SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir त्रयं बक्षिणी सीना 0000000000000000000000000 देहि वा हारित नेत्रद्वयं ब्रह्मथ नो व्यधाम्। द्यूतं त्वया सहावादी सत्यवादीति सोऽप्यदः ॥१०॥ कृतमेव मया द्यूतं त्वदायत्ते च मेऽक्षिणी। कुरु यद् रोचते तुभ्यमित्युक्तिनिभृते धने ॥ १०१॥ तथाविधतरुक्षीरक्षेपणादक्षिणी क्षणात् । सोऽक्षेप्सीद् भ्रातुरेषोऽपि तस्मिन् नेपद्रुषं व्यधात् ॥ १०२॥ दम्भधीधरणोऽवग् हा ! पापोऽकार्ष त्वयीदृशम् । इत्यमुं विलपन्तं सोऽधारयन्मधुरोक्तिभिः ॥ १०३॥ व्याघ्रा व्याघ्र इतो भ्रातर्बुवन्नित्युदितोऽमुना । पलायस्व द्रुतं तत् त्वं माभूद् यन्नः कुलक्षयः ॥ १०४ ॥ पलाय्य सोऽपि संपूर्णेप्सितः स्वपुरमासदत् । परिभ्रमन् धनोऽप्यापदेकं प्रवरशाखिनम् ॥ १०५ ॥ तत्रस्थं तं क मे भ्राता गतो वा कथमस्ति सः ? । मुहुः खिद्यन्तमित्यन्तरैक्षिष्ट वनदेवता ॥ १०६ ॥ अहो ! सौजन्यमस्याहो ! दौर्जन्यमपरस्य तु । ज्ञात्वेति तं जगौ देवी वत्सालं तस्य चिन्तया ॥ १०७ ॥ नेत्ररोगहरीमेतां वत्सादत्स्वाअनौषधीम् । वदन्तीत्यमरी दत्त्वा तो तस्मै द्राक् तिरोऽभवत् ॥ १०८ ॥ तदानप्रयोगेण धनः प्रगुणलोचनः । सुभद्रनगरं प्रापदतिक्रम्य महाटवीम् ॥ १०९॥ नेत्ररोगार्दिता तत्र राज्ञः कन्याऽस्ति तस्कृते । पटहं वाद्यमानं चाघोषणां सोऽशृणोदिति ॥ ११० ॥ कन्यारत्नं प्रगुणनयनं यः सृजेत् तस्य राजा राज्यस्याई वितरति सुतां चेति सम्यग् निशम्य । स्पृष्ट्वा सोऽप्यानकमपगदं नेत्रयुग्मं विधाय प्राज्यप्रीत्या नृपतितनयां पयणैषीद् धनस्ताम् ॥ १११ ॥ 90000000000000000000000000 ॥३५ For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy