SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रामाकरपुरादीनि लङ्घयन् कुत्रचिद् वने । एकं महागजं दृष्ट्वा वशीकृत्यारुरोह तम् ।। ६२ ।। तत्कण्ठकन्दले कस्मादपि पुष्पत्रगापतत् । विस्मितोऽग्रे चलन् दृष्ट्वा पुरथैकं महासरः ।। ६३ ।। कृत्वा तत्र जलक्रीडां स यावत् तत्तटे स्थितः । ददौ दिव्यदुकूलानि काऽप्यस्मै तावदङ्गना ।। ६४ ।। ( युग्मम् ). ऊचे साऽपूर्वदेवस्य स्वागतं तव संप्रति । नृपः प्राह कथं भद्रेऽपूर्वदेवोऽस्मि तद् वद ? ।। ६५ ।। सस्मिता विस्मितायाख्यत् क्षितीशायेति सा तदा । सम्यगाराधिता देवा निर्वृतिं ददते न वा ! ।। ६६ ।। दृष्टमात्रोऽपि नः सख्यास्त्वमदा देव ! निर्वृतिम् । तत एव त्वमत्रैषोऽपूर्वदेवो निगद्यसे ।। ६७ ।। नृपोऽवोचत् सखी कैषा कथं वाऽहं तयेक्षितः ? । साऽऽख्यदस्त्यत्र वैतान्ये सुरसङ्गीतपत्तनम् ॥ ६८ ॥ तत्राभूत् सूरणो नाम नृपतिस्तस्य वल्लभा । एका स्वयंप्रभा नाम्नी पराऽऽसीच महाप्रभा ।। ६९ ।। शशिवेगसुरवेगाभिधौ सविनयौ तयोः । उभावभूतां तनयौ सर्वदाऽप्युल्लसन्नयौ ॥ ७० ॥ अन्यदा मूरणो राज्ये शशिवेगं निवेश्य तम् । रवितेजोगुरूपान्ते प्रावाजीद् विरतो भवे ।। ७१ ॥ तद्राज्येऽथ सूरवेगः सुवेगाद्धं स्वमातुलम् । सहायीकृत्य युद्धायोपतस्थौ लोलुभः श्रियाम् ॥ ७२ ॥ शशिवेगो निजं हित्वा पुरं सुगिरिभूधरात् । परतो नूतनं न्यस्य पुरं तत्र स तस्थिवान् ।। ७३ ।। अस्ति चन्द्रप्रभा नाम दुहिता तस्य भूपतेः । नैमित्तिकोऽन्यदा कोऽपि तां दृष्ट्वाऽऽचष्ट शिष्टधीः ॥ ७४ ॥ For Private and Personal Use Only | ॥२९॥
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy