________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DOGOGOCOO04030909600000
अथ गुणसुन्दर्यपि यौवनमारूढा निरीक्षितान्येयुः। इह वेदशर्मवाडवसुतेन सा वेदरुचिनाम्ना ॥ २२९ ॥ दध्यौ स च धन्योऽहं यस्यैषा दृष्टिगोचरं प्राप्ता । गृहामि पाणिमस्याः कथमपि तजन्म मे सफलम् ॥ २३० ॥ चिन्ताचान्तस्वान्तः पृष्टः पित्रा यथास्थितमवोचत् । वेदरुचिः स्वरुचिमसौ जनकोऽप्यथ तत्कृते ताम्यन् ॥२३१॥ गुणसुन्दरी सुतां प्रार्थयत् सुघोषं पुरोधसं सोऽपि । श्रावस्त्यां दत्ताऽसौ पुरोधसे नन्दनाख्याय ॥ २३२ ॥ प्रत्युत्तरमित्यगदत् तथापि न जहाति वेदरुचिरेषः। गुणमुन्दयाँ रागं सृजेत् तदर्थ बहूपायान् ॥ २३३ ।। परमपरवर्षणमिव तदशेषमभूद् निरर्थकं तस्य । श्रावस्त्या एत्य पुरोधसः सुतस्तामथोद्वाक्षीत् ।। २३४ ॥ श्रावस्त्यां प्राप्तोऽसावादाय वधूं तथापि वेदरुचिः । नैवोत्सृजस्तदाशा जगाम गिरिदुर्गगां पल्लीम् ॥ २३५॥ पल्लीशमुपास्य चिरं स तत्र संप्रार्थयत् स्वकार्याय । वेदरुचिः श्रावस्त्यां पुरि तमवस्कन्दसंपातम् ॥ २३६ ॥ प्रक्षिप्य भिल्लधार्टी पल्लीशोऽलुण्टयत् स तां नगरीम् । वेदरुचिविलपन्तीमादाद् गुणसुन्दरी मुदितः ॥ २३७ ॥
आनाय्य तांस पल्लीमवदत सुन्दरि ! हृतं त्वया यन्मे । चित्तं तदा तदर्पय यत् तेन विनास्मि शून्य इव ॥ २३८ ॥ तथा च-निवससि हृदये स्वमेषु दृश्यसे दिङ्मुखेषु घोलयसि । स्फुरसि सदा रसनायां यद्यपि दुरीकृता विधिना ॥ २३९ ॥
तस्मिन्नित्युक्तिपरेऽजल्पद् गुणसुन्दरी वितर्कपरा । नो लक्षयाम्यहं त्वां कदा कथं त्वन्मनश्च हृतम् ॥ २४० ॥ बटुराख्यत् स्वानुभवं दध्यौ श्रुत्वेति सुन्दरी चित्ते । ही ! रागान्धेनाहं कानीता दुष्टशबरेषु ? ॥ २४१॥
360G069900902999300903903
-
॥२०॥
-
For Private and Personal Use Only