________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
triển trí
000OOOOOOOOOOOOOOOOOOOOOO
श्रुत्वेति सम्यग् विरताविरतानां परिग्रहात् । गुणदोषांश्च जगृहुस्ता इच्छापमिति प्रियाः ॥ ३४१॥ अहं च हा मुधैतस्मिन्महाव्रतधरे मुनौ । विरूपं ध्यातवानित्युत्पन्नानुशयमानसः ॥ ३४२ ॥ पतितो मुनिपादेषु पापाभिप्रायमात्मनः । प्रकाश्य क्षमयित्वा च मुनिपं तं व्यजिज्ञपत् ॥ ३४३ ॥ ( युग्मम् ) भगवन् ! हास्यवाचाऽपि यद्विष्टेन सुदारुणम् । दुःखमाप्तमहं भावी तत् कथं द्वेषषितः ?॥ ३४४ ॥ सोत्साहं मुनिरप्याइ महापापमिदं खलु । यन्महर्षिषु विद्वेषचिन्तनं मनसाऽप्यहो ! ॥ ३४५ ॥
चारित्रमन्तरेणैतन्त्र च्छेत्तुं पार्यते बुधैः । भानवो भानवीया यत् क्षमा ध्वान्तान्तहेतवे ॥ ३४६ ॥ अन्यच्च-संसारासारतां सम्यग् विचारय विभावय । कामभोगांश्च विरसावसानाबिजमानसे ॥ ३४७ ॥
तद् भोः ! अशाश्वतासारसंसारमुखमुत्सृजन् । शाश्वतैकान्तसौख्यस्य निदानं श्रय संयमम् ॥ ३४८॥ श्रुत्वेत्यमृतमाधुर्यधुर्यो मुनिपतेर्गिरम् । क्षणान्मोहविष नष्टं प्रबुद्ध ज्ञानलोचनम् ॥ ३४९ ॥ ततः प्रणयिनीः सर्वाः प्रबोध्य शुभया गिरा। धर्मदेवगुरूपान्ते पावजं प्रेयसीयुतः ॥ ३५० ।। पादाब्जमूले तस्याहं तपस्यन्बनिशं क्रमात् । गुणसंपदमीक्षां तेन संपापितोऽधुना ॥ ३५१ ॥ नमोऽस्तु गुरवे तस्मै महिमाद्भुतसंविदे। अश्मोपमोऽपि येनाहं वन्दनीयः कृतो जने ॥ ३५२ ॥
tiên tiến
॥४६॥
For Private and Personal Use Only