SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir පමණ වනවවෙළදපළවළ: उत्पपात गजस्तावत् सहसा स नभोऽङ्गणे । संभ्रान्तो भूपतिस्तं चाताडयद् दृढमुष्टिना ॥ ८८ ॥ (युग्मम् ) तद्घातपीडितोऽथासौ विस्मरन् मन्त्रचिन्तनम् । स्वरूपस्थो नमोऽईद्भ्यो भणनित्यपतद्भुवि ॥ ८९॥ श्रुत्वेत्याशातितो हा ! धिग् मया साधर्मिकोऽप्ययम् । ध्यायन्निति व्यधाद् भृभुक् स्वस्थं तं जलमारुतैः ॥ ९०॥ तं च रत्नशिखोऽवोचत् सम्यक्त्वं साधु साधु ते । आपत्स्वपि यदस्मापनमस्कारं सुचेतसा ॥ ९१ ॥ क्षमस्वागो मयाऽज्ञाततत्त्वेनासि यदाहतः । सोऽप्याचष्ट न मन्तुस्ते पापीयानहमेव हि ॥ ९२ ॥ यद्विदन्नपि ते कर्तुं विपियं चाहमुद्यतः । अस्मि चक्रपुरस्वामी सुवेगो नाम खेचरः ॥ ९३ ।। जामेयपक्षपातेन शशिवेगः स खेचरः । पितृप्रदत्तराज्योऽपि मया निर्वासितः पुरात् ॥ ९४ ॥ तस्य जामातृतो राज्यलाभं शृण्वन्नमर्षभाक् । त्वद्वधाय मुधाऽधावं द्विपरूपधरो ह्यहम् ॥ ९५ ॥ साधर्मिकवत्सलेन त्वया साध्वस्मि बोधितः । निविण्णो भववासाच गृहीष्याम्यधुना व्रतम् ।। ९६ ॥ तत् त्वं गृहाण मद्राज्यं क्षमयित्वा यथा द्रुतम्। शशिवगं नृपं साधो ! साधयामि स्वमीप्सितम् ॥ ९७ ॥ खेचराद् ज्ञातवृत्तान्तः शशिवेगस्तदागमत् । सुवेगः क्षमयित्वा तं प्रत्यपद्यत संयमम् ॥ ९८ ।। क्रमाद् विद्याधरश्रेणिविभू रत्नशिखोऽभवत् । परदेशेऽपि पुण्यान्याः प्राप्नुवन्त्युत्तमश्रियम् ॥ ९९ ।। अवेत्य मूरवेगोऽपि स्वमातुलकथां च ताम् । बन्धुना रक्ष्यमाणोऽपि वैराग्यादग्रहीद् व्रतम् ॥ १० ॥ 0000000000000000000000000 ॥३०॥ For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy