________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
000000000000000000
खेचरोऽवग्गुणैरश्मदारूणामप्यमूल्यता । मण्यादयो महाः स्युन वा किं चन्दनादयः? ॥७॥ गुणाः केऽस्येति लोकोक्ते खेचरोधग् नृपोकसि । गम्यते येन तत्र स्याद् गुणागुणविनिश्चयः ॥ ७६ ॥ इत्युल्लापपरो वृद्धवाडवैः परितो वृतः । वृषदंशं पुरस्कृत्य स नृपास्थानमागमत् ।। ७७ ॥ प्राग्भवाभ्यासतः पद्मोत्तरे तं प्रेमपेशलम् । पश्यत्यथ महीशस्तमूचे भोः ! कौतुमाप्तवान् ? ।। ७८ ॥ खेचरः स्माह केनापि ददे दिविपदैप मे । गुणाव्यस्यास्य नो मूल्यं वर्तते यजगत्यपि ॥ ७९ ॥ के गुणा अस्य राज्ञोक्ते खेचरोऽवक शृणु प्रभो ! । जीयते नापि कैरेष श्वमार्जारादिकरहो !॥ ८० ॥ अन्यच्च यत्रैव वसेनिशि तबाखवो ध्रुवम् । द्वादशयोजनैः स्थानं तत् त्यजन्ति भयद्रुताः ॥ ८१॥ गुणा अन्येऽपि बहवोऽस्येत्यसौ वाडवानवक । मूल्यं नास्त्यस्य किं खेप विक्रीणे दौस्थ्यपीडितः ॥४२॥ पश्यन्तः श्रुतिमेकां ते वृषनग्धामदोवदन् । विहस्य मूत्रकण्ठा भोः ! यदि द्वादशयोजनीम् ॥ ८३ ॥ प्रणश्यन्त्याखवस्तत् तैः किमीपत्कर्ण आशित: ? । पूर्वापरविसंवादिन्यतो यद्बो वचःस्थितिः ॥ ८४ ॥ (युग्मम् ).
खेचरोऽथावदद्भट्टाः ! सद्रत्नं नेति दृष्यते । देवादिष्वपि येनैवं विरोधो वः प्रकीर्त्यते ॥ ८५ ॥ तथाहि-यो गोद्विजागना दीन् हन्यात् कीदृक् स उच्यते। द्विजाः पोचुमेहापापः सोऽद्रष्टव्यमुखो भवेत् ॥८६॥
यद्येवं तत् प्रदीप्तो यो द्विजबालादिकं दहेत् । स पूज्यते कथं देवधियाऽग्निईमकाङ्क्षिभिः ? ॥ ८७ ॥
00000000000000000000000000
॥५४॥
-
For Private and Personal Use Only