________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A 024200904
कुमारेण नतो भूपोऽपृच्छद् व्यतिकरं च तम् । गाढमालिङ्ग्य सोऽप्याख्यत् स्वं वृत्तान्तं यथास्थितम् ॥ ४०॥ तात ! निष्कारणो बन्धुरसौ बन्धुरसौहृदः। प्राणदोऽभन्ममेत्युक्त्वाऽदर्शयन्मां नृपस्य सः॥४१॥ भूपोऽपि मामभिष्वज्य विजयी विजयाभिधः । ज्येष्ठाङ्गजमिति प्रीत्या प्रत्यपद्यत सत्वरम् ॥ ४२ ॥ देवशालपुरं प्राप्तः स्थितस्तत्र तथा सुखम् । यथा मे मातृपित्रादि सर्व विस्मृतिमागमत् ॥ ४३ ॥ अथ तस्य नृपस्यासीत् श्रीदेवीकुक्षिसंभवा । जयसेनकुमारस्यानुजा कन्या कलावती ॥ ४४ ॥ प्राप्तविद्यानवद्याङ्गी तारुण्यं सा क्रमादगात् । अनुरूपं वरं तस्याः काप्यपश्यन्न तत्पिता ॥४५॥ नृपो मामादिशद् वत्स ! निजजाम्युचितं वरम् । संपाद्य चिन्तापाथोधेर्मामुत्तारय सत्वरम् ॥ ४६॥ तथेति प्रतिपद्याहं तत्पतिच्छन्दमजसा । लिखित्वा फलकेऽमुष्मिन्त्रागामेषोऽथ तत्कृते ॥ ४७ ॥ स्वामिस्वदुचितामेतामेव संभावयाम्यहम् । प्रमाणं देव एवातः परं बहु किमुच्यते ? ॥ ४८ ॥ तदेवान्ववदन्मन्न्यादयोऽपि प्रमदात् तदा । अत्रान्तरे समयज्ञोऽवदत् कालनिवेदकः ॥ ४९ ॥ देवतावसरस्यास्ति नृदेवावसरोऽधुना । नृपो विसृज्य पार्षद्यान् देवार्चादि व्यधान्मुदा ॥ ५० ॥ भुक्त्वा सुप्तोऽथ पर्यङ्के दध्याविति धराधवः । स्वस्त्यस्मै विधये यन विदधेऽसौ कलावती ॥५१॥ यन्नरास्तेन गगनगमनक्षमविक्रमाः । पक्षिवत्पक्षयुक्ता वा न कृतास्तदसाध्वभूतु ॥५२॥
8000080LROLORLDBEDEOSE
0000RRELL
For Private and Personal Use Only