________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरितमः
300059OOOOOOO000000O6GOGO
अद्य लक्षं हारयित्वा पलायन जगृहे बलात्। विना लक्षं न मोक्ष्यामो न वोऽहो तप्तिरस्य तत् ॥ ११४ ॥ ततो लक्षपदानेन मोचयित्वा तमासा । विषमां कर्मणश्चेष्टां भावयन्तौ गतौ गृहम् ॥ ११५ ॥ राज्यभारक्षमौ जातौ क्रमात् तयोस्तनूरुहो । दत्त्वा राज्यभरं मून्वोः प्रव्रजावः स्वयं रयात् ।। ११६ ॥ इति चिन्तयतोरागाद् रत्नाकरमुनिर्वने । गत्वा तौ तं गुरुं नत्वा श्रुत्वा तद्देशनां मुदा ॥ ११७ ॥ मुतयोः क्ष्माभरं न्यस्य प्रशस्यदिवसेऽन्यदा । परिवव्रजतुः सारसंवेगरससङ्गतौ ॥ ११८ ॥ अधीत्यैकादशाङ्गी तो तपःकर्मसु कर्मठौ । ग्रैवेयके सुरौ जातौ त्रिनवोदधिजीवितौ ॥ ११९ ॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रमहाराजर्षिचरिते पद्मोत्तरहरिवेगा
महामुनिचरितं सप्तमं भवग्रहणम् ।
000000000000000000000000
For Private and Personal Use Only