SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir खीचन्द्र चरितम Goo0000000000000000000ODE ऊचुस्ताः शीललीलाभिः प्रशस्ताश्चेटिकाः प्रति । मुहुर्मावादिषुरिदं हलाः ! कोलाहलाकुलाः ।। ८९ ॥ रुष्टोऽयं दुष्टभूपश्चेत् प्राणान्तं नः करिष्यति । तत् साध्वखण्डशीलानां श्रयान् मृत्युरपीह यत् ॥ ९ ॥ वरं प्रविष्टं ज्वलने न पुनः खण्डितं व्रतम् । वरं हि मृत्युन पुनः शीलभ्रष्टस्य जीवितम् ॥ ९१ ॥ ताभिरित्यद्भुतैर्वाक्यभृशं निर्भसितास्तु ताः । चेव्यो व्यजिज्ञपन् सर्व भूमिभत्रे तदादितः ॥ ९२ ॥ भूपस्तन्निश्चयं ज्ञात्वा तथापि स्वेष्टसिद्धये । चिन्ताचान्ततरस्वान्तस्तदुपान्तमथाग़मत् ॥ ९३ ॥ ताभिदृष्टयापि न स्पृष्टः स दुष्टोऽनिष्टनिष्ठुरः। तथापि नामुचत् पार्च धिगहो! मोहजृम्भितम् ॥ ९४ ।। अन्यदा नृपतिस्तासां यावद् रूपं निरीक्षते । तावत् ता अनलज्वालापिशङ्गाङ्गशिरोरुहाः ।। ९५ ।। वक्रदन्तोष्ठनासाश्च सर्वाङ्गेष्वतिगर्हिताः । सोद्वेगं वीक्ष्य भूपालोऽचिन्तयच्चेति चेतसि ॥ ९६ ॥ (युग्मम्.) दृग्बन्धः किमयं किं वा भवेद् विलसितं विधेः । किं वा पापप्रयोगोऽयं कोऽप्यकस्माद् विजृम्भते ॥ ९७॥ अथ विज्ञाततवृत्ता देव्यागात् तत्र भूपतेः । कृतकोपा च सा सोपालम्भं भूवल्लभ जगौ ॥ ९८ ।। धिक त्वां नृपसुतां हित्वा परस्त्रीसङ्गमिच्छसि । स्वायत्तासु विरक्तस्त्वं परायत्तासु रज्यसि ॥ ९९ ।। यतः-रज्येबीचः परस्त्रीषु स्वायत्तायां स्त्रियामपि । परिपूर्णेऽपि सरसि पिवेत् काको घटोदकम् ।। १०० ॥ ततो लज्जावनम्राङ्गो दातुं प्रतिवचोऽक्षमः । क्ष्मापो व्यसीसृजत् ताश्च सधनं विनयन्धरम् ॥ १०१ ॥ { For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy