SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir चन्द्रा चरितम्॥ 000000000000000000000000 यदङ्कसङ्गतो भाति पारीन्द्रोऽतन्द्रविक्रमः । कर्मभभेदे भव्यानामिव वीरः स व श्रिये ॥५॥ गौतमो वस्तमो हन्तु चेतोविवरसंभवम् । यमालिलिगुयुगपत् सौभाग्याल्लब्धयोऽङ्गनाः ॥६॥ यद्वारगृहमणेर्जाड्यध्वान्तं भिन्न क्षणान्नृणाम् । तेभ्यः सद्गुणवार्षिभ्यः श्रीगुरुभ्यो नमो नमः ॥७॥ स्मृत्वा वाग्देवतां चित्ते नत्वा सद्गावतोऽर्हतः । पृथ्वीचन्द्रमहीन्द्रस्य चरित्रं कीर्तयाम्यहम् ॥ ८॥ तथाहि जम्बूद्वीपेऽत्र भरते देशे सुमङ्गलाभिधे । पुरं शङ्खपुरं तत्र राजते शङ्खभूपतिः॥९॥ पितेव स प्रजाः शासदन्यदाऽऽस्थानमास्थितः । गजश्रेष्टिसुतो दत्तः सोपदस्तमथानमत् ॥ १०॥ स्वागतादिप्रश्नपूर्व भूकान्तस्तमवीवदत् । किं चिराद् दृश्यसे भोस्त्वं दत्तः प्राह शृणु प्रभो ! ॥११॥ वणिजां देशयात्रादेरपि युक्तं धनार्जनम् । विभवार्जनलोभेन तद्भरि भुवमभ्रमम् ॥ १२ ॥ तथा च यः स्वगेहादिमाहेन नाक्रमेद् भूयसी भुवम् । स कूपभेकवत् सारासारं वेत्ति न किश्चन ॥ १३ ॥ यत: दृश्यते विविधाश्चर्य लक्ष्यते भाग्यमात्मनः । ज्ञायते सदसद्भेदो भ्रम्यते तेन भूतले ॥ १४ ॥ 0003330000OO00000CCO3000€ For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy