SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशो भवः। eceeD80000000000000 अथास्ति कोशले देशेऽयोध्या नाम महापुरी । हरिसिंहो नृपस्तत्र तस्य पद्मावती प्रिया ॥ १ ॥ इतः सर्वार्थतश्युत्वा कुसुमायुधनिर्जरः । विमानस्वमतः पद्मावतीकुक्षाववातरत् ॥२॥ पूर्णे काले प्रशस्तेऽति सुखं पासूत सा सुतम् । व्यधात् तस्याभिधां पृथ्वीचन्द्र इत्यवनीधवः ॥ ३ ॥ क्रमेणाभ्यस्तसद्विद्योऽनवद्यचरितोऽथ सः । · अवापत् तरुणीनेत्रजीवनं यौवनं वयः ॥ ४ ॥ कन्याः षोडश भूपोऽथ कुमारं पर्यणाययत् । नृसिहो हरिसिंहस्तं महामहपुरस्सरम् ॥५॥ ज्यायसी प्रेयसी तस्य मातुलस्य सुताऽभवत् । जयदेवस्य ललितसुन्दरीत्यभिधानतः ॥ ६ ॥ पथवीचन्द्रः पुनर्भोगविमुखः स्त्रीषु नो रतिम् । मनागप्यभजच्चेति दध्यौ चेतसि सन्ततम् ॥ ७ ॥ अहो ! पितृभ्यामेषोऽस्मि रागाब्धौ पातितः कथम् । यदेता दयिता नैव मां विमुञ्चन्ति जातचित ॥८॥ कथञ्चित तदपायेन प्रेयसीः प्रतिबोध्य ताः । प्रतिपद्ये परिव्रज्यां कुर्या स्वहितमासा ॥ ९ ॥ ततोऽनं निर्मितामन्दधर्मकर्मेच्छमङ्गजम् । मत्वा मोहादश्रुमिश्रनयनो जनकोऽब्रवीत् ॥ १० ॥ 9000000000000000000 ॥७ ॥ For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy