________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्मृत्वा वेतालिनीं पद्मोत्तरो विद्यामनुत्तराम् । अनाशयद् रिपुबलं पलालमिव मारुतः ॥ ५० ॥ असा सर्वे निर्जिता ऊर्जिता अपि । भूभुजो भूभुजङ्गाङ्गभुवोऽथ लुलुठुः पदोः ॥ ५१ ॥ महामहेन स तो कुमार्या भूभुजङ्गभूः । स्थित्वा तत्र कियत्कालं संप्राप नगरं निजम् ॥ पितृप्रदत्तां युवराजलक्ष्मीमक्षीणपुण्योऽनुभवन्नथैषः ।
५२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पद्मोत्तरोऽयं शशिसूरलेखाप्रियान्वितोऽभुङ्क सुखानि नित्यम् ॥ ५३ ॥
इतश्च वैताढ्यगिरौ पुरे गगनवल्लभे । विद्याधरेन्द्रः कनककेतुर्नाम्नाऽस्ति विश्रुतः ॥ ५४ ॥ देवी कasaत्येका तस्य रत्नवती परा । तयोः सुतैका कनकावली रत्नावली परा ॥ ६५ ॥ तयोर्जन्मदिने नैमित्तिकोऽयमिदमादिशत् । एकां परिणयनेकश्रेणीशः स भविष्यति ॥ ५६ ॥ faareera कन्ये भावी श्रेणिद्वयीशिता । अथ ते वर्द्धमाने द्वे कन्ये तारुण्यमापतुः ।। ५७ ॥ ( युग्मम् ). स्वयंवरमहे पित्रा प्रारब्धेऽखिलखेचराः । समागुईरिवेगं तु प्रमोदाद् वृणुतः स्म ते ॥ कन्याद्वयं परिणीय स आगान्नगरं निजम् । निश्विकाय पिता श्रेणिद्वयीशोऽयं भविष्यति ॥ ५९ ॥ दध्यौ पिता प्राग्भवे किमेतेन सुकृतं कृतम् । ज्ञानवान् कोऽपि यद्येति पृच्छयते तदिदं ध्रुवम् ॥ इतश्च तत्र संप्राप्तः श्रीतेजा नाम केवली । नत्वा पप्रच्छ तद् भूषो व्याहरद् भगवानथ ॥
५८ ॥
६० ॥
६१ ॥
For Private and Personal Use Only
॥५३॥