________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वीचन्द्र
चरितम
G63360000360Gt66035cbetét
अथ चेद् देवकोटीनां मुखं तेनैप तप्यते । तत्कथं तदनिष्ठं च शवाद्येष दहेत् स्वयम् ॥ ८८ ॥ शौचधर्मविदो यूयमशुचिग्रासतत्परम् । पूजयध्वं कथं देवधिया धूमध्वजं द्विजाः ! ॥ ८९ ॥ एवमंभो हरेल भणन्तः पादधावनात् । अशुचिक्षालनात् किं न विरोधो वः प्रवर्तते ?॥९० ॥ विरोधो यदि देवेषु तत् कथं दोषचिन्तनम् ?। क्रियतेऽस्मिन्नोतुरत्ने तथाऽन्यदपि चिन्त्यताम् ॥११॥ स्मरारिमपि मन्यध्वे यथा गौरीरतं शिवम् । वृषखादितमप्योतुं तथा कि नाखुहिसिनम् ? ॥ ९२ ॥ इति तथ्यगिरा विप्राः कृताः सद्यो निरुत्तराः । दध्यौ पद्मोत्तरः कोऽपि महानेष नरोत्तमः ॥ ९३ ॥ स्वरूपं देवतादीनां तत्पृच्छाम्यमुमादृतः । तथा कृते सोऽप्यगदद्धर्म सर्वज्ञभाषितम् ॥ ९४ ॥ हरिवेगः पुनः पद्मोत्तरं प्रति जगावदः । किं न स्मरसि भोः ! प्राच्यभवे ग्रैवेयकश्रियम् ? ॥ ९५ ॥ जातजातिस्मृतिः सोऽथ हरिवेगमभाषत । अहो ! ते ज्ञाननैर्मल्यमहो ! ते चोपकारिता ॥ ९६ ॥ सद्धर्मपक्षपातस्ते अहो ! कीदृगनुत्तरः। अहो ! कृपापरत्वं त अहो ! वात्सल्यमुत्तमम् ॥ ९७ ॥ त्वं तु मुक्तावलीजीवः खेचरत्वमुपागतः । कथश्चिन्मम बोधाय समायातोऽसि निश्चितम् ॥ ९८ ॥ तन्मुक्त्वा गूढरूपं स्वं यथावस्थं प्रदशय । तथा कृते मिथो गाढमालिलिङ्गतुरुन्मुदौ ॥ ९९ ॥ नृपोऽपि ज्ञाततवृत्तः सपोरः सपरिच्छदः । जिनधर्मकनिष्टोऽभूत् सुसङ्गः कस्य नेष्टदः ॥ १० ॥
300000000000000000
जातजातिस्मात
हो! कीदृगनुत्तरः कश्चिन्मम बोधाय
मालिलिङ्गतुरुन्मुदा
For Private and Personal Use Only