SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0000000 सत्वाधिक ! तव वचनैरज्ञानतमो निरस्तमधुना मे | कालमियन्तं कुजनासङ्गेन विडम्बितोऽस्म्यधिकम् ॥ ३६ ॥ तन्मृष मदीयमागः परलोकहितावहाय धर्माय । अथ कर्ताऽस्म्यभियोगं त्वं धर्मगुरुर्ममासि विभो ! ॥ ३७॥ अस्त्यत्रव्रणरोहणमणिरत्नं तद् गृहाण मत्पार्धात् । उररीचक्रे धात्रीधवोऽपि तत् तदुपरोधेन ॥ ३८॥ अत्रान्तरे विभाता रजनी द्वावपि गतौ निजं स्थानम् । सप्तदिनान्ते देवीकुक्षावथ पूर्णचन्द्रसुरः॥ ३९ ॥ पुत्रत्वेनावतरन्मिहिरस्वनोपमूचितः सोऽत्र । देवी बभार गर्भ निधानमिव भासुरं भूमिः ॥ ४० ॥ (युग्मम् ).2 मासेऽथ सप्तमेऽभूद् देव्या इति दोहदः स्फुटं चित्ते । यदई गजाधिरूढा समस्तसामन्तसंयुक्ता ॥ ४१ ।। विहरामि पुरग्रामारामेषु निशम्य भूपतिरपीति । वरवारणाधिरूढां तामनयत् कचन चोपवने ॥ ४२ ॥ (युग्मम् ). तत्र करुणं रुदन्ती नियमाकाह भूपति देवी । स्वरलक्षणेन खेचरवनितामेतामहं वेद्मि ॥ ४३ ॥ तत् तत्र नाथ ! गत्वा हारंय तदुःखमथ नृपो देव्या । उक्तस्तत्र गतश्चापश्यत् खंचरं नरं प्रहारार्तम् ॥ ४४ ।। तत्पार्षे च रुदन्तीं तां खेचरवल्लभां नृपो वीक्ष्य । प्राग्लब्धमणिप्रक्षालनाम्बुना तं प्रगुणमकरोत् ॥ ४५ ॥ खेचरयुवापि तन्मणिमाहात्म्यसचित्रमानसो राज्ञा । भणितो भद्र ! कथं ते व्यसनमिदं दारुणं पतितम् ॥४६॥ अथवा महीयसामिह विपदोऽपि भवन्ति संपदश्चैव । हानिवृद्धिरपीन्दोः स्याद् नतु लघुतारकौघस्य ॥ ४७ ॥ १ व्यपनयेति पाठः क्वचित् । २ प्रहारविधुरं खचरपुरुषम्, इत्यपि पाठः । 900OOOOOOOOOOOOOOOOOOOOO CGCCES ॥४८॥ For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy