________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DOO
बीचन्द्रा
IQचरितम् ॥
-
000000000000000000000000
तथा च-अकृतसुकृतस्य न सुखान्यतप्ततपसो न चेष्टसिद्धिश्च । नाशीलवतो महिमा नहि मोक्षो मृढहृदयस्य ॥३०४॥ अन्यच्च-लोभाभिभूतपुरुषः सत्यपि विभवे न तोषमुपयाति । दत्वा चरणौ धनिनां च शिरसि शेते प्रसन्तुष्टः ॥३०॥
उपर्युपरि संपश्यन्निन्द्रोऽपि द्रमकायते । सन्तोषामृतसिक्तात्मा रङ्कोऽपि श्रीपतीयति ॥ ३०६ ॥ शक्यते सर्वथा नो चेन्मोक्तुं धान्यधनादिकम् । पुण्यवद्भिस्तथापीच्छापरिमाणं विधीयते ॥ ३०७ ॥ श्रुखेति शुद्धसम्यक्त्वप्रतिपत्तिपुरस्सरम् । गुणाकरोऽग्रहीदिच्छापरिमाणं मुनेगिरा ॥ ३०८ ॥ इतरोऽश्रद्दधानस्तन्नानुमेनेऽपि चेतसा । भूरिलोभाभिभूतः स दध्यौ गुणधरोऽप्यथ ॥ ३०९॥ मन्यते कृतकृत्यं स्वमल्पीयस्या श्रियापि यः। क्रुद्धो विधिस्तदधिको तस्मै दत्ते नहि श्रियम् ॥ ३१० ॥ तथ्यमिदमन्यथा कथमद्भुतभुजवीर्यशालिनोऽप्यस्य । त्वरितं मनोमनोरथ इह सङ्कुचितोऽधुना नियतम् ॥३१२॥ एवं तौ सदसद्भावैर्मुनि नत्वा गतौ गृहम् । गुणाकरमनापृच्छयान्यदा गुणधरस्तु सः ॥ ३१२ ।। आदायागण्यपण्यानि गत्वा देशान्तराण्यसौ। उपाय॑ भूरिविभवं निवृत्तः स्वगृहं प्रति ॥ ३१३ ॥ प्राप्तो महाटवीं तावदज्वलद् ज्वलनो वने । नेशुर्भियाऽभितो भृत्या भस्मीभूतान्यनांसि च ॥ ३१४ ॥ नष्टः कथमपि क्षुत्तृट्पीडातः सप्तरात्रतः । ग्रामं कमप्यगात् तत्र ददृशे लिङ्गिनाऽन्यदा ॥ ३१५ ॥ नीला निजालयं तेन प्राणवृत्तिं च कारितः । ज्ञातवृत्तेन चानायि नितम्बे कस्यचिद् गिरेः ॥ ३१६ ॥
DHOOOOOOOOOOOOG
For Private and Personal Use Only