________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0
-
चरितम् ।
अथ रनशिखनृपोऽपि प्राक् पुण्यावाप्तखेचरैश्वर्यः। जिनगणधरकेवलधरपदारविन्दाभिनतिशीलः ॥ १०१ ॥ संप्राप्य बोधिरनं हायनलक्षाण्यनेकशोऽप्यभुनक् । सुखवर्गमुत्तरोत्तरमसौ सुपुण्यात्मनां धुर्यः॥ १०२ ॥ साकेतपुरे समवसृतमन्यदा सुयशसं मुनि नत्वा । निजपूर्वभवमपृच्छद् व्याहरदथ सप्रथं भगवान् ॥ १०३ ॥ राजन् ! पश्चनमस्कृतिमतिनिश्चितमिदमशेषमपि तेभूत् । राज्यादि किं न तदियं सुखाय केषामिहामुत्र ? ॥१४॥ इति मुनिपतिवचनामृतगतदुरितविषः स रत्नशिख एषः । व्रतमादायोदितकेवलर्द्धिरगमत् स सिद्धिसुखम् ॥१०॥ इति रत्नशिखचरित्रं श्रुत्वा श्रीविमलकीर्तिनृप एषः। भववासपाशविमुखः शिवसुखसङ्गे कृतोत्साहः ॥१०६॥ देवरथं निजराज्येऽभिषिच्य जग्राह धर्मवसुपार्थे । दीक्षां देवरथोऽपि स रत्नावल्या समं प्रियया ॥१०७॥ सम्यग् गृहिधर्मविधि प्रपाल्य पुत्रं निवेश्य निजराज्ये। आयुःक्षयादवापच्चानतकल्पे सुरैश्वर्यम्॥१०८॥त्रिभिर्विशेषकम्। एकस्मिन् सुश्मिाने द्वावपि तौ प्रेमपेशलौ देवौ । एकोनविंशति सागराणि सौख्यं मुदाभुङ्काम् ॥२०॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रचरिते देवरथश्रमणोपासकचरितं
चतुर्थ भवग्रहणम् ॥ ४ ॥
300CGOOGGGOOOO560600563000
-
000000
For Private and Personal Use Only