________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
058000000000000000000
इति तद्वचसा सहसा पीयूषरसाभिषिक्त इव भूभुक । विध्यातचित्तदाहस्तं दत्तं स्माह सोत्साहः ॥ ६५ ॥ एतदयटिष्ट दुर्घटमाप झटिति किमित्यजल्पदेषोऽपि ।
देवस्यागुतपुण्यप्राग्भारेणात्र किं न भवेत् ॥ ६६ ॥ अत्रान्तरे मतिसारसचिवोऽवम् धराधवम् । स्वामिभक्तः कृतज्ञोऽयमचिन्त्यगुणवैभवः ॥ ६७॥ गाम्भीर्यान्न समाख्याति स्फुटं संभावये परम् । निजस्वामिगुणोत्कर्षों वर्णितस्तेन तत्र हि ॥ ६८ ॥ कलावती ततश्चैषा त्वय्यदृष्टेऽप्यभूद्रता। ततो हि प्रहिता पित्रा त्वां वृणीतुं कृतादरा ॥ ६९ ॥ समं तयव चलितो दत्तः संभाव्यते परम् । देवस्य ज्ञापनायैव पुरो भूत्वायमागमत् ॥ ७० ॥ दत्तोऽप्याख्यदहो ! बुद्धिर्मतिसारस्य मन्त्रिणः । वस्तु येनाश्रुतादृष्टमपि साक्षात्कृतं द्रुतम् ॥ ७१ ॥ इति सर्वेऽपि सन्तुष्टाः समादिष्टाः क्षमाभुजा। कुर्वन्तु भोः! यदधुना कृत्यं तत् प्रथितोद्यमाः ॥ ७२ ॥ आगादत्रान्तरे सारपरिवारसमन्वितः । जयसेनकुमारोऽप्यावासितः सनिकेतने ॥ ७३ ।। तत्र तहिनशेषां तामतिवाद्य विभावरीम् । प्रातर्नपसभामागात कुमारो मारसन्निभः॥ ७४ ॥ भूपभूर्भूधवं वीक्ष्य प्राणमत् प्राभृतान्वितः । क्षमापतिः समालिङ्ग्य कुमारं स्वागतं जगौ ॥ ७५ ॥
550080909552000000000000
For Private and Personal Use Only