SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - -- 00000000000000000000000 कथं नु पुष्पसुन्दाः पूर्णचन्द्रो वरो भवेत् । उचितो यदयं योगो मणिहेम्नोरिवेक्ष्यते ॥ २४ ॥ इत्यालोच्य मिथो भ्रातृजामी रन्तुं युवामिह । वने समादिदिशतुर्दूतं वां सङ्गमार्थिनौ ॥ २५ ॥ निशम्येति सखीवाचं साऽभूनितमानसा । कुमारोऽपि स्वमित्रोक्तमवृत्तेनितो हृदि ॥ २६ ॥ अथ प्रशस्तेऽति तयोः पाणिग्रहमहामहम् । सिंहसेनविशालाख्यौ पितरौ चक्रतुर्मुदा ॥२७॥ पूर्णचन्द्रकुमारोऽसावथ मारोपमः श्रिया | प्रियया पुष्पसुन्दर्या समं शर्म समन्वभूत् ॥ २८ ॥ अन्यदा पुष्पशालाख्योद्यानेऽत्र समवासरत् । श्रीसुरसुन्दराचार्यों नृपस्तं वन्दितुं ययौ ॥ २९ ॥ पूर्णचन्द्रकुमारोऽपि तत्रागाद् दयितायुतः। सर्वेऽपि शुश्रुवुस्तस्य व्याख्या द्राक्षानुवादिनीम् ॥ ३० ॥ अथास्य मुनिनाथस्याद्भुतरूपं विलोकयन् । अपृच्छद् विस्मयापूर्णः पूर्णचन्द्रस्तमित्ययम् ।। ३१॥ प्रभो ! अत्यद्भुतं रूपं राजते वो नवं वयः। प्रत्यक्षलक्षणैरेभिर्जाता मन्ये महत्कुले ॥ ३२ ॥ कुतो वैराग्यतो घोरमिदमङ्गीकृतं व्रतम् । भगवन् ! विस्मयो मेऽसौ तच्छुश्रूषामि कारणम् ॥ ३३ ॥ मूरयोऽप्यूचिरे भूपभवायं भव एव नः। वैराग्याय तथाऽपि त्वं शृण्वथ प्रथितां कथाम् ॥ ३४ ॥ पुरं रत्नपुरं तत्र महेभ्यः सुधनाभिधः । लक्ष्मीरिवाङ्गिनी तस्य लक्ष्मीरित्यभवत् पिया ॥ ३५ ॥ सुरसुन्दरनामाहं तयोः पुत्रोऽतिवल्लभः । द्वात्रिंशद् दयिताः पित्रा तारुण्ये च विवाहितः ॥ ३६॥ 900000000000000000000000 For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy