SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir थ्वीचन्द्र चरितम्। दवीक्ष्य सुन्दरीम्। ता पाभियं मन्त्र सिद्धानपुराङ्गनाः । DOCG00000OOOOGO000000OOOO सञातसुरताशांस्तान् सुन्दरीमभिधावतः । ज्ञाततच्छीलमाहात्म्याऽस्तभ्नात् काननदेवता ॥ २५५ ॥ मन्त्रसिद्धोऽथ तान् काष्टप्रायान् वीक्ष्य भय द्रुतः । गृहीत्वा सुन्दरीपादौ विनयेन व्यजिज्ञपत् ॥ २५६ ॥ महासति ! मया ज्ञातं त्वन्माहात्म्यं नहीदृशम् । तेनेदं विहितं भूयः करिष्ये न कदाप्यदः ॥ २५७ ॥ क्षमस्वागोऽभयं देहि ममेत्यालपतोऽपि च । अलब्धप्रतिवाक्यस्य विभातेयं विभावरी ॥ २५८ ॥ सपौरः शूरभूपोऽपि तत्रागाद् वीक्ष्य सुन्दरीम्। तांस्तथास्थांश्च पप्रच्छ न त दुर्ललिता जगुः ॥ २५९ ।। सुन्दर्यपि न वेग्रीति जल्पन्त्यस्थात् त्रपानता। तावत् प्रार्थ्याभयं मन्त्रसिद्धस्तत्वार्थमृचिवान् ॥ २६ ॥ नृपः पापात्मनः ताश्चाक्षिपञ्चारकवेश्मनि । ऊचे सिद्धं च हा पापिन् ! ममाप्यन्तःपुराङ्गनाः ॥ २६१ ॥ हरिष्यसीति दण्डा)ऽप्यभयं श्रावितोऽसि यत् । तन्मुक्तोऽसीति निर्भय॑ नृपस्तं निरवासयत् ॥२६२॥ (युग्मम् ). न्यपतद् नृपतिस्तत्र सपौरः सुन्दरीपदोः । वसुपालोऽपि तत्रागाच्छ्रेष्ठी श्रेष्ठचरित्रभृत् ॥ २६३ ॥ नृपः करेणुमारोह्य पुरी प्रावेशयच्च ताम् । प्रसिद्धा तत्मभृत्यासीत् सा जने शीलसुन्दरी ॥ २६४ ।। इति निष्कलङ्कशीलं प्रपाल्य सा शीलसुन्दरी प्रान्ते । प्राप्य सुरलोकलीलामशीलयत् सौख्यलक्षाणि ॥ २६५ ॥ इतरे कृतसवस्वापहाराश्चारकौकसि । चिरं संक्लिश्य मृत्वाऽगुः पृथिवीं शर्कराप्रभाम् ॥ २६६ ॥ 0000000000000000000ODoes For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy