SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीराङ्गदनृपोऽप्यष सप्तमस्वर्गतश्च्युतः । जातोऽत्रैव पुरे राजा पुरुषोत्तमसंज्ञकः ॥ १०४ ॥ श्रुत्वेति वसुधाधीश वाचं वाचंयमेशितुः । संविग्नो विषयोद्विग्नोऽभ्यार्थयत् संयमश्रियम् ।। १०५ ।। बोधि प्राप्य मुनेर्वाचा प्राञ्जलः स कपिञ्जलः । प्राह प्रभो ! ममापि त्वं देहि देहिहितं व्रतम् ।। १०६ ॥ पुनः पप्रच्छ पुरुषोत्तमः पृथ्वीपतिर्मुनिम् । कपिञ्जलेन भगवन् ! किमाचीर्ण पुरा भवे ? ॥ १०७ ॥ गुरुराख्यद् वसन्ताख्य पुरेऽसौ श्रावकोऽभवत् । शिवदेवाभिधो ब्रह्मचार्यणुव्रतधारकः ॥ १०८ ॥ व्युद्ग्राहितो मोहनेन मात्सर्ये मुनिषु व्रजन् । मृत्वा किल्विषिको जातश्चण्डालेषु ततोऽभवत् ॥ १०९ ॥ ततो धूमप्रभा पृथ्व्यां नारको निर्गतस्ततः । जातः कपिञ्जलस्तेन प्रीतिरस्यास्ति केशवे ।। ११० ॥ अतस्तद्वचसा त्यक्त्वा धर्ममेष कुलागतम् । शिश्राय चार्वाकमतं कुसङ्गो हाथ हानिकृत् ॥ १११ ॥ ऋजुतावान् निजां जातिं स्मृत्वा बुद्धः कपिञ्जलः । केशवस्तु चिरं घोरं संसाराब्धि भ्रमिष्यति ॥ ११२ ॥ इति श्रुतिभ्यामाकर्ण्य पुरुषोत्तमभूपतिः । कपिञ्जलाद्यैर्बहुभिः प्रतिपन्नोऽनगारताम् ॥ ११३ ॥ इति कनकध्वजराजा श्रुत्वा दृष्ट्वा च तच्चरित्राणि । संविग्नो निजराज्येऽभिषिच्य पुत्रं पुरुषचन्द्रम् ॥ ११४॥ जयसुन्दरेण साकं संयममादाय निष्कलङ्कतया । प्रतिपाल्य चिरं मृत्वा विजयविमानेऽभवत् त्रिदशः ॥ ११५ ॥ तत्र द्वात्रिंशन्मितसागरसङ्ख्यायुषौ निरस्तरूपौ । अहमिन्द्रतासुखजुषौ तौ समयं चात्यवाहयताम् ॥ ११६॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रमहाराजर्षिचरिते कनकध्वजराजर्षिचरितं नवमं भवग्रहणम् । For Private and Personal Use Only | ॥६७॥
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy