याख्यद् गिरिसुन्दराभिधो नृपमूः। निरगात् कदापि दस्युग्रहणाय न चागतो गतो मासः॥४८॥
00000000GOOGGGGGGGO0000GGE
For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
DDE
D
10000000000000000000000000
अद्य तु युवराजमुतश्च रत्नसारस्तमन्वगात् कापि । सविशेष दुःखानामुत्कर्षों वर्द्धते तेन ॥ ४९ ॥ तद्वज्रघाततुल्यं वचः समाकर्ण्य निर्गतो नगरात् । भ्रातरमन्वेषयितुं गिरिसुन्दरनामकस्त्वरितम् ॥ ५० ॥ ग्रामाकरनगरारण्यभूमिभृच्छृङ्गगिरिनिकुञ्जेषु । भ्रामं भ्रामं पृच्छन्नध्वन्यानगणितक्षुत्तृद ।। ५१ ॥ कुत्रापि न तद्वार्ता प्रापदसो कचिदथापि देवकुले । शृणुते पथिकालापांस्तत्रैकोऽवददहो ! शृणुत ॥५२॥ कौतुकमेकं यदहं दिदृक्षुरभियोगतो विविधदेशान् । भ्राम्यन्नुद्वसदेश प्राप्तः श्वापदशताकीर्णम् ॥ ५३॥ मिलितोऽथामरनिरुपमरूपो भूपाङ्गभूस्तदा कोऽपि। तेन समं पथि गच्छन् शून्यपुरं किमपि वीक्ष्याग्रे॥५४॥ रमणीयमिति सकौतुकमावामालोकयाव इदमखिलम् । रुचिरतरविपणिमुरहऱ्यातुङ्गवाप्रपाऽऽकीर्णम् ॥ ५५ ।। निशि निशितासिशयो शेवहे स्म तत्र प्रबुद्धमथ पूर्वम् । नृपसुतमागत्य तदा व्याघ्रःप्रोवाच नरवाचा ॥ ५६ ॥ नृपसनो ! क्षुधितोऽहं तद् देवनं नरं कुरु कृपां मे । अवदत् सोऽपि न शरणागतं विमुश्चामि मां भुक्ष्व ॥५७|| शरणागता भटानां सिंहानां केसरा उरः सत्याः। चूडामणयः फणिनां गृह्यन्ते जीवतां नैव ।। ५८ ।। इत्युक्त्यवगततन्निश्चयोऽथ नृपसुनुमालपद् व्याघ्रः । त्वत्सत्वात् तुष्टोऽस्मि प्रार्थय किमपीप्सितं भद्र ! ॥ ५९॥ कस्त्वमिति नृपभुवोक्ते देशस्यास्यास्मि नायकोऽनिमिषः। कथमुद्रसस्तदेष त्वयि सत्यपि विस्मयोऽयं मे ॥६॥ इति पृष्टोऽयं निजकं प्रकाश्य रूपं जगाद परमार्थम् । गन्धारनाम्नि नगरे रविचन्द्रो नाम नरनाथः ॥ ६१ ॥
यतः
OODEODOD
॥५॥
For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वीचन्द्र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रतिचन्द्रकीर्त्तिचन्द्रौ तस्याभूतामुभौ प्रियौ पुत्रौ । राज्यं च यौवराज्यं तयोर्वितीर्याथ रविचन्द्रः || ६२ ॥ प्रात्राजीत् स्वयमथ रतिचन्द्रो गेयादिरसवशत्वेन । सर्वेषु कीर्त्तिचन्द्रं नियुक्तवान् राजकार्येषु ।। ६३ ।। प्रचुर लाभाभिभूतः स च सर्वे राज्यनात्मसात् कृत्वा । बद्धा रतिचन्द्रनृपं द्रुतं वधायादिशत् तं च ॥ ६४ ॥ रतिचन्द्रोऽपि सदैन्यं प्रोचे भ्रातर्न युज्यते भवतः । कुन्देन्दुकम्बुत्रिमले कुले मषीकूर्चकं दातुम् || ६५ ॥ यदि राज्यलालसस्त्वं तद् दत्तं ते मयैतदखिलमपि । यदि न प्रत्येषि तथाऽपि मुञ्च यत् तातमनुयामि ||६६ || इत्युक्तोऽपि न मुञ्चति यदा तदाऽसौ जगाद रतिचन्द्रः । माभूत् तत्रैवमयशो रचय चितां यद् विशाम्यग्निम् ||६७|| तेन च तथाकृतेऽसावविक्षनलं नृपः सभार्योऽपि । ही ही लुब्धात्मानः कृत्याकृत्ये न गणयन्ति ॥ ६८ ॥ मृत्वा च स रतिचन्द्रः सञ्जातो भूतरमणयक्षोऽहम् । या मतिरन्ते सा गतिरिह यस्माज्जायते जन्तोः ॥ ६९ ॥ स्मृत्वा निष्कारणवैरिणं च कुपितोऽक्षिपं च सर्वजनम् । अन्यान्यजनपदेष्वप्यनश्यदथ कीर्त्तिचन्द्रः सः ॥७०॥ अहमेत जनपदमथ तिष्ठामि वीक्ष्य वामत्र । छलनायैतः प्रीतः सच्चेन तत्रैव परमार्थः ॥ ७१ ॥ अथ कथय किमपि यद्भवदिष्टं संपादयामि यदमोघम् । भवति सुरदर्शनं नृपसुतोऽप्यवम् देव ! यद्येवम् ||७२|| वासय जनपदमेतं तत् पुण्यजनेश ! चेत् प्रसन्नोऽसि । यद् याञ्चाभङ्गकृतो भवन्ति न भवादृशाः कापि ॥ ७३ ॥ सोऽप्याह चेत् प्रभुत्वं प्रपद्यसेऽस्यात्र तत् प्रकुर्वेऽदः । भ्राताऽपि ते मिलिष्यति मासान्ते तस्थुषेश्चात्र ।। ७४ ।।
For Private and Personal Use Only
वरितम् ।
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिपन्ने तेनेति श्रतपरितोषस्तिरोहितो यक्षः । प्रातः प्राप्ताश्च ततः समन्ततः सर्वसामन्ताः ॥ ७५ ॥ अभिषिक्तोऽसौ राज्ये ख्यातो देवप्रसाद इति नाम्ना । पालयति तत्प्रभुत्वं निजसुकृतभरार्जितं सततम् ॥७६॥ भणितोऽहं तेन सखे ! आवाभ्यामर्जितं प्रभुत्वमिदम्। तदनुभवाव उभावप्यथवा भुङ्क्ष्व त्वमेवेदम् ॥ ७७ ॥ भणितं मया वयस्यादिष्टो देवेन सङ्गमो भ्रातुः । मासान्ते तत् तिष्ठ त्वमहं पश्यामि ते बन्धुम् || ७८ || कथय परं निजबन्धोरभिधां किं हेतुना स वा निरगात् । सोऽवोचद् गिरिसुन्दर नामा मे बन्धुरो बन्धुः ॥७९॥ स च पाटचरनिग्रहकृताग्रहो निर्गतोऽन्यदा नगरात् । न प्रत्यागात् तमहं विलोकयन्नागतोऽत्र सखे ! ॥ ८० ॥ श्रुत्वेति तदुक्तमहं निरगामथ तद्गवेषणायेतः । पृच्छामि वोऽध्वनीनास्तदिहग्लक्षणः पुरुषः ॥ ८१ ॥ दृष्टः कापि भवद्भिजामि यत् तत्र तं विलोकयितुम् । गिरिसुन्दरोऽथ नृपसूः श्रुत्वेत्यन्तर्मनो दध्यौ ॥ ८२ ॥ ( युग्मम). नूनं स एष पथिकप्रोक्तो देवप्रसादपरनामा | देवप्रदत्तराज्यो विराजते रत्नसार इति ॥ ८३ ॥ निश्चित्येति तमध्वगमवक् स भोस्तप्यसे वयस्यकृते । देवप्रसादमीक्षितुमपि यदकुण्ठा ममोत्कण्ठा ॥ ८४ ॥ विनयादिना हरिष्यामि मानसं मानसंकुलं तस्य । नृपतेस्तथा यथाऽसौ नहि स्वबन्धोरपि स्मर्त्ता ॥ ८५ ॥ उक्त्वेति तावुभावपि चलितौ गन्धारपुरवरं प्राप्तौ । गिरिसुन्दरोऽथ मुमुदे निरीक्ष्य तं रत्नसारनृपम् ॥८६॥ कृतरूपपरावर्त्तं गिरिसुन्दरमनुपलक्ष्य भूपोऽपि । प्राह वयस्थं कोऽयं महानुभावः १ स चाचख्यौ ॥ ८७ ॥
For Private and Personal Use Only
॥५९॥
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
चरितम्
TTTTTTTTTTTTMOOC
देवचरणान् दिक्षुर्विद्यासिद्धो मयाऽत्र साकमयम् । आगादथ मासावधिपूतों भूपोऽवदन्मित्रम् ॥ ८८ ॥ मासस्तावदतीतो बन्धुर्मे नागतो विसंवदति । किं सुरवचोऽपि तदलं राज्येन च जीवितेन मम ॥ ८९ ॥ एवं विषादविवशं गिरिसुन्दर आह रत्नसारनृपम् । अहमेव सोदरस्ते सुरेण नूनं समादिष्टः ॥९० ॥ अहमपि बन्धुनिरीक्षणनिमित्तमवनीतलं परिभ्रान्तः । त्वदर्शनसंतोषाद् विरतोऽस्म्यधुना परिभ्रमणात् ॥९॥ त्वमपि विरम मम सङ्गमवशादमुष्माद् विकल्पतो नृपते! । तुल्यक्रियाप्रवृत्तिः प्रणयस्य हि सारमिदमेव ॥१२॥ श्रुत्वेति रत्नसारो दध्यौ गिरिसुन्दरे यथाप्रेम । स्फुरति तथास्मिंस्तत्कृतरूपान्तर एप मे बन्धुः ॥९३ ॥ निश्चित्येत्यवददयो प्रातः ! किं मां प्रतारयस्यधुना। प्रकटय सौवं रूपं तथाऽकरोत् सोऽपि मुदितमनाः ॥१४॥ अन्यदिने महसेनं पूर्वोदितसहचरं निजे राज्ये । ताभ्यामभिषिच्योक्तं तृतीयबन्धुस्त्वमसि नौ यत् ॥ ९ ॥ भुक्ष्व तदिदं विभुत्वं चावां पित्रोवियोगदावाग्निम् । शमयाव इति भणित्वा चलितौ तौ गुरुचमृयुक्तौ ॥१६॥ पाण्डुपुरं संप्राप्तौ श्रीबलभूपोऽपि शतबलादियुतः । विज्ञाततदागमनोऽभ्यगादथ विस्फुरत्पमदः ॥ ९७ ॥ सर्वे महामहेन प्रविविशुरुत्तुङ्गतोरणं नगरम् । निजनिजचरित्रमेतावबोचतां चित्रकृत् पित्रोः ॥ ९८ ॥ श्रीवलभूपस्तत् तनयाद्भुतभाग्यं हृदा समवधार्य । जयनन्दनमुनिमागतमपाक्षीत् प्राग्भवचरित्रम् ।। ९९ ॥ अत्याश्चर्यकरं यन्मुमुक्षवे दानमाहितं पीत्या। चत्वारोऽपि भवन्तोऽसमशर्मपदं ततो जाताः ॥१०॥
3666666666666000000066GGO"
।
सर्वे महामावलभूपोऽपि शतम् । शमयाव इति
For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
66666666666666336996353GS
नद्या-अत्रैव भरतक्षेत्रे प्रतिष्ठानपुरे पुरे । सुमेपकुलपुत्रस्य विन्ध्यशंबरनामकौ ॥१०१॥
पुत्रौ परेतयोः पित्रोदुःस्थौ संप्रस्थितौ ततः। काश्चनाख्यपुरं काप्यन्तरा कान्दविकापणात् ॥ १०२ ॥ आदाय खाद्यमुद्यानं प्रस्थितौ तावपश्यताम् । मासोपवासिनं साधुं पारणार्थमुपागतम् ॥ १०३ ।। प्रत्यलाभयतां शुद्धर्भक्ष्येण विहिताग्रहौ । परं प्रमोदमापन्नौ प्रपन्नौ बोधिमुज्ज्वलम् ॥ १०४ ॥ (कलापकम्). अत्रान्तरे तदुद्यानयक्षपूजार्थमागते । नृपपुश्यावृद्धिवृद्धयभिधाने तदपश्यताम् ॥ १०५ ॥ अहो ! सुदानमनयोरहो ! सुकृतसञ्चयः । अहो ! सुलब्धं जनुरित्यन्वमोदयतां हि ते ॥ १०६ ॥ द्वाभ्यां दानेन चोभाभ्यामनुमोदनया तदा। शुभानुवन्धं मत्पुण्यमर्जितं मार्जितं त्वघम् ॥ १०७ ॥ मुनिदानेन सन्तुष्टौ तो विन्ध्यवराभिधौ । तत्काञ्चनपुरं प्राप्तो विश्रामाय बने स्थितौ ॥ १०८ ॥ अत्रान्तरे राजपट्टहस्त्याधारणमुन्मदः । अवधृयाखिलद्रङ्गेऽसमञ्जसमवर्त्तयत् ॥१०९ ॥ चन्द्रराट् प्राह भोः ! कोऽपि शूरो वीरोऽस्ति विश्रुतः । य एनं मत्तमातङ्गं वशमानयति द्रुतम् ॥११०॥ श्रुत्वेति विन्ध्यस्तत्रत्यात यत् तमनेकपम् । खदायत्वा चिरं धृत्वाऽबध्नाच्छालासु हस्तिनाम् ॥११२।। साधुवादः समुद्भुतः स चाहूतः क्षमाभुजा । उक्तश्च तव सत्त्वेन तुष्टो वृणु वरं स्वयम् ॥ ११२ ॥ विन्ध्योऽपि स्माह सर्वेषां वरागां प्रवरो वरः । यद् देवदर्शनं जातमर्थ्यते किमतः परम् ? ॥ ११३ ॥
366060360666666660032000€
॥६॥
For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वीचन्द्र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथवा चेल्लभे स्वष्टं सेवे देवपदस्तदा । स्वीकृतं तन्नृपेणापि तद्दानाचिन्त्यपुण्यतः ॥ ११४ ॥ ततो नृपं सिषेत्रात द्वापि समाहितौ । कालेन कालधर्म तो प्रतिपद्य समाधिना ॥ ११५ ॥ सातौ युग्मिनों देवकुरुतावुभावपि । त्रिगव्यूततनू पल्यत्रितयममितायुषौ ॥ ११६ ॥ ( युग्मम् ). दानानुमोदनापुण्यान्नृपपुत्र्यावपीह ते । तयोरेव प्रियात्वेन तत्रैवोत्पत्तिमापतुः ॥ ११७ ॥ तद्युग्मियुगलं तत्रा भूय सुखमद्भुतम् । सौधर्मत्रिदिवं प्रापद् गतापत् पापवर्जितम् ॥ ११८ ॥ ततयुत्वा पाण्डुपुर महाबलनरेशितुः । विलासवत्यां प्रेयस्यामभूतां तनयावुभौ ॥ ११९ ॥ प्राक प्रेयस्योस्तयोरेका पद्मखण्डपुरे वरे । महसेननरेशस्य दुहिताऽभूत् सुलक्ष्मणा ॥ १२० ॥ द्वितीया तु विजयपुरे राज्ञः पद्मरथस्य च । लक्ष्मणा नाम पुत्र्यासीद् दासीकृतसुराङ्गना ॥ १२१ ॥ श्रुत्वा सुलक्ष्मणा साऽथ मागधाद् गुणकीर्त्तनम् । श्रीबले सानुरागाऽभूत् परस्मिन्नपि लक्ष्मणा || १२२|| अत्रान्तरेऽथ श्रीगुप्त सिद्धपुत्रेण सोऽर्थितः । विद्यासाधनसाहाय्ये श्रीबलो विलसद्वलः ॥ १२३ ॥ प्रतिपन्नेऽमुना भूतेष्टायां पितृवने निशि । हरन् श्रीगुप्तमुच्चण्डः पिशाचो ददृशे महान् ॥ १२४ ॥ घृतासिस्तमनुक्रामन् श्रीबलोऽगान्महाटवीम् । पिशाचोऽन्तरधात् प्रातः श्रीगुप्तोऽपि न दृश्यते ॥ १२५ ॥ विषण्णः श्रीवलोऽन्वेष्टं श्रीगुप्तं प्राचलद् द्रुतम् । पाशं क्षिप्त्वा गले तावद् रुदन्तीं कामपि स्त्रियम् ॥ १२६ ॥
For Private and Personal Use Only
चरितम् ।
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
POOOD9990000000
निरीक्ष्य तत्र कान्तारे यावद् विस्मयमावहन् । स्थितोऽस्त्यवहितीभूय तावच्छुश्राव तद्गिरम् ॥ १२७ ॥ (युग्मम्.) शृण्वन्तु लोकपालाद्याः पतियद्यत्र जन्मनि।श्रीवलो न भवेद् मेऽसौ भूयात् तदन्यजन्मनि ॥ १२८॥ इत्युल्लापपरा बाला तत्र स्वं सहसाऽमुचत् । चिच्छेद श्रीवल: पाशं खं चोपालक्षयंस्तदा ॥ १२९ ॥ ततः प्रमुदिता लज्जाऽवनम्रवदनाऽथ सा | स्ववृत्तान्तमशेषं तं श्रीबलाय न्यवेदयत् ॥ १३० ॥ पद्मखण्डपुरे पुत्री महसेनस्य भूपतः। नाम्ना सुलक्ष्मणा पित्राऽदायि श्रीवलभूभुजे ॥१३१॥ रममाणाऽन्यदोद्याने जहे केनापि पापिना। खेचरेण रुदन्त्यत्र मुक्ताऽस्म्येषा महावने ॥ १३२ ॥ स चापराजितां विद्या साधयन्नस्ति खेचरः । लब्धावसरया मृत्यौ मया व्यवसितं तदा ॥ १३३ ॥ एवं मिथः समुल्लापे वर्तमाने तयोस्तदा । स श्रीगुप्तः सिद्धपुत्रस्तत्रागादपतर्कितः ॥ १३४ ॥ तं वीक्ष्य श्रीबलोऽवोचत् सिद्ध ! क्रुद्धपिशाचतः । छुटितोऽसि कथं सोऽपि व्याजहार नृपाङ्गजम् ॥१३५॥ मित्र ! व्यामोहितोऽसि त्वं माययाऽनेन यत् तदा। सिद्धविद्योऽप्यभूवं त्वद्वियोगात् किन्तु दुःखभाक ॥१३६॥ त्वत्सत्त्वरजितेनापि पिशाचेन प्रियाकृते । त्वमानीय विमुक्तोऽसि विलम्ब मा कुरुष्व तत् ॥ १३७॥ गान्धर्वेण विवाहेन मियापाणिग्रहं कुरु । तथाकृते पाण्डुपुरं प्राप्ताः सर्वेऽपि विद्यया ॥ १३८ ॥ अथेदमखिलं वृत्तं पद्मखण्डपुरेशितुः । महसेननरेशस्य ज्ञापयामास पार्थिवः ॥ १३९ ॥
-
0000LBERRBELTDCDDEDD000
DOEBEORE
For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
थ्वीचन्द्र
चरितम् ॥
00000000000000000000000000
महसेनोऽपि भूभर्ता श्रुत्वा तच्चरितं मुदा । सचिवान् प्रेष्य तत्पाणिग्रहोत्सवमचीकरत ॥ १४० ॥ इतो भ्रातरमन्वेष्टुं जनकानुज्ञयाचलत् । बली शतबलोऽपश्यत् तापसाश्रममग्रतः ॥ १४१ ॥ रुदन्तीस्तापसीस्तत्र दृष्ट्वाऽपृच्छत् कुमारराट् । ता अप्याहुमहद् जज्ञे प्रदेशेऽत्रासमञ्जसम् ॥ १४२ ॥ तद् दृष्ट्वा कृपया जाता वयं शोकातुरास्ततः। तदेतत् किं कुमारोक्ते ऊचुस्ता अपि तत्पुरः॥ १४३ ॥ अद्यात्र नन्दिनी पद्मरथस्यावासिता निशि । लक्ष्मणाख्या शतबलं परिणेतुं कृताग्रहा ॥ १४४ ॥ पित्राज्ञया पाण्डुपुरं प्रतस्थौ सा बलान्विता । किरातविषयेशेनार्थिता प्राक कुअरेण सा ॥ १४५ ॥ तामनासादयन् सोऽथ छलं पश्यनिरन्तरम् । प्रदेशेऽत्र समागत्य दुर्बुद्धिः सहसाहरत ॥ १४६ ।। निराशा सा शतबले बराकी मृत्युमाप्स्यति । इति संभावयन्त्योऽद्य शोकाविष्टा अमूर्वयम् ॥ १४७ ॥ श्रुत्वेति तं शतबलोऽवधावत् सबलो रिपुम् । कुञ्जरं जर्जरं कृत्वा तत्क्षणालक्ष्मणां ललौ ।। १४८ ॥ प्रशस्तेऽह्नि पाण्डुपुरं प्राप्य पाणिग्रहं व्यधात् । लक्ष्मणाया नृपाः सर्वे तद्विवाहमहं व्यधुः ॥ १४९ ॥ चत्वारोऽपि मुनिदानादवापुः सुखमद्भुतम् । जातिस्मरणतस्तेऽपि सर्वे प्राग्वृत्तमस्मरन् ॥ १५० ॥ अथ पृष्टो मुनीन्द्रस्तरपहृत्य सुलक्ष्मणाम् । तस्य विद्याधरस्याभूत को वृत्तान्तस्ततो वद ॥ १५१ ॥ भगवानाह स भ्रष्टविद्यः कष्टशतं व्रजन् । कदाचिन्मुनिवाक्यानि श्रुत्वा बुद्धोऽग्रहीद् व्रतम् ॥ १५२ ।।
DOORD000000000000000000
For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
000000000000000000000000
क्रमेणाष्टविधं कर्म दग्ध्वा ध्यानमयाग्निना । निर्मलं केवलं प्राप्य निवृतोऽपि क्रमादसौ ॥ १५३ ॥ इति श्रुत्वा मुनेर्वाक्यं नृपः संविनमानसः । राज्ये शतबलं न्यस्यन् व्रतार्थ यावदुत्थितः ॥ १५४ ॥ तावच्छतवलोऽवोचत् ताताहमपि संयमम् । त्वया सहाङ्गीकर्ताऽस्मि निश्चयोऽयं ममाभवत् ।। १५५ ॥ (युग्मम्.) तन्निर्बन्धमथावत्य स्वराज्ये गिरिसुन्दरम् । यौवराज्ये रत्नसारमभिषिच्य महामहम् ॥ १५६ ॥ श्रीबलशतबलावप्युभौ जातो महामुनी । असिधाराग्रनिशितं पालयामासतुव्रतम् ॥ १५७ ॥ अथान्यदा राज्यरमां भुआनो गिरिसुन्दरः । स्वप्ने कल्पद्रशाखाग्रासीनमात्मानमैक्षत ॥ १५८ ॥ प्रत्यूषे मङ्गलातोधैः प्रबुद्धोऽथ घराधवः । महत् स्वप्नफलं ध्यायन प्रापोद्याने जिनालयम् ॥ १५९ ॥ नत्वार्हन्तं बहिश्चततले वीक्ष्य महामुनिम् । पञ्चधाभिगमनत्वाशृणोत् तद्धर्मदेशनाम् ॥ १६०॥ संवेगरङ्गमापन्नः प्रोवाच धरणीधवः । रत्नसारकुमारं तं व्रताभिप्रायमात्मनः ॥ १६१ ॥ सोऽपि प्रोत्साहयामास तं स्वयं व्रतकाक्षया । निवेश्य राज्ये सचिवानुज्ञया सुरसुन्दरम् ॥ १६२ ।। जयनन्दगुरूपान्ते प्रव्रज्योभौ यथाविधि । अवेयके नवमकेभूतामेतावुभौ सुरौ ॥ १६३ ॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रमहाराजर्षिचरिते गिरिसुन्दररत्नसार
महर्षिचरितमष्टमं भवग्रहणम् ।
500GOOGOCOO600660000030000
For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वीचन्द्र
चस्तिम्॥
नवमो भवः।
39900 000000000000000
अथ बङ्गाभिधे देशे ताम्रलिप्ती महापुरी । सुमङ्गलस्तत्र नृपः श्रीप्रभा तस्य वल्लभा ॥१॥ अथ अवेयकात् च्युत्वा गिरिसुन्दरनिर्जरः । तस्याः कुक्षाववातारीत् धजस्वमाभिमूचितः ॥२॥ काले सामूत तनयं प्राचीव दिवसेश्वरम् । स्वमानुसारानाम्ना म कनकध्वज इत्यभूत् ॥ ३॥ रत्नसारसुरोऽप्येष च्युत्वा तस्यैव भूपतेः । स्वयंप्रभाभिधादेव्यां पुत्रत्वेनोदपद्यत ॥ ४ ॥ जयसुन्दर इत्याख्या निर्ममेऽस्यापि भूभुजा । वर्द्धमानावबाप्तौ तौ पावनं यौवनं वयः ॥ ५॥ प्रापतुस्तौ परं प्रेम प्राग्भवाभ्यासतो मिथः। न सा कला न सा विद्या यामधीतौ न तौ जवात ॥६॥ अन्यदा सुरवेगाहरवेगाह्रखेचरौ । राधावेधकृताभ्यासौ तौ कुमारावपश्यताम् ॥ ७॥ प्रमूनवर्ष तदुपर्याधाय खेचरौ गतौ । अहो ! सुरार्चितायेतावित्यसौ पप्रथे कथा ॥८॥ साधुवादमिति श्रुत्वा परितुष्टः सुमङ्गलः । आत्मानं पुत्रिणां धुर्य मेने स विकसन्मनाः ॥९॥
00000HReceDeep000000000
For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
00000000000000000000000
अथान्यदांवरे श्रुत्वा वर्यतूर्यमहारवम् । यावद् विस्मितचित्तोऽभूत् सदःस्थो भूमिवासवः ॥ १० ॥ आगातां नभसस्तावत् सभायां खेचरावुभौ । पोचतुस्तौ नृपं नत्वा देव ! वैताट्यपर्वते ॥ ११ ॥ सुरवेगः सूरवेगश्चापरापरमातृजौ । बन्धू पालयतः श्रेणियखेचरवैभवम् ॥१२॥(विशेषकम.) शतं शतं च कन्यानामभवत्तु तयोर्द्वयोः । अन्यदा वत्सुतौ ताभ्यां राधावेधे निरीक्षितौ ॥ १३ ॥ तत्कलाकौशलपीतौ पुष्पवृष्टिं वितेनतुः । तौ चैतद्गुणमाहात्म्यं स्वपर्षदि शशंसतुः ॥ १४ ॥ तद्गुणश्रवणात कन्यास्ताः सर्वा अपि चैतयोः । कुमारयोरुपयुच्चेवेचन्धरागमुत्कटम् ॥१५॥ अथ तैः खेचरैः सः कन्याभिश्वान्वितौ च तौ। समायातां विवाहाय पागावां प्रहितौ ततः ॥ १६ ॥ ततः प्रमुदितो भूपोऽभिगम्य खेचरेश्वरौ । स्थानाशनायैः सत्कृत्य तद्विवाहमवीवृतत् ॥ १७ ॥ सुरवेगोत्र कनकध्वजायादात सुताशतम् । सूरवेगोऽपि च जयसुन्दराय शतं. सुताः ॥ १८ ॥ अन्या अपि नृपकन्या बह्वीस्तौ परिणिन्यतुः । प्रत्येकमेतयोर्जाता वधूपञ्चशती ततः ॥ १९ ॥ अथान्यदा शुभे घने सुमङ्गलधराधवः । निवेश्य राज्ये कनकध्वज ज्यायांसमाजम् ॥ २०॥ प्रवबाज स्वयं धर्मसागराचार्यसबिधौ । आराधयत् सुचरणविधि सन्चैकसेवधिः ॥ २१॥ कनकध्वजभूजानिः कुमारी जयसुन्दरः । उभावङ्गीकृतागारिधर्मों पालयतो महीम ॥२२॥
DOL9000000000000000RECORE
For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हवीचन्द्र
चरितम्।
DOCCOCOCCCCCCGG6GOCT000000
अथान्यदा नृपो देशदर्शनालोककौतुकी । चतुरङ्गचमूयुक्तो बभ्राम महिमण्डलम् ॥ २३॥ ग्रामाकरपुरादीनि भ्रमन्नृपशतानतः । साकेतनगरं प्रापत् क्रमेण स्वःपुरोपमम् ॥ २४ ॥ तत्रोद्याने जिनगृहे नत्वा श्रीवृषभप्रभुम् । निर्गतो द्रुतलासीनं स मुमुक्षुमवन्दत ॥ २५ ॥ विधाय देशनां तत्र विरते मुनिपुङ्गवे । ततः कपिञ्जलो नाम पुरोधा अभ्यधात् क्रुधा ॥ २६ ॥
बुधैर्विधीयते धर्म इति शर्मनिबन्धनम् । तदेतच्चण्डपाखण्डमुण्डतुण्डैकताण्डवम् ॥ २७ ॥ तथाहि-सर्वमेव भवेज्जीवसद्भावे स च नास्ति यत् । प्रत्यक्षादिप्रमाणेश्चाग्राह्यत्वेन तथा ह्ययम् ॥ २८॥
स्तंभकुंभांभोरुहादिवच्चक्षुा न हीक्ष्यते । श्रवसा वेणुपणवकणवच्छ्रयते च न ॥ २९ ॥ घ्राणेन गृह्यते नापि गन्धधुल्यादिगन्धवत् । मधुराम्लादिरसवल्लिह्यते न च लोलया ॥ ३०॥ न परिस्पृश्यते शीतोष्णादिस्पर्शवदन्वहम् । तस्माज्जीवो नास्त्येवाक्षपश्चकागोचरत्वतः ॥ ३१॥
नास्ति जीवः किन्तु पश्चभूतपरिणाम एव नरतिर्यक्शरीराणां व्यवहार इति तदुक्ते गुरवोऽवीचन्, भो भद्र ! तव जीवाभावसाधकमेतद्विज्ञानं विद्यमानमविद्यमानं वा ? न तावद् विद्यमानममूर्तत्वेन, करणपञ्चकाग्राह्यत्वात् । अविद्यमाने च तस्मिन् जीवः सिद्ध एव प्रतिषेधकाभावात् । अन्यच्च बधिरान्धादिभिरनुपलभ्यमाना अपि सन्ति रूपादिपदार्थाः तदन्येषामुपलंभाच्च एवं छद्मस्थापत्यशोऽपि ज्ञानातिशयसंपन्नपरममुनिप्रत्यक्षोऽस्त्येव जीवः ।
900CCC0000000000000OO0IOSO
For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथ' — अनिन्द्रियगुणं जीवमग्राह्यं चर्मचक्षुषाम् । सिद्धाः पश्यन्ति सर्वज्ञा ज्ञानसिद्धाश्च साधवः || ३२ || तथा भद्र ! य एष भूतपरिणामश्चेतनाव्यवहारस्तत्र तानि भूतानि चेतनान्यचेतनानि वा ? यदि चेतनानि तदा सिद्धा एकेन्द्रियादयो जीवाः अथाचेतनानि तत् कथं तेषां समुदायेनापि चेतनापरिणामः संभवति ? यद्येषु प्रत्येकं नास्ति तेषां समुदायेऽपि नास्ति तैलमित्र वालुकाघाणक, न च वक्तव्यं जलगुडतन्दुलादिषु प्रत्येकमविद्यमानमपि संयोगेन मदजननसामर्थ्यमुपलभ्यते । प्रत्येकमपि तेषां बलवृद्धिजनकत्वेन मदलेशहेतुत्वात् इत्यादि सविस्तरमुक्ते मुनिपतिना प्रत्युत्तरमलभमानः स्थितस्तूष्णीकः कपिञ्जलः । पुनर्भणितं गुरुणा, भद्र ! न तवैष स्वाभाविकः कुबोधः किंतु त्वं पूर्वदुष्कृतोपनतजात्यन्धभावेन मिथ्यात्वोदयप्रच्छादितभयेन केशवाभिधानमातुलेन दुःशिक्षितोऽसि ।
अथ पुरुषोत्तमभूपो नत्वा मुनिपं व्यजिज्ञपचेति । भगवन् ! किमनेन कृत पूर्व यस्योदियाय फलम् ! ॥ ३३ ॥ मुनिराख्यदत्र भरते आसीद् दासीकृतारिनिकुरंबः । वीराङ्गद इति नृपतिर्निजप्रतापाधरिततपनः ॥ ३४ ॥ सकलगुणसङ्गतोऽपि द्विजेश इव लक्ष्म नो जहौ जातु । पापर्द्धिदूषणमसौ चलितस्तद्धेतवेऽन्येद्युः || ३५ ॥ मृगयाकृते प्रववृते निहन्यमानेषु रङ्कुशशकेषु । एकस्तु कोलबालः कापि निकुञ्जे निलीयास्थात् || ३६ || स च तद्वधाय विशिखं ततश्च चिक्षेप निःकृपो भूपः । यावत् पश्यति गत्वा त तावद् ध्यानिनोऽत्र कस्यापि ||३७|| साधोः पदान्तरे तं पतितमिषं वीक्षते न तं च किरिम् । संभ्रान्तोऽसौ दध्यावहो ! महादुष्टचरितोऽहम् ||३८|| (युग्मम्.)
For Private and Personal Use Only
॥ ६४ ॥
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरितम् ॥
SODGCARRESERIODES
मुनिघातपातकेन स्पृष्टोऽस्मि मनाए न चेति निध्यायन्। मुनिपादपङ्कजेषु न्यपतद् विनयावनतकायः॥ ३९ ॥ क्षमयामास मुनिवरं पापेन मया कृतोऽयमपराधः । तन्मे प्रसीद यद्भवदके क्षिप्तं मयास्ति शिरः ॥ ४० ॥ इति चाटुपरो भूपो ध्यानं संपूर्य साधुना भणितः। माभैभूवल्लभ ! यत् सरोषतोषा न खलु मुनयः ॥ ४१ ॥ नवरं शृणु मद्वचनं करिकर्णचलेषु भोगयोगेषु । पापारंभेषु रतिं कर्तुं क्षणमपि न ते युक्तम् ॥ ४२ ॥ इति मुनिवचसा बुद्धो लब्ध्वा बोधि दधौ स गृहिधर्मम् । वीराङ्गदभूमिधवः स्वमनो निर्माय निर्मायम् ॥ ४३ ॥ तत्र जिनप्रियनामा श्राद्धो नृपतेः ससर्ज साहाय्यम् । जिनपूजादिषु तेनामन्यत तं गुरुधिया भूपः ॥ ४४ ॥ अस्ति च तत्रैव पुरे मोहननामा च नामभृच्छ्राद्धः । श्रावककुलानुजीवी जिनपियस्तेन भणितोऽथ ॥ ४५ ॥ दर्शय मे तं नृपति यत्तनिश्रास्थितोऽस्मि निश्चिन्तः। तेनापि तथा विहिते राज्ञा पूजादिषु नियुक्तः ॥ ४६॥ नृपसंमत इति जातः शेषजनस्यापि गौरवस्थानम् । यत् स्वीकृतो महद्भिर्महीतले को न महनीयः ॥ ४७ ॥ राज्याईमन्यदा वीरसेनमाजमनुस्मरन् भूपः । निर्विण्णकामभोगो विरचितवरचरणपरिणामः ॥ ४८ ॥ नपेण मोहनः प्रोक्तो धर्माचार्य गवेषय । येन तच्चरणोपान्ते अपये संयम मुदा ॥ ४९ ॥ निदध्यौ मोहनोऽप्येवं ममैनं भूपति विना । न सुखाजीविका तेन शठोत्तरमदोऽवदत् ॥ ५० ॥ देव ! संपति कोऽप्यत्र दृश्यते न तथाविधः । गुरुयं पोतवत् श्रित्वा तीर्यते भवसागरः ॥५१॥
10000000000000000000000000
तं यत्तनिवास्थिौरवस्थानम् । यतकामभोगो विरा
For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0 0
80900CA0000000
दुष्करं श्रमणत्वं च मनः पवनचञ्चलम् । तद् वरं गृहिधर्मोऽयं यः समाचर्यते त्वया ॥ ५२ ॥ विराधितव्रतानां स्यादनन्तो भववारिधिः । भ्रष्टस्य मञ्चकात् पीडा न तथा स्याद् यथा गिरेः ॥५३॥ अतएव भवोद्विग्नोऽप्यङ्गीकुर्वे न संयमम् । पौषधाधैर्यथाशक्ति गृहिधर्म समाश्रये ।। ५४ ॥ तमवज्ञाय भूपोऽथ सद्योऽपाक्षीजिनप्रियम् । स च प्रोत्साहयामास संयमे वासवं भुवः ॥ ५५ ॥ इतश्च जयकान्ताहो मुनिस्तत्रागमत् तदा । समं जिनप्रियेणोर्वीपतिः संयममाददे ॥ ५६ ॥ निरतीचारचारित्रमनुपाल्यायुषः क्षये । महाशुक्रे हरेः सामानिकोऽभूद् भूपतिः सुरः ।। ५७ ॥ महर्षीणामथ च्छिद्रान्वेषी द्वेषीव मोहनः । दोषवादी प्रमादी चाज्ञानी मानी च सर्वदा ॥ ५८ ॥ विन्ध्याद्रौ तुङ्गमातङ्गो मृत्वा कालेन सोऽभवत् । दत्तः स शबरैर्बद्धा मथुरेशनरेशितुः ॥ ५९॥ प्राग्जन्माभ्यासतः साधुप्रत्यनीकस्तदाप्यभूत् । वीक्ष्योद्यानेऽन्यदा साधुन क्रुधा तानभिधावितः ॥६॥ पतितोऽगाधग यां मृत्वा श्येनोऽभवत् ततः । ततस्तृतीयं नरकं ततः सिंहोऽभवद् वने ॥ ६१॥ ततोऽपि द्वितीयश्वभ्रे सागरत्रयसंमितम् । प्रपूर्यायुर्महादुःखात् तत उद्धृत्य सोनभृत् ।। ६२॥ श्रीधनाबपुरे कामदत्ताख्यवणिजो गृहे । वसुदत्ताहकान्तायां पुत्रत्वेनोदपद्यत ॥ ६३ ॥ सुमित्रनामा तारुण्यं वर्द्धमानः क्रमादगात् । प्राच्यकर्मानुभावेन दुःखदौर्गत्यभागभूत ॥ ६४ ॥
BOG303000583333509003OC500
For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चन्द्र
चरितम्॥
30000000000000000000000000
जिनप्रियसुरोऽप्येष तस्मिन्नेत्र पुरोत्तमे । विनयन्धरसंज्ञस्य महेभ्यस्य सुतोऽभवत् ॥६५॥ गुणन्धराभिधः सोऽपि क्रमात् संपाप यौवनम् । प्राग्भवाभ्यासतः प्रेम सुमित्रे तस्य चाभवत् ॥६६॥ पञ्चत्वं प्राप्तयोः पित्रोरन्यदा स गुणन्धरः । क्षीणवित्तः क्रमेणायमभूत् परिभवास्पदम् ॥ ६७ ॥ गुणन्धरोऽन्यदा मित्रमूचे रुचिरया गिरा । गत्वा देशान्तरं कुवों यदावां द्रविणार्जनम् ॥ ६८॥ शाठ्यवृत्त्या सुमित्रोऽपि प्रत्यपद्यत तद्वचः । चलितो पण्यमादाय परदेशं धनैषिणौ ।। ६९॥ उल्लद्ध्यानेकविषयान् पापतुस्तौ महाटवीम्। साथै आवासिते तौ च प्रेमतुः कौतुकाद् वनम् ॥ ७० ॥ उदुंबरस्य च्छायायां शयितौ पल्लवासने । गुणन्धरस्य निद्राऽऽगादितरस्तु पलायितः ॥ ७१ ।। आत्तो गुणन्धरो भिल्लैः स च सार्थपुरो वदन् । पलायत जना इत्युच्चरन् सार्थमचालयत् ।। ७२ ।। स्वयं तद्विभवस्वामी जातश्छलविधानतः। आलोकितोऽस्म्यहं स्निग्धदृशा संप्रति वेधसा ॥ ७३ ।। इति सश्चिन्तयन्नेष यावदास्ते मुदास्पदम् । तावद् दावशिखी मध्यन्दिने व्यापनभःस्तलम् ॥ ७४ ।। दग्धानि सर्वभाण्डानि नष्टाः सर्वे दिशो दिशि । जीवमादाय नष्टस्वः स पलायिष्ट दुष्टहृत् ॥ ७ ॥ क्षुत्तृट्पीडातपक्लान्तः सुमित्रोऽथ गिरेस्तटम् । प्रयातस्तत्र शबरैर्बद्ध आर्मेण चर्मणा ॥ ७६ ॥ त्रिरात्रादथ मुक्तस्तैर्भिक्षावृत्याभ्रमद् भुवम् । पापानां कर्मणां यस्माद् भवेदेवंविधा गतिः ।। ७७ ।।
रस्तु पलागि
{
। आलोचित जना
For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0000000000
तथा विश्वस्तमुप्तोऽसावितश्च स गुणन्धरः । प्रबोध्य पल्लीपतिनाऽपृच्छयत प्रथितां कथाम् ॥ ७८ ॥ यथास्थितमथाचख्यौ वृत्तं पल्लीपतेः पुरः । सुमित्रस्तत्र सर्वत्र शोधितस्तेन यत्नतः ॥ ७९ ॥ तमपश्यन् दधद् दुःखं पल्लीशस्तमबुबुधत् । चक्रे चातुच्छवात्सल्यं तस्य स्थानाशनादिभिः॥ ८०॥ एवं तत्रेष्टगोष्ठीभिर्नीताः कत्यपि वासराः । सहस्रवेधिपल्लीशस्तस्मै चादान्महारसम् ॥ ८१ ॥ अवदत् स च तं तारत्रपुताम्रायसामपि । अक्लेशेनास्य लेशेन जायते हेमता क्षणात् ॥ ८२॥ अन्यदापृच्छय पल्लीशं रसालाबुसमन्वितः। तत्साहाय्याद् ययौ वीरपुरं वीरशिरोमणिः ॥ ८३ ॥ तत्रासौ सार्थमार्गावलोकनव्याप्तो निशि । तिष्ठतीष्टवियोगात्तों यावत् तावदथान्यदा ॥ ८४ ॥ क्षुत्तषातः सुमित्रोऽस्य दुर्दशो दर्शनं गतः । गुणन्धरस्य स शठः कण्ठमाश्लिष्य चारुदत् ।। ८५॥ (युग्मम्.) आश्वास्य पृष्टो वृत्तान्तमवदत् सोऽपि तत्पुरः । तवागता तदा निद्रा भिल्लघाटी तदोत्थिता ॥ ८६ ॥ बद्धो भिल्लैरहं नष्टोऽवसरं प्राप्य कहिचित् । अन्वेषयंस्त्वामत्रागां दिष्टयाऽद्य मिलितोऽसि यत् ॥ ८७ ॥ रसलामावधि स्वीयं वृत्तमाख्यद् गुणन्धरः । तस्मै स रसमादित्सुः शठः स्फुटमदोऽवदत् ॥ ८८॥ रसस्यालाबु कुत्रापि वयस्य ! न्यस्य निश्चितम् । आव देशान्तरं कुर्वो द्रष्टुं विविधकौतुकम् ॥ ८९ ॥ इति निश्चित्य तौ पण्यान्यादाय विविधान्युभौ । ताम्रलिप्ती गतौ तत्र भूयाल्लाभोऽभवत् तयोः ॥ ९० ॥
0
GGOOO60366GG5036393533003
॥६॥
DOGE
For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वीचन्द्र
चरितम् ॥
S60650EOलकहर
ततोऽपि यानमारुह्य चीनद्वीपं प्रतस्थतुः । भूरिभाण्डान्यथादाय चलितौ निजमण्डलम् ॥ ९१॥ तीर्णप्राये पयोराशौ सुमित्रो दध्यिवानिति । गुणन्धरणामुनाहं महामि पयसां निधिम् ॥ ९२ ॥ भवामि सर्वविभवविभुरित्युत्थितो निशि । तनुचिन्ताकृते यानपर्यन्तस्थायिनं च तम् ॥ १३ ॥ निरीक्ष्याब्धौ क्षिपेद् यावद् तावत् स्वकर्मदोषतः। स एव पतितोऽभोधौ ही पापानां कुतःसुखम् ॥१४॥ तं तथावस्थमालोक्य विललाप गुणन्धरः। हा हा मम वयस्यस्य किमकाण्डेऽप्यदोऽभवत् ॥ ९५ ॥ शोचन्ने क्रमेणागात् ताम्रलिप्त्यां गुणन्धरः । ज्ञानवांस्तत्र धर्मर्षिस्तमेवं प्रत्यबुबुधत् ॥ ९६ ॥ यत्कृते तप्यसे वत्स ! तस्य त्वं शृणु चेष्टितम् । मुप्तो मुक्तो बने येन कुमित्रेण धनेच्छया ॥ ९७ ॥ यनाब्धौ क्षेप्तुमिष्टस्त्वं तत्रापतत् स एव तु । आपत्सु पान्ति पुण्यानि प्राग्भवोपार्जितान्यहो ! ॥९८॥ जिनप्रिये मोहनस्य मात्सर्य यत् पुराप्यभूत् । तदभ्यासात् सुमित्रस्य द्वेष आसीद् गुणन्धरे ॥ ९९ ॥ कृतानतिरथापृच्छन्मुनिचन्द्रं गुणन्धरः। प्रभो ! सोऽब्धौ तदा मृत्वा सुमित्रः कोदपद्यत ? ॥ १०॥ भगवानाह साकेत पुरे विप्रसुतोऽभवत् । जात्यन्धः केशवो नाम स संप्रत्यस्ति दुःखभाक ॥ १०१॥ गुणन्धरो भवोद्विग्नो मुनेस्तस्य पदान्तिके । श्रामण्यं प्राप्प चाधीत्य जातोऽनूचानपुङ्गवः ॥ १०२ ॥ सोऽहं युष्मत्मबोधाय विहरविह चागमम् । आख्यातमेतदाख्यानं केशवस्य द्विजन्मनः ॥ १०३ ॥
DOE 5000000000000000000008
For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीराङ्गदनृपोऽप्यष सप्तमस्वर्गतश्च्युतः । जातोऽत्रैव पुरे राजा पुरुषोत्तमसंज्ञकः ॥ १०४ ॥ श्रुत्वेति वसुधाधीश वाचं वाचंयमेशितुः । संविग्नो विषयोद्विग्नोऽभ्यार्थयत् संयमश्रियम् ।। १०५ ।। बोधि प्राप्य मुनेर्वाचा प्राञ्जलः स कपिञ्जलः । प्राह प्रभो ! ममापि त्वं देहि देहिहितं व्रतम् ।। १०६ ॥ पुनः पप्रच्छ पुरुषोत्तमः पृथ्वीपतिर्मुनिम् । कपिञ्जलेन भगवन् ! किमाचीर्ण पुरा भवे ? ॥ १०७ ॥ गुरुराख्यद् वसन्ताख्य पुरेऽसौ श्रावकोऽभवत् । शिवदेवाभिधो ब्रह्मचार्यणुव्रतधारकः ॥ १०८ ॥ व्युद्ग्राहितो मोहनेन मात्सर्ये मुनिषु व्रजन् । मृत्वा किल्विषिको जातश्चण्डालेषु ततोऽभवत् ॥ १०९ ॥ ततो धूमप्रभा पृथ्व्यां नारको निर्गतस्ततः । जातः कपिञ्जलस्तेन प्रीतिरस्यास्ति केशवे ।। ११० ॥ अतस्तद्वचसा त्यक्त्वा धर्ममेष कुलागतम् । शिश्राय चार्वाकमतं कुसङ्गो हाथ हानिकृत् ॥ १११ ॥ ऋजुतावान् निजां जातिं स्मृत्वा बुद्धः कपिञ्जलः । केशवस्तु चिरं घोरं संसाराब्धि भ्रमिष्यति ॥ ११२ ॥ इति श्रुतिभ्यामाकर्ण्य पुरुषोत्तमभूपतिः । कपिञ्जलाद्यैर्बहुभिः प्रतिपन्नोऽनगारताम् ॥ ११३ ॥ इति कनकध्वजराजा श्रुत्वा दृष्ट्वा च तच्चरित्राणि । संविग्नो निजराज्येऽभिषिच्य पुत्रं पुरुषचन्द्रम् ॥ ११४॥ जयसुन्दरेण साकं संयममादाय निष्कलङ्कतया । प्रतिपाल्य चिरं मृत्वा विजयविमानेऽभवत् त्रिदशः ॥ ११५ ॥ तत्र द्वात्रिंशन्मितसागरसङ्ख्यायुषौ निरस्तरूपौ । अहमिन्द्रतासुखजुषौ तौ समयं चात्यवाहयताम् ॥ ११६॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रमहाराजर्षिचरिते कनकध्वजराजर्षिचरितं नवमं भवग्रहणम् ।
For Private and Personal Use Only
| ॥६७॥
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
पृथ्वीचन्द्र
दशमो भवः।
{
अथादेशे चंपायां जयो नाम नराधिपः। तस्य प्रियमती देवी देवीव भुवमागता ॥१॥ मिथो घनप्रेमतन्तुस्यूतयोरिव चैतयोः । रतयोराईते धर्मे जग्मुः कत्यपि वासराः॥२॥ च्युत्वा विजयतोऽथासौ कनकध्वजनिर्जरः । जातः प्रियमतीदेव्यां पुत्रत्वेन शुभोदयः ॥ ३ ॥ ततः प्रियमती देवी सुप्ता स्वममगादिति । निजसिंहासनेऽध्यास्य राज्ञा मूर्ध्नि मम स्वयम् ॥ ४ ॥ मणिस्वर्णमयो भास्वान् मुकुटो विनिवेशितः। प्रबुद्धा सा नृपायाख्यत् तं स्वमं जगदुत्तमम् ॥५॥ (युग्मम्.) सोऽप्याह स्म महाभूपः मनुस्ते भविता प्रिये!। ग्रीष्म वन्यदा भूपः प्रियमत्या समन्वितः ॥६॥ विधायोद्यानवापीषु जलकेलिमहं चिरम् । ततो रसालवृक्षाधो न्यषीदजयभूपतिः ॥ ७ ॥ (युग्मम् ) विपञ्ची वादयन्तं तं वीक्ष्य काचित् सुरी बने । सौभाग्यातिशयेनाभूद् भूपरूपेऽनुरागिणी ॥८॥ परस्त्रीविमुखेनाथ निषिद्धा भूधवेन सा । वशा गलत्प्रेमपाशा निराशा विवशा गता ॥९॥ प्रस्तावं पुनरासाद्य सा सुरप्रमदान्यदा । कृत्वा प्रियमतीरूपं पुनर्भूपं समागता ॥ १० ॥
2000000000000000000000000
For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
0000000000000000000000000
न्यायिनाज्ञायि राज्ञापि नेयं प्रियमती प्रिया । किन्तु सा व्यन्तरी मन्ये तपेणात्र चागता ॥ ११॥ ध्यात्वेति मुष्टिप्रहतां विहस्तां च विधाय ताम् । निरस्तां स्वेप्सितप्राप्तेनृपतिर्निरवासयत् ॥ १२ ॥ देवीसमगतो भूपोऽप्यपश्यंस्तत्र तां प्रियाम् । विषण्णोऽचिन्तयज्जहे हा केनापि मम प्रिया ॥ १३ ॥ शोधयन्नपि सर्वत्र यावन्नामोति स प्रियाम् । जग्राह तावन्नृपतिः स्वचित्ते चेत्यभिग्रहम् ॥ १४॥ प्रियासमागमादूर्ध्वं न स्थास्याम्यष सअनि । प्रतिपत्स्ये परिव्रज्यां त्यक्त्वा राज्यधनादिकम् ॥ १५॥ घोरारण्ये विमुक्ताथ व्यन्तर्या प्रियमत्यसौ । व्याघ्रसिंहवराहादिभयवेपितमानसा ॥ १६ ॥ विलपन्ती प्रियमती चलन्ती विषमे पथि । क्षुत्तुट्तापातुरा बाद तापसीभिर्विलोकिता ॥ १७॥ आश्वास्य कुलपत्यने नीता तेन निजाश्रमे । स्थापिता बहुमानेन कियन्त्यपि दिनानि सा ॥ १८ ॥ अथान्यदा कुलपती राजी तां वृद्धतापसः । श्रीपुरं प्रापयद् गर्भभारालसलसत्क्रमा ॥ १९ ॥ तदुद्यानस्थिते चाहद्गृहे साईन्तमानमत् । तदा तत्रागता काचित् श्राविका जिनसुन्दरी ॥ २० ॥ साधर्मिकि ! त्वां वन्देऽहमित्युल्लापपरायणा । ज्ञात्वा तच्चरितं साप्याश्वास्य निन्येऽथ तां गृहे ॥२१॥ धनञ्जयमहेभ्यस्य गृहे सा तस्थुषी सुखम् । नाज्ञासीत् पतिविश्लेषादिकं दुःखं तु किश्चन ॥२२॥ पावृटकालोभ्यदाऽऽयासीद् वियुक्तजनदुर्जनः । स्मृत्वा पति रुदन्ती तां जिनमुन्दर्यबूबुधत् ॥ २३ ॥
ള്ളമട
॥१८॥
For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीचन्द्र
चरितम् ॥
00000000000000000000000
प्रामूत तत्र पुत्रं सा पितृगेह इव स्थिता । धनञ्जयो जयोत्कर्षावहं जन्ममहं व्यधात् ॥ २४ ॥ कुसुमायुधनाम्नाऽसौ रूपेण कुसुमायुधः । क्रमात् त्रिवर्षदेशीयः सातस्तद्गृहे शिशुः ॥ २५ ॥ इतो वासवदत्ताख्यं सार्थवाहं ततः पुरात् । चंपापुरी जिगमिघु श्रेष्ठयाचष्ट धनञ्जयः ॥२६॥ भ्रातः ! पुत्रीमिमां तन्मे चंपां संपादय द्रुतम् । प्रतिपन्ने च तेनासौ चलिता स्वपुरी प्रति ॥ २७ ॥ अथान्तरा समायाते नगरे शिववर्द्धने । सबालापि रसालाधः सा बाला यावदस्वपत् ॥ २८ ॥ इतस्तन्नगरस्वामी सुन्दरः सोदरान्वितः । विहाय हयहस्त्यादि प्राभवं प्राव्रजत् स्वयम् ॥ २९ ॥ ऋते राज्योचितं पुत्रं पञ्च दिव्यानि मन्त्रिभिः । अभिषिक्तानि ते राज्येऽभिषिक्तः कुसुमायुधः ॥३०॥ सार्थवाहस्तच्चरित्रं मन्त्रिणां पुरतोऽवदत् । नृपमातृष्वसुः पुत्रं तेऽप्यवेत्य प्रमोदतः ॥ ३१॥ महामहेन तं बालं महीपालं व्यरीरचन् । समन्तात् सर्वसामन्ताः प्रणेमुस्तं कृतादराः ॥ ३२ ॥ इतोऽवन्तीपुरस्वामी नृपती राजशेखरः । श्रुत्वाऽऽगात् तत्र त बालं भूपालं स्वबलान्वितः ॥ ३३ ॥ जिघृक्षुस्तस्य तद्राज्यं तत्पुरं पयवेष्टयत् । लुब्धात्मानो न यद्वर्णमवर्ण गणयन्त्यमी ॥ ३४ ॥ अथ वासवदत्ताख्यः साथवाहः कियद्दिनः । गतश्चंपापुरीं तत्र जयनाम्नो महीपतेः ॥ ३५ ॥ प्रियमत्याश्च कुसुमायुधस्य नवभूभुजः । वृतान्तमाख्यदखिलं विस्मयात् तं नृपोऽशृणोत् ॥ ३६॥ (युग्मम्.)
seeD0000000000000000000
महामहेन तान्त्रणांपुरती जात्रभिः ।
For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
300000000000seeoooooooooor
ससैन्यो जयभूपोऽथ जगाम शिववर्द्धनम् । मिलितः स प्रमोदेन तत्र पुत्रकलत्रयोः ॥ ३७॥ तत्रैव प्रियमत्याश्च जनको जनकोटिभिः । मानतुङ्गनृपोऽप्येतस्तवृत्तं ज्ञापितोऽखिलम् ॥ ३८ ॥ राजशेखरभूपोऽपि श्रुत्वा व्यतिकरं च तम् । विलक्षः क्षामणाहेतोर्जयराजमुपस्थितः ॥ ३९ ॥ अज्ञातवृत्तेन मया त्वत्सुतोपरि यत्कृतः । मुधा समरसंरंभस्तभूषामर्षवर्जितः ॥ ४०॥ एवं सर्वेऽपि संभूय मैत्रीभावं मिथोऽश्रयन् । चक्रः शक्रसमा भूत्या भपास्तत्र महामहम् ॥ ४१॥ बहूनां भूपतीनां यत् तत्राभूत् सङ्गमः पुरे । तेन तन्नगरं ख्यातं राजसङ्गमनामतः ।। ४२ ॥ राजशेखरभूपोऽथ कन्या द्वात्रिंशतं निजाः । कुसुमायुधभूपाय प्रददौ मुददौस्थ्यतः ॥ ४३ ॥ अन्यदा समवासापत् तत्पुरोधानसीमनि । बहुशिष्यपरीवारो गुणसागरकेवली ॥ ४४ ॥ जयादयो नृपाः सर्वे तं वन्दितुमथागमन् । शुश्रुवुः प्रयतास्तस्य देशनां क्लेशनाशिनीम् ॥ ४५ ॥ प्रबुद्धा बुद्धिमन्तोऽमी सर्वेऽपि वसुधाधवाः । दत्त्वा राज्यानि कुसुमायुधाय परिवव्रजुः ॥ ४६ ॥ कुसुमायुधभूजानिर्भुव एकातपत्रताम् । कुर्वाणोऽईच्छासनस्य परामुन्नतिमानयत् ॥ ४७ ॥ अथ तस्यावनीभर्तृ राजशेखरराट्सुता । स्फुरद्गुणावली पट्टराझ्यभूत कुसुमावली ॥ ४८ ॥ जयसुन्दरदेवोऽस्याः कुक्षौ सरसि हंसवत् । अवातरच्छिखिस्वप्नसूचितो निचितो गुणैः ॥ ४९ ॥
TTTTTTTTTTTTTTTT
॥६९॥
For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
लचरितम्।
രമായ
निःशेषलक्षणोपेततनुः स तनुभूरभूत् । पिता कुसुमकेत्वाख्यां प्रादात् तस्मै मुदान्वितः ॥५०॥ वर्द्धमानः क्रमात् काममामनत् सकलाः कलाः । प्रस्फुरद्गुरुलावण्यं स तारुण्यं वयोऽश्रयत् ॥ ५१॥ नृपोऽथ मथुराधीशो महाकीर्तिर्महाद्युतिः । महामात्येन कुसुमायुधभूपं व्यजिज्ञपत् ॥ ५२॥ देवास्माकं सुता इष्टाः शिष्टा अष्टावनिष्ठुराः । परापराम्बाप्रभवा लसद्धीविभवाश्च ताः ॥ ५३॥ एता उदग्रवदग्ध्यमुग्धाः स्निग्धा मिथोऽवहम् । न कोऽपि वशमानेतुं क्षमते भूपभूः परम् ॥ ५४॥ श्रुत्वा कुसुमकेतोश्चात्यद्भुतं गुणवैभवम् । तद्ध्यानार्थकतानास्ताः स्तुवतेऽमुं मुहुर्मुहुः ॥ ५५ ॥ तत् सर्वथापि कुसुमकेतुं संप्रेष्य सत्वरम् । मनसो निवृतिस्तासां कर्त्तव्यैव किमुच्यते ॥ ५६ ॥ यावद् दत्ते भुवो भर्त्ता तस्मै प्रतिवचः प्रियम् । जयतुङ्गनृपस्तावत् तं दूतेन व्यजिज्ञपत् ॥ ५७ ॥ राजन्नाजन्मसंसिद्धस्फुरद्गुरुगुणवजाः । षोडशोदिततारुण्याः कन्या नः सन्ति संप्रति ॥ ५८॥ उक्तो नैमित्तिकेनासां द्विष्टानामपीष्टदः । गुणैरनूनस्त्वत्यूनुर्वरो विपुलवैभवः ॥ ५९॥ तत्पाणिग्रहणायासां कन्यानां प्रहिणु प्रभो !। सुतं कुसुमकेतुं स्वं परिवारयुतं जवात् ॥ ६ ॥ अत्रान्तरे च साकेतपतिमन्त्री नृपं जगौ । दिक्कन्या इव नः सन्ति सुता अष्टौ गुणैर्युताः ॥११॥ तासां वरकृते तत् त्वां देव ! विज्ञापयाम्यहम् । सुतः कुसुमकेतुस्तद्विवाहाय प्रहीयताम् ॥ ६२ ॥
