________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिष्टधुनापि दृष्टोऽस्ति चेत्प्रभुर्भवपारदः । भोक्ष्येऽतो जिनमानम्येत्यभिजग्राह कीरराट् ॥ २९८ ॥ कुमारी शुकमादायाजगाम स्वनिकेतनम् । पक्षिणं पञ्जरात् कृष्ट्वा यावद् भोक्तुमुपाविशत् ॥ २१९ ॥ तावन्नमोऽर्हद्भ्य इति ब्रुवन्नुड्डीय सोऽप्यगात् । जिनं नत्वा फलाहारं कुर्वन्नास्ते स कानने ॥ २२० ॥ ( युग्मम् ). सुलोचनाथ सा नैव भुते तद्विरहासहा । अहर्निशं महाक्रन्दपरा तिष्ठति दुःखतः ॥ २२९ ॥ अथ राज्ञा नियुक्तैस्तैः पत्तिभिः पाशपातनात् । बद्धा शुकः समानीतोऽर्पितस्तस्यै प्रमोदतः || २२२ ॥ कुमारी तं गृहीत्वा चाक्षिपत् कर्कशया गिरा । रे रे ! गतः क मां मुक्त्वा स्मरेस्त्वं यद्गतं पुरा ॥ २२३ ॥ अतः परं न दास्यामि निर्गन्तुं त्वां कदाप्यहम् । लुलाव पक्षावित्युक्त्वाऽक्षिपत् सा तं च पअरे ॥ २२४ ॥ दध्यौ सुधीः शुकोऽप्यन्तर्धिक् पराधीनदेहिनः । परायत्तोऽङ्गभृत्स्वस्य हितं नाचरितुं क्षमः ॥ २२५ ॥ यतः - हठान्नीचतरं कार्य कायते मार्यतेऽपि च । नरकावासदेशीयां धिक परायत्ततामहो ! ॥ २२६ ॥ तपः क्रियाद्यनुष्ठानं स्वाधीनो न व्यथां तदा । अतः स्तोकमिदं मेऽत्र सहिष्येऽथ विडम्बनाम् || २२७ ॥ जिनास्पद्ममप्येष वीक्षितुं न क्षमोऽधुना । इत्यश्रुमिश्रनयनोऽनशनं स प्रपन्नवान् ॥ २२८ ॥ पञ्चभिर्वासरैर्मृत्वा सौधर्मेऽसौ सुरोऽजनि । सुलोचनापि तमनु मृता तस्यैव देव्यभूत् ।। २२९ ।। ततश्चचुत्वा क्रमात् शङ्ख इत्यभूद् भूपतिर्भवान् । सुलोचनापि च्युत्वाभूत् सकलासौ कलावती ॥ २३० ॥
For Private and Personal Use Only
॥१०॥