________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
උපතිසංවිඳිරිලිපි පෙලෙයිවෙසිපිරියි
पातयवेदयद् राज्ञे पुत्रलाभं नृपोऽप्यवक । बभार गर्भ सा देवी रत्नगर्भेव सेवधिम् ॥ ८९ ॥ प्रायशः प्रथम पुत्री प्रमूते पितृवेश्मनि । पितेत्याप्तनरान् प्रैषीत् तदानयनहेतवे ॥९॥ जयसेनोऽङ्गदयुगं तत्करे प्राहिणोत् स्वसुः । राज्ञो दिव्यदुकूलानि प्रादात् प्राभृतहेतवे ॥ ९१॥ अथ क्रमात् समाजग्मुस्ते शङ्खपुरमुत्सुकाः । सर्वेऽप्याप्तनराः सायमवात्सुर्दत्तसमनि ॥ ९२ ॥ अथ भाविनियोगेन तत्र देवी कलावती। ददृशे तैः समायाता ते तस्यै ददुरङ्गदौ ॥ ९३ ॥ प्रमोदात्तौ तदादाय गता सा निजमन्दिरम् । प्रत्यूषे दर्शयिष्यामि भूपतेरिति वादिनी ॥१४॥ सखीजनसमक्षं तत्परिधायाङ्गदद्वयम् । प्रमोदनिर्भरा यावदालोकत कलावती ॥ ९५ ॥ अत्रान्तरे नृपो देवी गृहमागच्छदुत्सुकः । हर्षकोलाहलं तासां स तत्रावहितोऽशृणोत ॥ ९६ ॥ ददर्श देवीभुजयोः सङ्गतं चादद्वयम् । आख्यन् सख्योऽपि कनेदं ददे देवि ! विभूषणम् ? ॥ ९७ ॥ सोचे यच्चित्तगास्म्येषा यश्च मे मनसि स्थितः। अथवानेन दृष्टेन दृष्टः संपादकोश्य सः ॥९८ ॥ भुजाश्लिष्टेन चैतेनाश्लिष्टः साक्षान्मयापि सः । न विस्मरति यो जातु क्षणं मे मनसो हलाः ! ॥ ९९ ॥ अगृहीताबमुल्लापं निशम्येति विशाम्पतिः । कुविकल्पशतैरीयावशत्वेनाप्यगृह्यत ॥ १० ॥ दध्यौ भूवल्लभश्चित्ताल्हादकः कोऽपि वल्लभः । अस्त्येतस्याः पुनरहं दम्भप्रेम्णा वशीकृतः ॥ १०१॥
G0000000000000000000ODORE
For Private and Personal Use Only