GGGGGGGGGGGGGGIOCOCCCOCCO
For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऊचे नृपः कुमारोऽयमेकस्तत् कुत्र यात्वयम् । त्रयोऽप्यलध्या यदमी एकत्र प्रेष्यते यदि ॥ ६३ ॥ द्वयोर्हला भवेत् तद्धि बुद्धिमान् मन्त्र्यथालपत् । कुमारस्तिष्ठतादत्रायास्यन्त्येताः स्वयंवराः ॥ ६४ ॥ ( युग्मम्.) सर्वेषां प्रियमेवैतदिति भूपः प्रपेदिवान् । प्राप्ताः स्वयंवरास्तास्ता उपायंस्तावनीशसूः ॥ ६५ ॥ रममाणः समं ताभिर्दोगुन्तक इवामरः । विचक्षणः क्षणमिव कुमारोऽगमयत् समाः ॥ ६६ ॥ पुरन्दरादिश्रमणपञ्चशत्या समन्वितः । अत्रान्तरे समागच्छदुद्याने सुन्दरो मुनिः ॥ ६७ ॥ कुसुमायुधभूपस्तं नत्वा शुश्राव देशनाम् । प्रबुद्धः माह कुसुमकेतुं नाम्ना निजं सुतम् ॥ ६८ ॥ वत्स ! स्वच्छ, समादत्स्व राज्यभारं समाहितः । श्रीसुन्दरगुरूपान्ते येनाहं स्यां व्रतोद्यतः ॥ ६९ ॥ आख्यत् कुसुमकेतुस्त्वामन्तरेण पितः ! क्षणम् । न स्थातुमीशे तदहं त्वयादास्य सह व्रतम् ॥ ७० ॥ तन्निर्बन्धं ततोऽवेत्य सञ्जातव्रतनिश्चयम् । देवसेनकुमारं द्रागभिषिच्य निजे पदे ॥ ७१ ॥ कुसुमकेतुप्रमुखंर्नरपञ्चशतैः समम् 1 प्रावाजीदस्त कुसुमायुधः स कुसुमायुधः ॥ ७२ ॥ ( युग्मम्- ) अन्यदा गुरुवाक्येन प्रपन्नः कुसुमायुधः । सभ्ववाने एकाकिविहारप्रतिमां मुनिः ॥ ७३ ॥ ग्रामे कापि शून्यगेहे स कायोत्सर्गमग्रहीत् । प्रदीपनाशिना दह्यमानोऽपि स्थिरमानसः ॥ ७४ ॥ न चचाल शुभध्यानान्मनागपि महामुनिः । समाधिमृत्युना मृत्वा सर्वार्थे त्रिदशोऽभवत् ॥ ७५ ॥
For Private and Personal Use Only
99363396
॥७०॥
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वीचन्द्र
300000ML IDOL
19900900
www.kobatirth.org
अथ श्रीसुन्दराचार्यः शुक्लध्यानाग्निना द्रुतम् । दग्ध्वा कर्मेन्धनं लब्ध्वा केवलं सिद्धिमाप्तवान् ॥ ७६ ॥ कृत्वा संलेखनां तीव्रां कुसुमात् केतुरप्ययम् । अनुत्तरे विमानेऽभूद् विबुधो जगदुत्तरे ॥ ७७ ॥ त्रयस्त्रिंशत्सागराणि तत्र स्थित्वा हि तौ सुखम् । अवतीय सकृत् सिद्धिं प्राप्स्ये चाचिरादपि ||७८ ||
इति पं० श्री सत्यराजगणिविरचिते श्री पृथ्वीचन्द्रमहाराजर्षिचरिते श्रीकुसुमायुधराजर्षिचरितं दशमं भवग्रहणम् ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
00334
15009
चरितम्
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशो भवः।
eceeD80000000000000
अथास्ति कोशले देशेऽयोध्या नाम महापुरी । हरिसिंहो नृपस्तत्र तस्य पद्मावती प्रिया ॥ १ ॥ इतः सर्वार्थतश्युत्वा कुसुमायुधनिर्जरः । विमानस्वमतः पद्मावतीकुक्षाववातरत् ॥२॥ पूर्णे काले प्रशस्तेऽति सुखं पासूत सा सुतम् । व्यधात् तस्याभिधां पृथ्वीचन्द्र इत्यवनीधवः ॥ ३ ॥ क्रमेणाभ्यस्तसद्विद्योऽनवद्यचरितोऽथ सः । · अवापत् तरुणीनेत्रजीवनं यौवनं वयः ॥ ४ ॥ कन्याः षोडश भूपोऽथ कुमारं पर्यणाययत् । नृसिहो हरिसिंहस्तं महामहपुरस्सरम् ॥५॥ ज्यायसी प्रेयसी तस्य मातुलस्य सुताऽभवत् । जयदेवस्य ललितसुन्दरीत्यभिधानतः ॥ ६ ॥ पथवीचन्द्रः पुनर्भोगविमुखः स्त्रीषु नो रतिम् । मनागप्यभजच्चेति दध्यौ चेतसि सन्ततम् ॥ ७ ॥ अहो ! पितृभ्यामेषोऽस्मि रागाब्धौ पातितः कथम् । यदेता दयिता नैव मां विमुञ्चन्ति जातचित ॥८॥ कथञ्चित तदपायेन प्रेयसीः प्रतिबोध्य ताः । प्रतिपद्ये परिव्रज्यां कुर्या स्वहितमासा ॥ ९ ॥ ततोऽनं निर्मितामन्दधर्मकर्मेच्छमङ्गजम् । मत्वा मोहादश्रुमिश्रनयनो जनकोऽब्रवीत् ॥ १० ॥
9000000000000000000
॥७
॥
For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वीचन्द्र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
are ! स्वच्छadseमाकं तावद् वार्द्धकमागतम् । त्वं तु राज्यरमारामासमागमपराङ्मुखः || ११ | तद् विचार्य यदत्र स्यादुचितं कथयाशु तत् । त्वयि राज्यधरेऽद्यापि यद् वयं राज्यलोलुपाः || १२ || तीरं लोके न चायं नः कुलक्रमः । प्राव्रजन् पूर्वजा यन्नः सर्वे राज्यधरेऽङ्गजे ।। १३ ।। तत् स्वीकुरु त्वमात्मीयं राज्यं मा प्रार्थनां वृथा । कार्षीर्नः स इति श्रुत्वा तत् पित्रोक्तं तथाऽकरोत् ॥ १४॥ ततो निवेशितो राज्ये पृथ्वीचन्द्रो महामहात् । मोदन्ते स्म जनाः सर्वे तद्राज्यं वीक्ष्य विस्मिताः ॥ १५ ॥ अथ पृथ्वीमहेन्द्रेऽस्मिन् पृथ्वीचन्द्रे पृथुद्युतौ । पृथ्वीं शासत्यन्यदैत्य सुधनाऽऽख्यो वणिग्वरः ||१६|| प्राणमत् प्राभृतेनोपति विरचिताञ्जलिः । संमान्य नृपोऽपृच्छदार्ये ब्रूहि किश्चन ॥ १७ ॥ ( युग्मम्.) सोऽप्याह कुरुदेशेऽस्मिन्नस्ति हस्तिपुरं पुरम् । पुरप्रधानस्तत्रासीन्महेभ्यो रत्नमञ्चयः || १८ || सुमङ्गला प्रिया तस्य तयोः पुत्रोऽभवद् वरः । तस्मिन् गर्भस्थिते माता स्वप्रे क्षीरार्णवं पपौ ॥ १९ ॥ गुणसागर इत्याख्या पृथिव्यां पप्रथेऽस्य तत् । क्रमेण वर्द्धमानोऽसौ प्रपेदे मध्यमं वयः ॥ २० ॥ परमाजन्म भोगेषु विरतो गुणसागरः । चक्रे रमासु रामासु न मनागपि मानसम् ॥ अथ तत्र पुरेsभूवन् महेभ्या अष्ट विश्रुताः । तेषां पुत्र्योऽभवन्नष्टौ तास्तारुण्यमगुः क्रमात् ॥ अष्टापि ताः सुता वीक्ष्य कुमारं गुणसागरम् । बद्धानुरागास्तत्रोच्चैः प्रत्यज्ञासुश्च तं पतिम् ॥
२१ ॥
२२ ॥
२३ ॥
For Private and Personal Use Only
चरितम् ॥
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0000000000000000000000000
तासां तं निश्चयं ज्ञात्वा पितरस्ते कनीनिजाः । गुणसागरसंज्ञाय महेभ्याकभुवे ददुः ॥ २४ ॥ वातायनगतोऽन्येार्ददर्श गुणसागरः । मृर्त्त धर्ममिव प्राप्तशमं वाचयमं जवात् ॥ २५ ॥ काप्यपश्यमिदं रूपमित्यूहापोहसङ्गतः । प्राग् जन्म निजमस्मार्षीत् श्रामण्यं च पुराकृतम् ॥ २६ ॥ ततो विशिष्टसवेगरङ्गसङ्गतमानसः । पितरो स्माह न स्थातुं क्षमेऽहं भवचारके ॥ २७ ॥ तत् प्रसद्य व्रतादानानुमति मे प्रयच्छतम् । पाहतुस्तौ वत्स! किं ते सांप्रतं यौवने व्रतम् ॥ २८ ॥ अथ चेद् वत्स निर्बन्धो व्रते ते न निवर्तते । तदोद्वाह्य प्रियाः पश्चात् कुर्यास्तूर्ण स्वमीप्सितम् ॥ २९ ॥ प्रतिपद्य वचः पित्रोः कुमारो गुणसागरः । महामहेन ता अष्टावपि कन्या व्यवाहयत् ॥ ३०॥ पाणीन् गृहीत्वा कन्यानामसौ मातृगृहे स्थितः । प्रावर्त्तत पुरस्तत्र नाटकं चित्रकृत् तदा ॥ ३१ ॥ गुणसागरस्तु नासास्तिमिताक्षः संयतेन्द्रियग्रामः । दध्यावेकाग्रमना मुनिर्भविष्याम्यहं प्रातः ।। ३२ ॥ एवं तपः करिष्ये तथा विधास्यामि गुरुजने विनयम् । व्रतयोगेषु यतिष्ये स्थास्यामि ध्याननियमेषु ॥३३॥ एवं निभृतं ध्यायन् स्मरन् श्रुतं पूर्वजन्मनाभ्यस्तम् । प्रतिपद्य भावसंयममभङ्गसंवेगरससिक्तः ॥३४॥ उदितोदितविशदतराध्यवसायवशोऽनुसमयमेष मुनिः। निर्दग्धघातिकर्मा केवलममलं क्षणादापत् ॥३५॥ प्रणयिन्योऽपि नवास्ता अस्ताखिलकर्मधर्मसन्तापाः। प्रतिपन्नभावचरणा इह केवलसंविदमविन्दन् ॥३६॥
0000000000000000000
॥७२॥
For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
थ्वी चन्द्र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्केवलमहिमानं कर्त्तुमथाजग्मुरनिमिषाधीशाः । नेदुर्दिवि दुन्दुभयो भेजुर्भव्या मुदममन्दाम् || ३७ || तद्वीक्ष्य रत्नसञ्चयसुमङ्गले अपि तथा सुतवधूनाम् । केवलविभवं ते अपि मुहुर्मुहुस्तदनुमोदनया ॥ ३८ ॥ सञ्जातकर्म लाघववशेन सुविशुद्धसंयमरसेन । प्रक्षालितकर्ममले लेभाते केवलमनन्तम् ॥ ३९ ॥ ( युग्मम् ) इत्येतत् तत्र नृपते ! विज्ञप्तं सांप्रतं महाश्चर्यम् । भूवल्लभोऽपि तदिदं निशम्य सम्यग् विभावयति ॥ ४० ॥ गुणसागरः स सत्यं गुणसागर एव येन निजकार्यम् । संसाधितं क्षणेन क्षयेण दुष्कर्मजालस्य ॥ ४१ ॥ जानन्नप्येष कथं पतितो राज्याख्यकूटयन्त्रेऽस्मिन् । गुरुजनदाक्षिण्यवशादुदा स्तिमानात्मकार्येऽपि ॥ ४२ ॥ तदहं कदा प्रपत्स्ये भवमथनीं भगवतीं महादीक्षाम् । समशत्रु मित्रवृत्तिः कदा चरिष्याम्यनिर्बन्धः || ४३ ॥ इति भावनावशात्मा क्षिप्त्वा क्षणतोऽप्यशेषकर्माणि । पृथ्वीचन्द्रमहीन्द्रः प्रपेदिवान् केवलज्ञानम् ॥ ४४ ॥ श्रुत्वैतत् तच्चरितं षोडश वीपतेः प्रिया अपि ताः । संवेगरङ्गसङ्गतमनसोऽवापुः परं ज्ञानम् ॥ ४५ ॥ हरिसिंहोऽपि महीभृत् पद्मावत्या समन्त्रितोऽपि तदा । केवलिवचसा कृतकर्मनिर्जयः केवलमवापत् ||४६ ॥ अथ सुधनसार्थवाहो व्यजिज्ञपत् तं तदा महर्षीन्द्रम् । पृथ्वीचन्द्रं भगवंस्तव गुणसागरमहर्षेश्व ॥ ४७ ॥ सोदरयोरिव साम्यं साम्यनिधे ! दृश्यते कथमिहेदृक् ? | केवल्य जल्पद्भवं कुसुमायुध इत्यहं पूर्वम् ॥ ४८ ॥ ( युग्मम . ) आसीद् गुणमणिसिन्धुर्बन्धुर्मे कुसुमकेतुरिति नाम्ना । स च गुणसागर इत्ययमभूद् यथार्थाभिधस्तत्र ॥ ४९ ॥
For Private and Personal Use Only
चरितम् ।
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
तदखिलामिहेति हेतोर्मम तस्य च दृश्यमस्ति सादृश्यम् । श्रुत्वेति साधुमधुनोऽप्यधुनोत् सुधनो वचः स्वशिरः॥५०॥ संप्राप्तपरमबोधः सोऽधःकृतदुष्कृतोऽथ गृहिधर्मम् । प्रतिपद्य हृद्यमभवदत्रामुत्रापि शर्मपदम् ॥५१॥ अनेकलक्षाण्यब्दानां कैवल्यं प्रतिपाल्य ते । पृथ्वीचन्द्रादयः सर्वे शिवश्रियमशिश्रयन् ॥५२॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रमहाराजर्षिचरिते गुणसागर-पृथ्वीचन्द्र
केवलोत्पत्तिवर्णनमेकादशं भवग्रहणम् । श्रीपृथ्वीचन्द्रचरितं समाप्तम् ।
SLCCCCODECORDER
misamme
900000000000000000000000
For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
mins
अथ ग्रन्थकर्तुः प्रशस्तिः।
चरितम् ।
anmnubaniwaranasi-
पृचीचन्द्रमहीमहेन्द्रयतिनश्चैतच्चरित्रं सतां श्रोतृणामघनाशनं प्रशमितपत्यूहपूरं सदा । ये शृण्वन्ति समाहितात्ममनसः प्रक्षीणसाहसस्ते श्रेयः परमां श्रयेयुरचिरानिःश्रेयसस्य श्रियम् ।। १॥ कुन्दन्दूज्ज्वलकीर्तिमञ्जुलतरे राकागणे श्रीमति श्रीमन्तः शुचिशेमुषाविशदतावाचस्पतिप्रत्ययाः। नानाग्रन्थनिबन्धबन्धुरगिरो भास्वद्गुणालीभृतो राजन्ते स्म गुणात् समुद्रगुरवस्तेजःश्रिया भासुराः ॥२॥ तत्पट्टोदयभूमिभृद्वरशिरःशृङ्गारभास्वत्प्रभाः श्रीसूरीश्वरपुण्यरत्नगुरवः पुण्यश्रिया पेशलाः । तच्छिप्यो लिखति स्म विस्मयकरं श्रीसत्यादिराजाह्वयोंऽभोध्यग्नीषुविधृन्मिते शरदि तद्वाच्यं चरित्रं बुधैः ॥३॥ प्राकृतबन्धेनैतचरितं रचितं हि पूर्वकविवर्यैः । मुग्धावबोधकृतये व्यधामिहानुष्टुबादिविधिम् ॥ ४ ॥ विधाय गुम्फमेतस्य चरित्रस्य यदर्जितम् । सुकृतं तेन भूयाद् मे बोधिलाभो भवे भवे ॥५॥ यल्लक्षणालङ्कारादिहीनमेतद् भवेत् कचित् । परं प्रसादमाधाय सुधीभिः शोध्यमेव तत् ॥ ६ ॥
नादृष्यवैदुष्यविभासनाय कवित्ववेदग्थ्यनिरूपणाय । व्यधां कथामात्रनिवेदनाय चरित्रमेतत् परमल्पबुद्धिः॥७॥
000000000000000-0000000000
For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तिलेषु कृष्णानि तुषे तृणानि यथैव सङ्ख्यातुमलं न कोऽपि । तथा मदुक्तिष्वपि दूपणालीं सा चिन्तनीया न परं सुधीभिः ॥ ८ ॥ किं वाऽथ तत्प्रार्थनयानया मे सन्तो गुणेष्वेव कृतादरा यतः । मुदा सदा मोदते मनोरमे सुमे रमेरन्ननु षट्पदालयः ॥ ९ ॥ पट्चत्वारिंशदग्रयाण्यष्टादशैव शतानि च ।
सर्वाग्रं लोकमानेन प्रमाणमिह निश्चितम् || १० ॥ इति ग्रन्थकर्त्तुः प्रशस्तिः ।
सं० १५३५ वर्षे माघे सितदशम्यां गुरौं अग्रेह श्रीअहम्मदावादनगरे श्रीपूर्णिमापक्षविभूषण - श्रीगुणसागरसूरि पट्टालङ्कार - श्री पूज्यश्रीगुणसमुद्रसूरयस्तत्पट्टोदय गिरिमिहिरकरणयः श्रीपुण्यरत्नसू रिवराः संप्रति विजयन्ते । तेषां विनेयवर्येण सत्यराजगणिना लिखितमिदम् ।
चिरं चतुरकोटीरैर्वाच्यमानं जयत्विदम् । सच्चरित्रं विमुग्धानामवबोधविधायकम् ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
॥७४
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
-
-
-
-
-
-
പ്രകടിപ്പിക
-
-
- -
-
-
ാമളമരം
For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir recent G IC IIIIIIIIC FAITH || తగుణగణాలు I అతుకులో తన For Private and Personal Use Only