________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
380GGOOOOOOOOOOOOOOOOOO
नृदेव ! देवशालाख्यं वाणिज्याय गतः पुरम् । नृपोऽजल्पत् किमाश्चर्य तत्र दृष्टं श्रुतं वद ? ॥ १५ ॥ दत्तोऽवदद् देवशालं विविधाश्चर्यसकुलम् । विमानानीव गेहानि यत्र पौराः स्मरा इव ॥ १६ ॥ दृष्टं यदपरं चित्रं यत्र तद्वक्तुमक्षमः । विलोकयतु तद्देवः स्वयमेवोति संलपन् ।॥ १७ ॥ मुमोच चित्रफलकं सोऽपि तद्वीक्ष्य विस्मितः । प्राह चित्रस्थिता केयं सुरी हरति मे मनः ॥ १८ ॥ अथ स्यान्नेदृशं रूपं किन्तु विज्ञानकौशलम् । कस्यापि शिल्पिनो ह्येतद् दत्तः स्माहावधार्यताम् ।। १९ ॥ देव ! दृष्टमपूर्ण च लिखतः कौशलं नु किम् । अदृष्टप्रतिरूपस्य निर्माणे कौशलं विधेः ॥ २० ॥ राजाख्यत् किमपूर्ण यद्देवी सर्वाङ्गसुन्दरी । कापि चित्रस्थिताप्युच्चैधिनोति मम मानसम् ।। २१ ॥ स्मित्वा सोऽप्याह देवीत्वं प्रापि मानुष्यपि त्वया। यद्वा देवस्य देव्यः स्युर्मानुष्योऽपि न संशयः ॥ २२ ॥ किमीदगरूपशालिन्यो मानुष्यः संभवन्त्यहो!। दत्तोऽवग लेखितुं शक्याः किमस्या विभ्रमादयः ॥ २३ ॥ लिखितं शिल्पिना रूपं दृग्विनोदाय केवलम् । तां वीक्ष्य पश्यंश्चित्रस्थं मन्यते कूटलेखकम् ॥ २४ ॥ नृपोऽवग भद्रः कस्यैषा सुता दत्तोऽवदद् विभो । स्वसा ममेयं तद्भोः! किं देवशाले त्वयक्षिता ॥२५॥ दत्तोऽवक् परमार्थ वः कथयामि यदेकदा । पितुरादेशतो देशदिदृक्षायै सुसार्थयुक ॥ २६ ॥ देवशालदेशसन्धौ बहुपत्तिसमन्वितः । वेगवत्तुरगारूढो दर्शयन्मार्गमग्रतः ॥ २७ ॥
0000000000000000000000
For Private and Personal Use Only