SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 00000000000000000000000000 दर्शयित्वौषधीं काश्चिद् भणितो लक्षयस्व भोः! । एतां संपति यद् रात्रौ ग्राहयामि त्वयाऽनघ ! ॥ ३१७ ॥ लिङ्गिना पुनरूचेऽसौ निशि भोस्तां महौषधीम् । ज्वलन्ती सर्वतो वीक्ष्य दीपदीपशिखामिव ॥ ३२८ ॥ गृहीत्वा वामहस्तेन छित्त्वा चैतामुपर्यधः । दृढमुष्टितया पृष्ठे त्यजन् दृष्टिं त्वमेहि भोः ! ॥ ३१९ ॥ (युग्मम् ) कुर्वे येनादरिद्रं त्वां प्रतिपद्येति तद्वचः। औषधीं विधिवल्लात्वा प्रत्यागच्छन्नथ द्रुतम् ॥ ३२० ॥ गिरिशृङ्गपतहावखटत्काररवेण च । सहसाऽऽलोकयत्पृष्ठे तावन्नष्टौषधी करात् ॥ ३२१॥ (युग्मम् ) निवेदितश्च वृत्तान्तो यथास्थस्तेन लिङ्गिनः। सोऽवम् भद्रास्ति सत्वं ते न पुनः पुण्यमश्चयः ॥ ३२२ ॥ तद् भोः ब्रज निजं स्थानं भज सन्तोषमञ्जसा । तद्रिं सोऽवधार्याथामिलत् कस्यापि लिङ्गिनः ॥३२३॥ सोऽपि माह कापि वत्स ! रक्तक्षीरस्नुहीतरुम् । विलोकय च्छिनयेष दाग्गिं येन तत्क्षणात् ॥३२४॥ लब्धस्तेन स्नुहिस्ताहक ज्वालितो लिङ्गिनाऽग्निना । क्षिप्तो गुणधरस्तत्र प्रसह्येव हि तेन सः ॥ ३२५ ॥ निरगात् स लघुत्वेन तं प्रक्षेप्तुमथोद्यतः । एवं तयोर्विरोधे चागमत् तत्र नृपाङ्गजः ॥ ३२६ ॥ ज्ञातवृत्तो गुणधरात् स कुमारोऽपि कौतुकात् । अक्षिपल्लिङ्गिनं तत्र सातः स्वर्णपूरुषः ॥ ३२७ ॥ जग्राह तं नृपसुतो दत्त्वा किमपि काश्चनम् । विसृष्टोऽसौ गुणधरश्चलितः स्वपुरं प्रति ॥ ३२८ ॥ अमिलत् पथि कोऽप्यस्य मन्त्रसिद्धो महानरः। गोष्ठी मिष्टां मिथस्तौ द्वौ कुर्वन्तौ कापि तस्थतुः ॥३२९॥ 900000000000000000000000 ॥४-४1 - For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy