________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
90000000000000000000000
तथा च-निमेषमपि योऽनेन सम गोष्ठीपरो भवेत् । वजुलेनेव विषभृद् विषमंहः स मुश्चति ॥ ७६ ॥
विभावयन्तु तच्चित्ते तत्त्वेनैतत् सभासदः । केनापि पिशुनेनैतद् दुर्घटं घटितं ननु ॥ ७७ ॥ भवेद् विषभृतोऽप्येष खलोऽतिविषमः खलु । यत्फणी नकुलद्वेषी स्वकुलद्वेषभाक खलः ॥ ७८ ॥ इति पौरवास्युच्चेनिरंकुश इव द्विपः । नृपोऽवज्ञाय स न्यायविमुखोऽथाभवत् तदा ॥ ७९ ॥ क्रोधोत्कटो भटान् प्रेष्यावन्धयद् विनयन्धरम् । महीभुम् मुक्तमर्यादस्तत्सर्वस्वमलुण्टयत् ॥ ८० ॥ स्वस्यावरोधे तास्तस्यानाययत् स वधः कुधीः । विरुद्धपक्षपा यूयमिति पौरानभर्सयत् ॥ ८१ ॥ भूपो रूपं निरीक्ष्यासामथ श्लथनयो भृशम् । दध्यौ न सुरवध्वोऽपि भवन्त्येवंविधा दिवि ।। ८२ ॥ तद्धन्योऽस्म्येष मान्योऽस्मि यस्यैता दयिता गृहे। स्वयं स्निह्यन्त्यमूश्चेत् तत्सौभाग्योपरि मअरी ।। ८३ ॥ यद्वा किं चिन्तया सर्व क्रमात् सेत्स्यत्यभीप्सितम्। उदुम्बरफलं सद्यः पच्यते क्षुधितस्य किम् ? ॥ ८४ ॥ ध्यात्वेति तासां शयनासनभूषायदापयत् । भूपतिस्ताश्च विषवत् तदवाज्ञासिषुर्भृशम् ॥ ८५ ॥ प्रेषीद् भूपोऽन्यदा चेटीस्ताः प्राहुर्विनयानताः । स्वामिन्यो मुश्चतोद्वेगं फलितं सुकृतं हि वः ॥ ८६ ॥ यदेषोऽस्मत्पभुयुष्मास्वानुकूल्यं दधात्यलम् । रुष्टः कीनाशसङ्काशस्तुष्टो यः स्वस्तरूपमः॥ ८७ ॥ तद् विषादनिषादं द्रागपहाय स्वमानसे । भुज्यन्तां भूभुजा साकं भोगा ये दुर्लभा भवे ॥ ८८ ॥
6000000000000000000
॥२४॥
For Private and Personal Use Only