SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमो भवः । स्000000000000000000 अधाऽस्ति प्राग्विदेहेऽत्र पुष्कले विजये पुरी । विशाला नाम तत्राऽस्ति सिंहसेनाभिधो नृपः ॥ १ ॥ प्रियशुमारी राजी तस्याभूच्छी रिवाङ्गिनी । दम्पती तो मिथः प्रेम्णा समयं नयतः सुखम् ॥ २ ॥ अथ च्युत्वा दिवा देवरथजीवोऽवतीर्णवान् । प्रियशुमारीकुक्षी भुक्तौ मुक्तामणिर्यथा ॥ ३ ॥ पूर्णचन्द्रमहास्वमानुसारेण पिताकरोत् । पुत्रस्य पूर्णचन्द्राहां शुभेऽति सुमहामहम् ॥ ४ ॥ अथ रत्नावलीदेवश्च्युत्वा तत्रैव सत्पुरि । देव्या भ्रातुर्विशालस्य सामन्तस्य सुताऽभवत् ॥५॥ पुष्पमालामहास्वमदर्शनात् पुष्पसुन्दरी । जाता सद्गुणरत्नकरखनी देवकनीनिभा ॥ ६ ॥ सा तारुण्यं वयः प्राप्ताऽन्यदा पित्रोनिदेशतः । वसन्तत्तौ सखीयुक्ता गतोद्यानं निरीक्षितुम् ॥ ७॥ क्रीडित्वा सुचिरं तत्र माधवीवल्लिमण्डपे । हृतश्रमा समारंभे वीणां वादयितुं मुदा ॥ ८ ॥ अत्रान्तरे सवयाभिः सेव्यमानः स कौतुकान् । तत्रायातः पूर्णचन्द्रस्तया सस्नेहमीक्षितः ॥ ९ ॥ माग्भवाभ्युल्लसत्प्रेमरसात् तद्रूपदर्शनात् । पुप्पसुन्दर्यवाप्ताऽसो पुष्पेषुशरगोचरम् ॥१०॥ 0000000000000000000000000 For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy