SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 0000000000000000000000000 एतन्ममैव गुणकृत् तुटेन स्वीकृतं ततस्तेन । सुन्दर्यपि गृहकृत्यं कुरुतेऽसौ कृत्रिमप्रणया ॥ २५५ ।। स्नानाअनादि मुक्त्वा च शोषयन्ती स्वदेहमपि तपसा । विरसैन्यूनैरशनैश्चाभृद् गुणसुन्दरी क्षीणा ॥ २५६ ॥ पूर्णप्राये नियमेऽन्येधुनिशि युगपदेव विलपन्ती। पृष्टाख्यच्छूलार्ति मणिमन्त्रादीन् व्यधात् सोऽपि ॥ २५७ ॥ कथमप्यशान्तशूला त्वद्गृहवासस्य साह नार्हास्मि । येनेदृग् मे दुःखं दारुणमाकस्मिकं पतितम् ॥ २५८ ॥ तीव्रा शिरोव्यथा मे ज्वलति वपुः सन्धयः स्फुटन्त्यखिलाः। इति दुःखदावदग्धा धर्तुममूनपि न शक्रोमि ॥ २५९ ॥ यन्मत्कृते त्वमप्यायासं कृतवान् न कोऽपि सिद्धोऽर्थः । तन्मे व्यथयति चेतः परमधुना देहि काष्ठानि ॥ २६० ॥ इति बहुधा विलपन्तीं तां वीक्ष्यावक स सूत्रकण्ठोऽपि । मा खिद्यस्व प्राणैरपि सह्यां खां विधास्येऽहम् ।। २६१ ॥ कुरु भीरु ! गभीरमिदं चेतस्ते भृत्य एष निभृतोऽहम्। यद्वा ब्रवीषि तत् त्वां श्रावस्त्यां प्रापये स्वगृहम् ।। २६२॥ सुन्दर्याख्यद् यत्तद्वादी कर्णेजपः कथं वार्यः ? । सोऽप्याख्यत् तव पत्युः पुरतः साक्षी भविष्यामि ॥ २६३ ॥ आरोप्य ततो याने श्रावस्ती तां निनाय विमोऽसौ। गुणसुन्दरी निरीक्ष्य प्रमुदितमनसोऽभवन् स्वजनाः ॥ २६४ ॥ गुणसुन्दर्याचख्यौ निजपत्युः पुण्यशर्मविप्रस्य । यद् बन्धुनामुनाहं विमोचिता दुष्टशबरेभ्यः ॥ २६५ ॥ वसनाशनादिना तं कृतोपकारमिति सच्चकारासौ । अपराध्यहमिति शङ्कितमना अभूत् सोऽथ गन्तुमनाः ॥ २६६ ॥ निर्गच्छन् निशि स पुनर्दष्टो दुष्टोरगेण पूच्चक्रे । भिषजा विषजामति हर्तुमुपाक्रमत विप्रोऽपि ॥ २६७ ॥ TDOCEDEGc00000000000000 PO२१॥ For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy