________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
थ्वीचन्द्रा
चरितम्।
000000000000000000000003
तस्यावरोधमुख्याऽभूद् राज्ञी कमलसुन्दरी। तयोः सुशीला सकला सुताऽऽसीद् रतिसुन्दरी ॥ ११५ ॥ श्रीदत्तमन्त्रिणस्तत्र पुण्यभूद् बुद्धिसुन्दरी। सुमित्रवेष्ठिनश्चापि सुता जातर्दिसुन्दरी ॥ १२६ ।। पुरोधसः सुघोषस्य पुत्री च गुणसुन्दरी । एताश्चतस्रोऽपि मिथः सख्यः सवयसोऽपि च ॥ ११७ ॥ आसते शेरते चापि भुगते विचरन्त्यपि । सहैव क्षणमप्यासां यदासीन वियुक्तता ॥ ११८ ॥ सुमित्रवेष्टिनो गेहे निषेदुष्योऽन्यदाऽथ ताः। तत्रागतां मुदाऽपश्यन् साचीं नाम्ना गुणश्रियम् ॥ ११९ ।। रतिसुन्दर्यथावोचत् सख्यः! कैषा सिताम्बरा? मूर्त्ता ब्राह्मीव या नेत्रानन्दं सृजति वीक्षिता ॥ १२० ॥
श्रेष्ठिपुत्री जगावस्मत्पित्रोः पूज्या तपोनिधिः । भारतीव श्रुतापूर्णाऽसौ शमश्रीरिवाङ्गिनी ॥ १२१ ॥ तथा च-धन्या एतां नमस्यन्ति धन्या एतामुपासते । धन्या एतद्रिं नित्यं शृण्वन्ति विहितोद्यमाः॥ १२२ ॥
कुमार्यस्तास्ततः पुण्यप्रशस्तास्तां ववन्दिरे । आचख्यौ सा पुरस्तासामर्हद्धर्म सविस्तरम् ॥ १२३ ॥ ताः सर्वा अपि मिथ्यात्वक्षयोपशमतस्तदा । सम्यक्त्वमूलं गृहिणां धर्म संप्रत्यपीपदन् ॥ १२४ ।। परपुंसङ्गनियमं विशेषात् ता अदीदृढन् । कुलस्त्रीणां यतः शीलमेवान्तरविभूषणम् ॥ १२५ ।। भवे भवेऽपि सुलभा भूर्भुवःस्वस्त्रयीनरः । पुनः पुनः सुदुष्पापा शीललक्ष्मीरियं परम् ॥ १२६ ॥ एवमस्खलितं धर्म ताश्चतस्रोऽप्यपालयन् । कियन्तं सुखसंयुक्तं समयं चात्यवाहयन् ॥ १२७ ॥
000000000000000000000000
For Private and Personal Use Only