SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0000000000000000000000000€ आनयामो नयामो यन्निधि निशि तवौकसि । लुब्धहृत् मुग्धधीश्वैष तदर्थमगमत् पुरम् ॥ २९१ ॥ परेऽपि रत्नान्यादाय पलायाश्चक्रिरे रयात् । विष्टस्तत्रागतस्ताननीक्षमाणो विषादभाक् ॥ २९२ ।। पपात मच्छितः पृथ्व्यां भूपोऽपि तदवेत्य तम् । भृत्यैरानाय्य सर्वस्वापहाराद् निरवासयत् ॥ २९३ ॥ ततोऽप्युन्मादवान् कश्चित् कालं स्थित्वा मृतस्ततः । सारमेयोऽभवच्चाऽथ वृषभुर्मदोषतः ॥ २९४ ॥ विशन् महानसं सूपकृता सोऽपि हतस्ततः । अभूद् दरिद्रमातङ्गो मृत्वा रत्नप्रभामगात् ॥ २९५ ॥ न्यायनिष्ठः सुविष्टस्तु त्रिवर्गमनुपालयन् । मृत्वोत्तरकुरौ जातो युग्मजन्मा नरोत्तमः ।। २९६ ।। देवदितल्यं तत्रापि सुखं भुक्त्वा गतो दिवम् । ततश्युत्वाऽत्र विजये ग्रामे जयस्थलाभिधे ॥ २९७ ॥ बणिजः पादेवस्य देवकीकुक्षिसंभवः । नाम्ना गुणाकरः पुत्रो जातोऽशेषगुणाकरः ॥ २९८ ॥ (युग्मम् ). इतश्च विष्टजीवोऽसावुद्धत्य नरकात्ततः । धनञ्जयस्य वणिजो जयाजायासमुद्भवः ।। २९९ ।। पुत्रो गुणधराभिख्यः प्राग्भवप्रेमवारिणा। सिक्ता वृद्धिमती चासीत् तयोः प्रीतिलता मिथः ॥ ३०० ॥ (युग्मम् ). अन्यदा जाततारुण्यौ तौ धनार्जनतत्परो । उद्याने धर्मदेवाख्यमृर्षि गत्वा प्रणेमतुः ॥ ३०१॥ पप्रच्छतुर्धनोपायमनगारं च तो तदा । सोऽप्याख्यद् धर्म एवैकः स्याद् धनार्जनकारणम् ॥ ३०२ ॥ यद्यपि कृतसुकृतभरः प्रयाति गिरिकन्दरान्तरेषु नरः। करकलितदीपकलिका तथापि लक्ष्मीस्तमनुसरति ॥३०॥ "0000000000000000000000000 ॥४३॥ For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy