SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वरितम्॥ थ्वीचन्द्र 000000000 नादत्तेऽदत्तमन्यस्य देवाख्यस्तत्र कस्यचित् । अन्यस्य नियमो नास्ति परस्वग्रहणे पुनः ॥ १६१ ॥ अन्यदा तौ बहिर्यान्तौ पश्यतः पथि भूषणम् । अदत्ताद् विरतो देवो नेक्षाञ्चक्रेऽपि तद् दृशा ॥१६२॥ तल्लज्जया यशोऽप्येष तदानीमवधीर्य तत् । मार्गान्तरेण गत्वा च गृहीत्वाऽगोपयद् गृहे ॥ १६३ ॥ दध्यौ स च महात्माऽयमलुब्धो यः परश्रियाम् । तथाऽप्यहं करिष्यामि साधारणमिदं मिथः ॥ १६४ ॥ यशस्तद्भूषणस्वनाक्रोणात् पण्यं पुरान्तरात् । पश्यनायव्ययं देवो वीक्ष्य पण्यं महच्च तत् ।। १६५ ॥ यशं पप्रच्छ वितथोत्तरं कुर्वस्तदाऽथ सः। निर्बन्धे प्रोक्तवान् सत्यं देवस्तत् स्वधनाधिकम् ॥ १६६ ॥ पृथक चक्रे तदाऽनैषीद् यशोऽपि निजसअनि । तत् तस्यापहृतं सर्व निशि तस्यां मलिम्लुचैः ॥१६७॥ (युग्मम् ). देवोऽवोचत् सखे ! स्तन्याहृतं वस्तु न तिष्ठति । कुरु तद्विरतिं तस्मादुरीचक्रे यशोऽपि तत् ॥ १६८ ॥ तदा देशान्तरायातवणिग्भ्यो ददतुश्च तौ । तत् पण्यं द्विगुणो लाभः समभूत् सत्वरं तयोः ।। १६९ ॥ परस्वविरतो न्यायनिरतौ तौ ततः परम् । जने देवयशाहो तो यशः श्रियमवापतुः ॥ १७० ।। तदित्थं भोः ! नयेनैव बुधैः कार्य धनार्जनम् । किमायतौ विरसया सखे ! परधनेच्छया ॥ १७१ ।। तदनाकर्णितमिव वसुदत्तोऽपि संसृजन् । गृहंस्तत् कुण्डल बद्धो झटित्येव स तैभर्टः ॥ १७२ ।। हृतं तैः सकलं पण्यं मातृदत्तो विवादभाक । भणितस्तैर्भटैर्भद्र ! मा विषोदैहि पर्षदि ॥ १७३ ।। 00000000000000000 0 00000000 For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy