________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वीचन्द्र
www.kobatirth.org
आशावन्धं विधायेति सोऽपि तत् प्रतिपन्नवान् । तत् पुस्फोटाथ वोहित्थं झटित्येवामभाण्डवत् ॥ २१७ ॥ पुण्येन फलकं प्राप्य प्राप्ता पारं च साऽम्बुधेः । प्राग्भग्नयानफलकेनापद्धर्मोऽपि तत् तटम् ॥ २९८ ॥ मिलितौ दैवयोगेन तत्र तौ प्रेमपेशलौ । मिथोऽनुभूतं चरितं स्वं स्वं प्राहतुरअसा ॥ २१९ ॥ ग्रामेशः कोऽपि तौ तत्र स्थितौ वीक्ष्य कृतादरः । गृहे नीत्वा कृतातिथ्यधर्मो हर्षादतिष्ठिपत् ॥ २२० ॥ सुलोचनोऽपि फलकं प्राप्य तीरे पयोनिधेः । पल्लयां कापि झपाहाराज्जातकुष्ठामयोऽभवत् ॥ २२१ || भ्रमन् स ऋद्धिसुन्दर्या वीक्ष्य पत्युः प्रदर्शितः । दयालुत्वेनोपधाद्यैर्धर्मस्तं नीरुजं व्यधात् ॥ २२२ ॥ यतः -- उपकारिषुपकारं कुर्वन्ति प्राकृता अपि प्रायः । अपकारिष्यपि ये चोपकारिणस्ते जगति विरलाः ॥ २२३ ॥ सुलोचनस्तत् सौजन्यं मत्वाऽनन्यसमं पुनः । निजदुश्चेष्टितेनाथ ब्रीडयाऽभूदधोमुखः ॥ २२४ ॥ तमपृच्छदथो धर्मो वैमनस्यस्य कारणम् । सोऽध्यारूयद् दुश्चरितं मे हृदि खाट्कुरुते भृशम् || २२५ ॥ त्वमप्यज्ञानमूढेन येन क्षिप्तोऽसि वारिधौ । सतीयं मन्मथान्धेन मयाऽभिलषितास्ति यत् ॥ २२६ ॥ लेभे तत्फलमवेत्युक्तिभाग् बोधितोऽय सः । परस्त्रीविरतो धर्मे धर्मेणैष महात्मना ॥ साध्वीदत्तं व्रतं यावज्जीवं साऽपालयत् सती । इहामुत्रापि शर्माणि लेभेडसावृद्धिसुन्दरी ॥ इति ऋद्धिसुन्दरीचरितं समाप्तम् ।
२२७ ॥
२२८ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
ee000
9000000000000300
चरितम् ॥