SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सप्तमो भवः । अथात्र भरतक्षेत्रे गज्जणाख्यपुरे नृपः । नाम्ना सुरपतिस्तस्य विनयप्रणया प्रिया ॥ १ ॥ स च भूमिपतिर्मिथ्यादृष्टिर्विप्रेषु भक्तिमान् । जनोऽपि तादृश: सर्वो यथा राजा तथा प्रजा ॥ २ ॥ एवं व्रजति काले च सूरसेनसुरोऽन्यदा । विनयप्रणयादेव्याः कुक्षौ स समवातरत् || ३ || सुवासरे प्रसूताऽथ राज्ञी कान्त्याऽर्कसन्निभम् । सुतं रोहणभूमीव रत्नं प्राचीव भास्करम् ॥ ४ ॥ जनको जनकोटीभिर्युतो जन्ममहं व्यधात् । सुतस्य तस्य चाभिख्यां पद्मोत्तर इति स्फुटम् ॥ ५ ॥ वर्द्धमानः क्रमेणापत् पावनं यौवनं वयः । कलाकलापमखिलं कलयामास सोऽअसा ॥ ६ ॥ sar वैतान्यगिरौ भौमनगरे नृपः । तारवेगाभिधस्तस्य हेममालाऽभिधा प्रिया ॥ ७ ॥ तयोर्बहूनां पुत्रीणामथोपर्युदपद्यत । मुक्तावलीसुरः पुत्रत्वेन ग्रैवेयकाच्च्युतः ॥ ८ ॥ प्रसूता समये हेममाला पुत्रं महायुतिम् । हरिवेग इति ख्यातनामाऽसौ ववृधे क्रमात् ॥ ९ ॥ त्यक्तबाल्यत्रयाः सर्वकलाग्रहणकोविदः । नारीजनमनोहारि तारुण्यं प्राप स क्रमात् ॥ १० ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥५१॥
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy