________________
Shri Mahavir Jain Aradhana Kendra
9601000003036
www.kobatirth.org
॥
ततः श्रुत्वेति सुन्दर्या सख्याचख्ये हला ! इदम् । महापातकमुचैर्यत् प्रतिपन्नत्रता अपि वितरन्ति परेषां ये पापबुद्धिं गतत्रपाः । क्षिपन्ति परमात्मानमपि ते चोग्रदुर्गतौ ॥ श्रुत्वेति तापसी ज्ञानश्वया तानदोऽवदत् । चेज्जिजीविषत्रो यूयं तदमुं मुञ्चताग्रहम् ॥ तथाऽपि ते त्यक्तकदाग्रहग्रहा आराधयन् कञ्चन मन्त्रवेदिनम् ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२४३ ॥
२४४ ॥ ( युग्मम् ).
२४५ ॥
स तानयो कृष्णचतुर्दशीनिशि प्रेतौकसि प्रापयदुल्लसत्कुधीः ॥ २४६ ॥ तत्र मण्डलमालिख्य विहितैकाग्रमानसः । जजाप मन्त्रसिद्धोऽसौ विधिवन्मन्त्रदेवताम् || २४७ ॥ तन्मन्त्राचिन्त्यमाहात्म्यादथ सा कृतपौषधा । सुप्ता तत्र समानिन्ये मन्त्रसिद्धेन सुन्दरी ॥ २४८ ॥ सुन्दर्यास्तत्तथा तेजोऽसहमाना महाधियः । आः किमीदृक्पापकर्मण्यभियुक्तास्मि संप्रति ॥ २४९ ॥ मुहुर्मुहुर्मन्त्रसिद्धं वदन्तीति पुरः स्थिता । तदा कोपकरालाक्षी तिरोऽधान्मन्त्रदेवता ॥ २५० ॥ ( युग्मम् ). सुन्दरी दीपिकोद्यतात् पश्यन्ती सर्वतो वनम् | हा किमेतदिति प्राप्तविस्मयोद्धान्तलोचना ।। २५१ ॥ नमस्कृतिस्मृतिपरा यावत् तिष्ठति तत्र सा । तावत्तांश्चतुरो मन्त्रसिद्धोऽवादीन्मुदान्वितः ॥ २५२ ॥ ( युग्मम् ). भोः ! आनीतास्त्यसौ युष्मद्दयिता विद्यया मया । अथ यद्रोचते वस्तत् कुरुत प्रथितादराः || २५३ ॥ मिथस्तेऽप्यवदन् योऽत्र प्रागमूं स्मक्ष्यति प्रियाम् । आदौ रन्ता स एवेति कृतसङ्केतनिश्चयाः ॥ २५४ ॥
॥ ४१