SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृथ्वीचन्द्र चरितम 3000000000000000000000000 अथ विज्ञाय तद्भाव स उचेऽशोकदत्तया । पूर्णचन्द्र ! समेह्यत्र क्षणं व्रततिमण्डपे ॥ ११ ॥ आगतः सोऽपि तत्रेक्षाञ्चक्रे तां स्नेहनिर्भरम् । अभ्युत्थानासनाद्या साऽप्यस्मै सत्कृतिमातनोत् ॥१२॥ दथ्यौ स पूर्णचन्द्रोऽस्या अहो! काप्यङ्गचारुता । अहो! लीलाविलासोऽयमहो! लावण्यमद्भुतम् ॥१३॥ प्राग्भवप्रेमसंस्कारसंरम्भादिति भूपभूः । मुहुर्मुहुस्तदालोककौतुकाद् विरराम न ॥१४॥ अवोचत् पूर्णचन्द्रस्तां पूर्णचन्द्राननेऽधुना । वीणां वादय सा ब्रीडावनतास्याऽभवत् तदा ॥ १५ ॥ अशोकदत्तावादीत त्वत्पुरः सुभग ! लज्जते । अविनीतेत्यसो तन्न कलनीया त्वयाऽनघ !॥ १६ ॥ अयं विपञ्चीं छन्दामीत्युक्तिदक्षाय सा ददौ । पूर्णचन्द्रकुमारायाशोकदत्ताऽपि तां द्रुतम् ॥ १७ ॥ एवं मिथः कथोद्देशलेशपेशलयोस्तयोः । आगतैका सखीकन्या जनन्या इत्यभाषत ॥ १८ ॥ अहो ! अभिनवो यूनोः सङ्गोऽयमिति वाक्परा।सा पुष्पसुन्दरीमूचे स्थिताऽसि किमियच्चिरम् ॥१९॥ यत् खां विना जयादेवी भुते नाद्य त्वमेहि तत् । श्रुत्वेति साप्यनिच्छन्ती प्राप्ता निजनिकेतने ॥२०॥ पूर्णचन्द्रमुखी पूर्णचन्द्रं चित्ते स्मरन्त्यथ । काऽपि नापद् रति तुच्छाम्भसि मत्स्यीव सानिशम् ॥२१॥ अथ विज्ञाततञ्चित्ताशयाः सख्यो जगुर्गिरम् । स्वसविद्मो वयं नूनं त्वन्मनोदुःखकारणम् ॥ २२ ॥ शृणु तच्छमनोपायमपि यज्जनकोऽद्य ते । अस्माभिः शुश्रुवे देव्या सममालापयन्निति ॥ २३ ॥ TTTTTTTTTTTTTTTTTTTT For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy