SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमो भवः। PORIC000000000000000000000 अस्त्यत्र पाण्डुविषये पाण्डुपुरं श्रीवलो नृपस्तत्र । जयतीह तत्कनीयान् युवराजः शतबलो नाम ॥ १ ॥ तो रामलक्ष्मणाविव मिथो धनप्रेमबन्धुरौ बन्धू । पालयतः पितृदत्तं प्राज्यं साम्राज्यमभियुक्तौ ॥ २ ॥ दयिते तयोयोरपि सुलक्ष्मणालक्ष्मणाभिधाने च । पद्मोत्तरर्भुरभवत् सुलक्ष्मणायाः सुतत्वेन ॥३॥ गाङ्गेयगिरिस्वमानुसारतः स गिरिसुन्दरो नाम । हरिवेगसुरोऽपि सुतत्वेनाभूल्लक्ष्मणाकुक्षौ ॥४॥ रत्नोच्चयसुस्वप्नानुसारतो रत्नसार इति नाम्ना । तो प्रेमशृङ्खलयितौ द्वावप्येकत्र रेमाते ॥५॥ आस्थानसंस्थितोऽथान्यदा बली श्रीबलो नृपः पौरैः । विज्ञप्तो दुःखात्तैस्त्वयि राज्यपि नो महद् व्यसनम् ॥ ६ ॥ हियते कमला महिला गृहाङ्गणगता प्रसह्य केनापि । न च दृश्यतेऽत्र कश्चिद् देवो वा दानवो वाऽपि ॥ ७ ॥ श्रुत्वेति नृपोऽप्याहूयारक्षमतर्जयच्च किं रे त्वम् । स्वपिषि निशि न भ्रमनसि निशितासिकरः पुरस्यान्तः ॥ ८ ॥ आरक्षोऽप्यवददहं भ्रमामि पुरगोपुराणि पिदधामि । धावन्नपि तं दस्युं न लभे तु शणोमि जनरावम् ॥ ९॥ 100000000000000000000000000 - थ्वीन्द्र - For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy