________________
Shri Mahavir Jain Aradhana Kendra
थ्वीचन्द्र
www.kobatirth.org
मन्येऽहो ! मानवेभ्यो यद्वरं ते विहगा अपि । ये यान्ति सत्वरं तत्र यत्रात्मीयः प्रियो जनः ॥ ५३ ॥ अहो ! तत्किमहो भावि महोदयमहोमयम् । यत्रैतत्प्रेयसीपाणिमादास्ये पाणिना स्वयम् ॥ ५४ ॥ इति हृल्लेखमुल्लेखविशेषविहितारतिः 1 नृपतिः पुनरास्थानमभजत् प्रातरञ्जसा ॥ ५५ ॥ समन्तात्सर्वसामन्ताः समेतास्तमुपास्तये । सभा सा भाति गीर्वाणपतिपर्षन्निभा स्फुटम् ॥ ५६ ॥ अत्रान्तरे गुरुश्वासरुद्धकण्ठेन केनचित् । चरेणागत्य विज्ञप्तो निःशङ्कः शङ्खभूपतिः ॥ ५७ ॥ किमयागान्महासैन्यं देव ! स्वदेशसीमनि । दिशो दशापि पूर्यन्ते तज्जतूर्यरवेण यत् ॥ ५८ ॥ जलाशया सञ्चरद्भिर्भटैः सर्वे जलाशयाः । खला इव भवन्ति स्म तत्क्षणात्कलुषाशयाः ॥ ५९ ॥ श्रुत्वेति भूपः सपदि विस्मृतान्यप्रयोजनः । भ्रुकुटीभङ्गभीमाङ्गो भटानाहोत्कटो रुषा ॥ ६० ॥ भोः ! वादयन्तु यानाय ढक्कां निष्कास्य कोशतः । समग्रापि च सङ्ग्रामसामग्री क्रियतां द्रुतम् ॥ ६१ ॥ तथा कृते तैर्भूकान्तोऽभिषिषेणयिषुर्यदा । तावदागत्य दत्तोऽसौ सस्मितस्तं व्यजिज्ञपत् ॥ ६२ ॥ अय्येतन्नेतरारब्धं किमकाण्डेऽपि विङ्गरम् । निजाग्रजजयसेनकुमारेण यदन्विता ॥ ६३ ॥ वृणीतुं त्वां समायाति सकला सा कलावती । यया चित्रस्थयाप्युच्चैररञ्जित मानसम् ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
६४ ॥ ( युग्मम् ).
चरितम् !