________________
Shri Mahavir Jain Aradhana Kendra
थ्वीचन्द्र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
dal मनः समाधाय क्षमामाधाय चेतसि । प्रतिपद्याहतं धर्मं परत्रात्र सुखी भव ।। १७९ ।। अन्यच्च - निमित्ततो वयं विद्म एवं ते कुर्वतः सतः । तस्या अखण्डदेहायाः सङ्गमोऽपि भविष्यति ।। १८० ॥ पुनरभ्युदयं प्राप्य प्रमोदभरनिर्भरः । त्यक्त्वा राज्यं परिव्रज्यामचिरात् त्वं गृहीष्यसि ।। १८१ ।। दिनमेकं प्रतीक्षस्व ततो मद्वचसा नृप ! सञ्जातप्रत्ययः पश्चाद् विदध्यास्त्वं यथोचितम् ।। १८२ ।। इति सूरिगिरा भूरिप्रमदावेशपेशलः । भूकान्तः स गुरूपान्तगतोऽतिक्रान्तवानहः ॥ १८३ ।। तत्रैव निशि चोद्याने शयितो दयितो भुवः । स्वनमस्वप्नतुल्योऽसौ निशाशेषे व्यलोकयत् ।। १८४ ।। यथा कुत्रापि कल्पद्रौ निष्पन्नैकफला लता । केनापि सहसा छिन्ना पपात धरणीतले ।। १८५ ॥ पुनर्झटिति निष्पन्नमनोहरफला सती । कल्पशाखिनि संलग्ना सा तत्रैव स्वयं लता ।। १८६ ।। प्रातः प्रमुदितोऽपृच्छ्द् गुरून् स्वप्नं त ऊचिरे । कल्पद्रुः स भवान् छिन्नलता सा वियुता प्रिया ॥ १८७ ॥ पुनर्मनोहरफला संलग्ना तत्र या लता । सा सपुत्राद्य ते नूनं मिलिष्यति कलावती ॥। १८८ ।। एवमस्त्वित्यथो जल्पन् नृपो दत्तं समादिशत् । यदकृत्यं कृतं तावन्मर्त्तव्यं तन्मयाधुना ।। १८९ ।। तथापि तत्र गत्वा त्वं जीवन्तीं तामिहानय । मृताया निश्चयं यद्वा पश्चात् कुर्वे यथोचितम् ॥ १९० ॥ दत्तस्तत्र गतोऽपृच्छत् तापसं कमपि स्फुटम् । भोः ! काप्यत्र त्वया दृष्टाऽय कल्ये कापि वर्णिनी ? ॥ १९९ ॥
For Private and Personal Use Only
चरितम्