SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीचन्द्र चरितम्॥ 3000000000000000000000000 गुरुगरललहरिभिरसौ कण्ठगतासुर्भिपग्भिरपि मुक्तः। गुणसुन्दरी ततोऽवक यदि शीलं जयति जगतीह ॥ २६८ ॥ यदि च त्रिधापि नाखण्डि तन्मया तद् भवत्वविष एषः। उक्त्वेति तं जलेनाभिषिच्य निर्गतविपं चक्रे ॥२६९॥ (युग्मम्). दृष्ट्वा शीलातिशयं चमत्कृतास्तुष्टुवुः पुरीलोकाः । अवगततदुदन्तोऽथावदन्मुदा वेदरुचिरिति च ॥२७०॥ आसीः पुरा हि भगिनी जीवितदानाच्च साम्प्रतं जननी।पापमतिवारणाद् गुरुरपि खमेवासि मे साध्वि!॥२७॥ ज्ञातं तव माहात्म्यं मया त्वया पापचेष्टितं च मम । तद् ब्रूहि किं प्रियं ते करोमि ही ! मन्दभाग्योऽहम् ॥ २७२ ॥ सोचे त्वमुपाकार्षीर्बन्धो ! विरतोऽसि चेत् परवधूभ्यः । यस्मात् तद्विरतानामिह शर्मशतानि चामुत्र ॥ २७३ ।। स इति प्रतिपद्य स्वं क्षमयित्वागोऽप्यगाद् निजं स्थानम् । गुणसुन्दरी सलीलं शीलं परिपालयामास ॥ २७४ ।। इति गुणसुन्दरीचरितं समाप्तम् । इति रतिसुन्दर्याद्यास्तास्तु चतस्रोऽपि निजनिज नियमम् । संपाल्य सत्ववत्यः समजायन्ताथ दिवि देव्यः ॥२७॥ ततश्युत्वा चतस्रोऽपि यथावाप्यवातरन् । क्रमेग तास्तथोच्यन्ते शृणुत प्रथितादराः ॥ २७६ ॥ अत्रैव काञ्चनश्रेष्ठी वसुधारा च तपिया। तयोस्ताराभिधा पुत्री या पूर्व रतिसुन्दरी ॥ २७७ ।। कुबेराख्यो महेभ्योऽत्र तस्य पत्न्यस्ति पद्मिनी।श्रीनाम्न्यभूत् तयोः पुत्री या पूर्व बुद्धिसुन्दरी ॥ २७८ ॥ तृतीयो धरणः श्रेष्ठी महालक्ष्मीश्च तत्यिया। विनयाख्या तयोः पुत्री याऽऽसीत् माग ऋद्धिसुन्दरी।। २७९ ॥ DOEBEDODOOOOOOOOOOOOOK For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy