________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीचन्द्र
चरितम्॥
0000000000000000000000000
वालयिष्यति ते राज्यं य एतां परिणेष्यति । कथं स ज्ञास्यत इति नृपोक्ते सोऽप्यभाषत ॥ ७५ ॥ बने महागजं मत्तं वशे यो दाग विधास्यति । ज्ञेयश्चन्द्रप्रभाभा स नूनं बलवत्तरः ॥ ७६ ।। आरभ्य तहिनादेवाधोरणैरपि रक्षितः । हस्तनेऽति स गन्धेभः प्रोन्मूल्यालानमअसा ॥ ७७॥ अत्रारण्येऽविशत् तत्रागता पितृनिदेशतः । चन्द्रप्रभा देवकण्ठे चिक्षेप वरमालिकाम् ॥ ७८ ॥ (युग्मम् ). इदं दिव्यदुकूलादि प्राहिणोत् सैव तेऽनघ!। इत्युक्तवत्यां तस्यां द्रागागात् सैन्यं कुतोऽप्यथ ॥ ७९ ॥ यावत् पश्यति भूपस्तत् तावत् केनापि सादिना । पुरस्सरेण भूपालः पप्रच्छे इति साअसम् ॥ ८॥ गजारूढो नरः कश्चित् त्वया दृष्टोऽत्र कानने ? । यतस्तद्दर्शनोत्कण्ठा वर्ततेऽस्मत्पभोर्भृशम् ॥ ८१ ॥ खेच!चे स एवैष सादी श्रुत्वेति तद्वचः । वसुतेजोनृपस्यैतां तत्मवृत्ति न्यवेदयत् ।। ८२ ।। सचिवस्तं समाह्वाय्य सोऽप्यष्टौ कन्यका निजाः दत्त्वा तस्मै निजे राज्ये तं च रत्नशिखं व्यधात् ।।८३॥ स्वयं च सुगुरोः पार्श्वे तपस्यां स प्रपेदिवान् । शशिवेगोऽपि तां वार्ती श्रुत्वा तत्रैत्य सत्वरम् ॥८४॥ चन्द्रप्रभाभिधां पुत्रीं तस्मै प्रादान्मुदान्वितः। सहस्रविद्यासंयुक्ता विद्या चाप्यपराजिताम् ॥ ८५ ॥ (युग्मम् ) ज्ञात्वा व्यतिकरं चनं सुवेगाहः स खेचरः । समागाद् गजरूपेण तत्पुरोधानसीमनि ॥ ८६ ॥ कौतुकात् तज्जिघृक्षायै वनं रत्नशिखोऽप्यगात् । यावद् गजं वशीकृत्य समारोहत् स भूपतिः ॥ ८७ ॥
000000000000000000000000
For Private and Personal Use Only